"संस्काराः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.4) (Robot: Adding en:Saṃskāra
No edit summary
पङ्क्तिः १२: पङ्क्तिः १२:
# [[जातकर्मसंस्कारः]]
# [[जातकर्मसंस्कारः]]
# [[नामकरणसंस्कारः]]
# [[नामकरणसंस्कारः]]
# [[कर्णवेधसंस्कारः]]
# [[निष्क्रमणसंस्कारः]]
# [[निष्क्रमणसंस्कारः]]
# [[अन्नप्राशनसंस्कारः]]
# [[अन्नप्राशनसंस्कारः]]
# [[चूडाकर्मसंस्कारः]]
# [[चूडाकर्मसंस्कारः]]
# [[उपनयनसंस्कारः]]
# [[उपनयनसंस्कारः]]
# [[वेदारम्भसंस्कारः]]
# [[केशान्तसंस्कारः]]
# [[केशान्तसंस्कारः]]
# [[समावर्तनसंस्कारः]]
# [[समावर्तनसंस्कारः]]
# [[उद्वाहसंस्कारः]]
# [[विवाहसंस्कारः]]
# [[विवाहसंस्कारः]]
# [[अन्त्येष्टिसंस्कारः]]
# [[अन्त्येष्टिसंस्कारः]]

०६:१०, १४ फेब्रवरी २०१२ इत्यस्य संस्करणं

संस्कारशब्दार्थः

बहुष्वर्थेषु संस्कारशब्दस्य प्रयोगो दृश्यते परिष्करण – भूषण- प्रशिक्षण- संस्कृति- स्वशुध्दिक्रिया धार्मिकविधानादिषु विभिन्नेष्वर्थेषु प्नयुक्तोऽयं संस्कारशब्दः । शास्त्रान्तरेष्वपि अस्य स्वरुपं भिन्नतय वर्णितम् । वेदान्तिनां मते “देहे समुत्पद्यमानः स्नानाचमनादिजन्यजीवधर्मः संस्कारः। भावस्य व्यक्तिकरणार्थमात्मब्यञ्जनशक्तिरेव संस्कार इति नैयायिकमतम् । धर्मशास्त्रे तु मानवस्य कायिक –वाचिकपरिशुध्दयर्थं धर्मिकक्रियानुष्ठानेनात्मनि जायमानो धर्मैविशेषः संस्कार इति प्रतिपादितम् । सामान्यतः धार्मिकक्रियाकल्पार्थे संस्कारशब्दस्य व्यवहारो दृश्यते व्याकरणे ।

संस्कारभेदः

गर्भाधानादारभ्यान्त्येष्टिं यावत् त्रयोदशसंस्काराः इति मनुना प्रतिपादितम् । ते च यथा – गर्भाधानम्, पुंसवनम्, सीमन्तोन्नयनम्, जातकर्म, नामकरणम् बहिर्निष्कमणम्, अत्रप्राशनम्, चूडाकर्म, उपनयनम् केशान्तः समावर्त्तनम्, विवाहः, अन्त्येष्टिश्चेति । एषु केशान्तसंस्कारं विहायावशिष्टाः द्वादशसंस्काराः स्वीकृताः याज्ञवल्क्येन । तेन समावर्त्तनसंस्कारेण केशान्तसंस्कारस्यान्तर्भावः कृतः ।

षोडशसंस्काराः

संस्कारशब्दः सम् उपसर्गपूर्वकं 'कृञ्'धातुना घञ् प्रत्ययपूर्वकम् स्म्स्कृतभाषायां व्याकरणशास्त्रदृष्ट्या व्युत्पत्तिर्भवति । सम + कृञ् + घञ्, इति संस्कारः । संस्कारशब्दस्य प्रयोगः बहुधा भवति । मीमांसादर्शने अस्य संस्कारशब्दस्य अर्थः यज्ञाङ्गभूत पुरोडाशादि शुद्ध्यर्थं प्रोक्षणविक्षणादिना सम्पन्ना भवति । अद्वैतवेदान्तिमतानुसारेण शारीरिकक्रियाणां मिथ्याक्षेपः संस्कारः इति । नैय्यायिकभावना अभिव्यक्तिहेतुना आत्मव्यञ्जकशक्तिः संस्कारः कथ्यते । मानवजीवने संस्काराः महत्त्वपूर्णाः सन्ति । संस्कारैः मनुष्यत्वं मानवता एवं व्यक्तित्वविकासश्च भवति । भिन्नेषु ग्रन्थेषु संस्काराणां संख्या भिन्ना दर्शिता वर्तते । जन्मना मानवः अपूर्णः भवति । संस्कारैश्च तत्र पूर्णता आगच्छति । भारतीयग्रन्थपरम्परया प्रायः षोडशसंस्काराः करणीयाः इति अस्माकं भगवान् बादरायणः अपि सूचयति । ते च इत्थं सन्ति ।

  1. गर्भाधानसंस्कारः
  2. पुंसवनसंस्कारः
  3. सीमन्तोन्नयनसंस्कारः
  4. जातकर्मसंस्कारः
  5. नामकरणसंस्कारः
  6. कर्णवेधसंस्कारः
  7. निष्क्रमणसंस्कारः
  8. अन्नप्राशनसंस्कारः
  9. चूडाकर्मसंस्कारः
  10. उपनयनसंस्कारः
  11. वेदारम्भसंस्कारः
  12. केशान्तसंस्कारः
  13. समावर्तनसंस्कारः
  14. उद्वाहसंस्कारः
  15. विवाहसंस्कारः
  16. अन्त्येष्टिसंस्कारः

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=संस्काराः&oldid=180080" इत्यस्माद् प्रतिप्राप्तम्