"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १९: पङ्क्तिः १९:
* [http://trivandrum.nic.in/ तिरुवनंतपुरम शासनं]
* [http://trivandrum.nic.in/ तिरुवनंतपुरम शासनं]


[[वर्गः:नगरानि|तिरुवनन्तपुरम्]]
[[वर्गः:केरलराज्यस्य मण्डलानि|तिरुवनन्तपुरम्]]
[[वर्गः:भारतस्य नगराणि|तिरुवनन्तपुरम्]]
[[वर्गः:भारतस्य नगराणि|तिरुवनन्तपुरम्]]



०४:१७, २८ फेब्रवरी २०१२ इत्यस्य संस्करणं

राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्

तिरुवनन्तपुरम् केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति । अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति ।

केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण नित्यहरितनगरम् इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।

तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते । विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्ति । केरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते ।

नामचरितम्

तिरुवनन्तपुरस्य प्रासादः

तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।

नगरचरितम्

ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थिति: भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् । आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरम् तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।

"https://sa.wikipedia.org/w/index.php?title=तिरुवनन्तपुरम्&oldid=183223" इत्यस्माद् प्रतिप्राप्तम्