"यूरोपखण्डः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
३७ राष्ट्रैः युक्तः अयं खण्डः १०,६००,००० चतुरस... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ५: पङ्क्तिः ५:
अस्य खण्डस्य भूयान् भागः शीतलेन हितावहेन वातावरणेन युक्तः भवति । नार्वे-स्वीडन्-फिन्लेण्ड्-देशानाम् उत्तरभागाः अर्क्टिक्वलये विद्यन्ते इत्यतः सर्वदा शैत्येन युक्ताः भवन्ति । ग्रीष्मऋतौ अयं खण्डः शीतलं भवति । शैत्यकाले हिमपातः भवति ।

===वृष्टिः===
===वृष्टिः===
अस्मिन् खण्डे वार्षिकी वृष्टिः प्रायः ७५० मिलिमीटर्मितं भवति । पोर्चुगल्तः कृष्णसमुद्रपर्यन्तं विस्तृतेषु भूभागेषु ततः उत्तरदिशि च वृष्टिः १००० मिलिमीटर्मितं ततोप्यधिकं वा भवति ।
अस्मिन् खण्डे वार्षिकी वृष्टिः प्रायः ७५० मिलिमीटर्मितं भवति । पोर्चुगल्तः कृष्णसमुद्रपर्यन्तं विस्तृतेषु भूभागेषु ततः उत्तरदिशि च वृष्टिः १००० मिलिमीटर्मितं ततोप्यधिकं वा भवति । उक्रेन्-रशियाभागेषु वृष्टिः ५०० मिलिमीटर्मितस्य अपेक्षया न्यूना भवति । विशेषतया इटलीदेशस्य आल्प्स्-पर्वतश्रेणीप्रदेशेषु नार्वे स्काट्लेण्ड् ऐर्लेण्ड्प्रदेशेषु च २००० मिलिमीटर्मितस्य अपेक्षया अधिका भवति । रशियादेशस्य भागेषु वृष्टिः न्यूना भवति । किन्तु महत् शैत्यं भवति । ब्रिटन्-नार्वेप्रदेशेषु आवर्षं वृष्टिः भवति । मेडिटरेनियन्समुद्रं परितः विद्यमानेषु भूप्रदेशेषु शैत्यकाले वृष्टिः भवति ।
===औष्ण्यम्===
जुलैमासावसरे सूर्यः कर्कवृत्ते भवति इत्यतः तस्मिन् समये अस्मिन् खण्डे महदौष्ण्यं भवति । जनवरीमासे शैत्यकालः भवति । शैत्यकाले बाल्कन्-राज्येषु, इटलि, स्पेन्, पोर्चुगल्, फ्रान्स्, ग्रेट्-ब्रिटन्, नेदर्लेण्ड् इत्यादिषु प्रदेशेषु ०<sup>०</sup> - १०<sup>०</sup> सेण्टिग्रेड्मितं भवति औष्ण्यम् । स्पेन्देशे पोर्चुगल्देशे च १०<sup>०</sup> सेण्टिग्रेड्मितं भवति । रशियादेशे -२०<sup>०</sup> - -२५<sup>०</sup> सेण्टिग्रेड्मितं न्यूनं भवति ।

०७:२३, ६ एप्रिल् २०१२ इत्यस्य संस्करणं

३७ राष्ट्रैः युक्तः अयं खण्डः १०,६००,००० चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । दक्षिण-पूर्व-मध्य-वायव्य-उत्तरसमुद्रप्रदेशाः इति अयं खण्डः परिगणयितुं शक्यः । अस्य खण्डस्य जनानां बाह्यलक्षणस्य अनुगुणं काकेसायिड्, नार्डिक्, आल्पैन्, अर्मेनायिड् इत्येते प्रकाराः दृश्यन्ते । अत्र जर्मेनिक्, स्लाव्, केल्टिक्, रोमेण्टिक् इत्यादयः विविधाः भाषाः विद्यन्ते अस्मिन् ।

वातावरणम्

अयं खण्डः उत्तरगोलार्धे ३५ - ७० अक्षांशयोः मध्ये विद्यते इत्यतः वातावरणे विपरीतम् वैविध्यं दृश्यते । पोर्चुगल्, इटलि, अल्बेनिया, स्पेन् इत्यादिषु देशेषु औष्ण्यकाले हितकरं वातावरणं शैत्यकाले शीतलं मेडिटरेनियन्-वातावरणं च भवति । उक्रेन्-देशस्य आग्नेयभागर्धः, रशियादेशस्य दक्षिणभागेषु भ सामान्यतः शुष्कं वातावरणं भवति । अत्र वृष्टिः अल्पा । नार्वे, स्वीडन्-देशस्य उत्तरभागः, फिन्लेण्ड्, रशियादेशस्य उत्तरप्रदेशः, आर्कटिक्-प्रदेशेषु च अत्यधिकं शैत्ययुतं वातावरणं भवति । अत्र द्वीपेषु च शीतमरुभूमेः वातावरणं भवति । नार्वेदेशस्य पर्वताः, स्वीडन्देशस्य दक्षिणभागः, रशियादेशस्य मध्यभागः, बेलारस्, उक्रेन्-देशस्य उत्तरभागः वायव्यभागः, रोमेनियादेशस्य पूर्वभागः इत्येतेषु भागेषु शीतलं खण्डान्तरवातावरणं भवति । अवशिष्टेषु भागेषु तन्नाम ऐर्लेण्ड्, ग्रेट्-ब्रिटन्, फ्रान्स्, जर्मनि, नेदर्लेण्ड्स्, पोलेण्ड्देशस्य पश्चिमभागः, स्लोवाकिया, झेक्-रि, हङ्गेरि, रोमेनियादेशस्य दक्षिणभागः, युगोस्लाविया, बल्गेरिया इत्यादिषु भागेषु आर्द्रं समशीतोष्णं वातावरणं भवति ।

परिसरः

अस्य खण्डस्य भूयान् भागः शीतलेन हितावहेन वातावरणेन युक्तः भवति । नार्वे-स्वीडन्-फिन्लेण्ड्-देशानाम् उत्तरभागाः अर्क्टिक्वलये विद्यन्ते इत्यतः सर्वदा शैत्येन युक्ताः भवन्ति । ग्रीष्मऋतौ अयं खण्डः शीतलं भवति । शैत्यकाले हिमपातः भवति ।

वृष्टिः

अस्मिन् खण्डे वार्षिकी वृष्टिः प्रायः ७५० मिलिमीटर्मितं भवति । पोर्चुगल्तः कृष्णसमुद्रपर्यन्तं विस्तृतेषु भूभागेषु ततः उत्तरदिशि च वृष्टिः १००० मिलिमीटर्मितं ततोप्यधिकं वा भवति । उक्रेन्-रशियाभागेषु वृष्टिः ५०० मिलिमीटर्मितस्य अपेक्षया न्यूना भवति । विशेषतया इटलीदेशस्य आल्प्स्-पर्वतश्रेणीप्रदेशेषु नार्वे स्काट्लेण्ड् ऐर्लेण्ड्प्रदेशेषु च २००० मिलिमीटर्मितस्य अपेक्षया अधिका भवति । रशियादेशस्य भागेषु वृष्टिः न्यूना भवति । किन्तु महत् शैत्यं भवति । ब्रिटन्-नार्वेप्रदेशेषु आवर्षं वृष्टिः भवति । मेडिटरेनियन्समुद्रं परितः विद्यमानेषु भूप्रदेशेषु शैत्यकाले वृष्टिः भवति ।

औष्ण्यम्

जुलैमासावसरे सूर्यः कर्कवृत्ते भवति इत्यतः तस्मिन् समये अस्मिन् खण्डे महदौष्ण्यं भवति । जनवरीमासे शैत्यकालः भवति । शैत्यकाले बाल्कन्-राज्येषु, इटलि, स्पेन्, पोर्चुगल्, फ्रान्स्, ग्रेट्-ब्रिटन्, नेदर्लेण्ड् इत्यादिषु प्रदेशेषु ० - १० सेण्टिग्रेड्मितं भवति औष्ण्यम् । स्पेन्देशे पोर्चुगल्देशे च १० सेण्टिग्रेड्मितं भवति । रशियादेशे -२० - -२५ सेण्टिग्रेड्मितं न्यूनं भवति ।

"https://sa.wikipedia.org/w/index.php?title=यूरोपखण्डः&oldid=188845" इत्यस्माद् प्रतिप्राप्तम्