"यूरोपखण्डः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १४: पङ्क्तिः १४:


अतिदीर्घा नदी ओल्गा (३६९० कि मी) अत्र वहति । डेन्यूब् (२८२४ मी) डान् नीपर्-नद्यः च अत्रत्याः प्रमुखनद्यः । र्-होनेनदी १३२० किलोमीटर्मितं यावत् प्रवहति । मास्कोनगरस्य उत्तरभागे लडोगा-ओनेगा-नामकौ सरोवरौ विद्येते । फिन्लेण्ड्देशे स्वीड्न्देशस्य दक्षिणभागे च अनेके सरोवराः विद्यन्ते । नेदर्लेण्ड्-जर्मनिदेशयोः उत्तरसमुद्रस्य तीरप्रदेशः उरल्-ओल्गानद्योः मुखजभूप्रदेशश्च समुद्रस्तरस्य अपेक्षया अधः विद्यते ।
अतिदीर्घा नदी ओल्गा (३६९० कि मी) अत्र वहति । डेन्यूब् (२८२४ मी) डान् नीपर्-नद्यः च अत्रत्याः प्रमुखनद्यः । र्-होनेनदी १३२० किलोमीटर्मितं यावत् प्रवहति । मास्कोनगरस्य उत्तरभागे लडोगा-ओनेगा-नामकौ सरोवरौ विद्येते । फिन्लेण्ड्देशे स्वीड्न्देशस्य दक्षिणभागे च अनेके सरोवराः विद्यन्ते । नेदर्लेण्ड्-जर्मनिदेशयोः उत्तरसमुद्रस्य तीरप्रदेशः उरल्-ओल्गानद्योः मुखजभूप्रदेशश्च समुद्रस्तरस्य अपेक्षया अधः विद्यते ।

[[वर्गः:युरोपखण्डः]]

११:४८, ६ एप्रिल् २०१२ इत्यस्य संस्करणं

३७ राष्ट्रैः युक्तः अयं खण्डः १०,६००,००० चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । दक्षिण-पूर्व-मध्य-वायव्य-उत्तरसमुद्रप्रदेशाः इति अयं खण्डः परिगणयितुं शक्यः । अस्य खण्डस्य जनानां बाह्यलक्षणस्य अनुगुणं काकेसायिड्, नार्डिक्, आल्पैन्, अर्मेनायिड् इत्येते प्रकाराः दृश्यन्ते । अत्र जर्मेनिक्, स्लाव्, केल्टिक्, रोमेण्टिक् इत्यादयः विविधाः भाषाः विद्यन्ते अस्मिन् ।

वातावरणम्

अयं खण्डः उत्तरगोलार्धे ३५ - ७० अक्षांशयोः मध्ये विद्यते इत्यतः वातावरणे विपरीतम् वैविध्यं दृश्यते । पोर्चुगल्, इटलि, अल्बेनिया, स्पेन् इत्यादिषु देशेषु औष्ण्यकाले हितकरं वातावरणं शैत्यकाले शीतलं मेडिटरेनियन्-वातावरणं च भवति । उक्रेन्-देशस्य आग्नेयभागर्धः, रशियादेशस्य दक्षिणभागेषु भ सामान्यतः शुष्कं वातावरणं भवति । अत्र वृष्टिः अल्पा । नार्वे, स्वीडन्-देशस्य उत्तरभागः, फिन्लेण्ड्, रशियादेशस्य उत्तरप्रदेशः, आर्कटिक्-प्रदेशेषु च अत्यधिकं शैत्ययुतं वातावरणं भवति । अत्र द्वीपेषु च शीतमरुभूमेः वातावरणं भवति । नार्वेदेशस्य पर्वताः, स्वीडन्देशस्य दक्षिणभागः, रशियादेशस्य मध्यभागः, बेलारस्, उक्रेन्-देशस्य उत्तरभागः वायव्यभागः, रोमेनियादेशस्य पूर्वभागः इत्येतेषु भागेषु शीतलं खण्डान्तरवातावरणं भवति । अवशिष्टेषु भागेषु तन्नाम ऐर्लेण्ड्, ग्रेट्-ब्रिटन्, फ्रान्स्, जर्मनि, नेदर्लेण्ड्स्, पोलेण्ड्देशस्य पश्चिमभागः, स्लोवाकिया, झेक्-रि, हङ्गेरि, रोमेनियादेशस्य दक्षिणभागः, युगोस्लाविया, बल्गेरिया इत्यादिषु भागेषु आर्द्रं समशीतोष्णं वातावरणं भवति ।

परिसरः

अस्य खण्डस्य भूयान् भागः शीतलेन हितावहेन वातावरणेन युक्तः भवति । नार्वे-स्वीडन्-फिन्लेण्ड्-देशानाम् उत्तरभागाः अर्क्टिक्वलये विद्यन्ते इत्यतः सर्वदा शैत्येन युक्ताः भवन्ति । ग्रीष्मऋतौ अयं खण्डः शीतलं भवति । शैत्यकाले हिमपातः भवति ।

वृष्टिः

अस्मिन् खण्डे वार्षिकी वृष्टिः प्रायः ७५० मिलिमीटर्मितं भवति । पोर्चुगल्तः कृष्णसमुद्रपर्यन्तं विस्तृतेषु भूभागेषु ततः उत्तरदिशि च वृष्टिः १००० मिलिमीटर्मितं ततोप्यधिकं वा भवति । उक्रेन्-रशियाभागेषु वृष्टिः ५०० मिलिमीटर्मितस्य अपेक्षया न्यूना भवति । विशेषतया इटलीदेशस्य आल्प्स्-पर्वतश्रेणीप्रदेशेषु नार्वे स्काट्लेण्ड् ऐर्लेण्ड्प्रदेशेषु च २००० मिलिमीटर्मितस्य अपेक्षया अधिका भवति । रशियादेशस्य भागेषु वृष्टिः न्यूना भवति । किन्तु महत् शैत्यं भवति । ब्रिटन्-नार्वेप्रदेशेषु आवर्षं वृष्टिः भवति । मेडिटरेनियन्समुद्रं परितः विद्यमानेषु भूप्रदेशेषु शैत्यकाले वृष्टिः भवति ।

औष्ण्यम्

जुलैमासावसरे सूर्यः कर्कवृत्ते भवति इत्यतः तस्मिन् समये अस्मिन् खण्डे महदौष्ण्यं भवति । जनवरीमासे शैत्यकालः भवति । शैत्यकाले बाल्कन्-राज्येषु, इटलि, स्पेन्, पोर्चुगल्, फ्रान्स्, ग्रेट्-ब्रिटन्, नेदर्लेण्ड् इत्यादिषु प्रदेशेषु ० - १० सेण्टिग्रेड्मितं भवति औष्ण्यम् । स्पेन्देशे पोर्चुगल्देशे च १० सेण्टिग्रेड्मितं भवति । रशियादेशे -२० - -२५ सेण्टिग्रेड्मितं न्यूनं भवति । जुलैमासे अस्मिन् खण्डे ग्रीष्मकालः भवति । मेडिटरेनियन्समुद्रं परितः विद्यमानेषु प्रदेशेषु औष्ण्यं २५ सेण्टिग्रेड्मितस्य अपेक्षया अधिकं भवति । रशियादेशस्य दक्षिणभागे अपि अधिकम् औष्ण्यं भवति । नार्वे-स्वीडन्देशयोः उत्तरभागे, रशियादेशस्य उत्तरभागे च ० - १५ सेण्टिग्रेड्मितं भवति औष्ण्यम् ।

सस्यसम्पत्तिः

पोर्चुगल्, स्पेन्, इटलि, ग्रीस् इत्यादिषु मेडिटरेनियन्प्रदेशेषु नित्यहरिद्वर्णयुक्तवृक्षाः, गुल्मानि च वर्धन्ते । पर्वतीयप्रदेशेषु पैन्, सैप्रेस्, योव्, स्प्रूस् इत्यादयः शङ्ख्वाकारकाः नित्यहरिद्वृक्षाः भवन्ति । रशियादेशस्य दक्षिणभागे उक्रेन्देशस्य आग्नेयभागे च तृणानि वर्धन्ते । ऐस्लेण्ड्, नार्वे, स्वीडन्, रशियादेशस्य उत्तरभागेषु च अल्पजीवीनि लघुसस्यानि वर्धन्ते । अवशिष्टेषु शङ्ख्वाकारकाः मिश्रसूचिपर्णीसस्यानि वर्धन्ते । ५५ अक्षांशतः उत्तरभागे वाणिज्याधारितानि अरण्यानि एव अधिकतया विद्यन्ते । मध्ययुरोपप्रदेशेषु अपि एतादृशाः वृक्षाः वर्धन्ते । अत्युत्तरेषु भागेषु लाभदायककर्माणि न दृश्यन्ते । अवशिष्टेषु भागेषु शाद्वलं, मेषमहिषीपालनञ्च अधिकतया दृश्यते । द्राक्षा, भिन्नशर्करा (पालङ्कात् (बीट्रूट्तः) निर्मितम् ?), निम्बूकजातिफलानि, गोधूमः इत्यादीनि अस्मिन् खण्डे अधिकतया वर्धन्ते । जर्मनि, नेदर्लेण्ड्स्, इङ्ग्लेण्ड्देशेषु भूमेः ७०% तः अधिकः भागः कृष्यर्थम् उपयुज्यते । बार्लि, ओट्स्, र्-है, गोधूमः, व्रीहिः, जूर्णः, आलूकम् इत्यादयः फलोदयाः अत्र वर्धन्ते । द्राक्षा, ओलिव्, नारङ्गम्, पीच्, निम्बूकजातिफलानि अत्र वर्धन्ते ।

पर्वत-नदी-खनिजाः

अस्मिन् खण्डे आल्प्स्-पर्वतश्रेण्यः अत्युन्नताः सन्ति । मौण्ट्ब्लाक् अस्य खण्डस्य (४८०७ मीटर्मितम्) अत्युन्नतं शिखरं वर्तते । एताः पर्वतश्रेण्यः इटलि-स्विट्सर्लेण्ड्-अस्ट्रियाप्रदेशेषु व्याप्ताः सन्ति । अस्य पूर्वस्यां दिशि कार्पेथियन्-श्रेण्यः विद्यन्ते । पोलेण्ड्, स्लोवाकिया, रोमेनियाप्रदेशेषु एताः श्रेण्यः प्रसृताः सन्ति । २६५५ मीटर्मितोन्नतयुतं टाट्राशिखरम् अस्यां श्रेण्यां विद्यते । बल्गेरियायां बाल्कन्श्रेणी, ग्रीस्देशे पिण्डस्श्रेणी, क्रोयेशिया-युगोस्लाविययोः डिनारिका-आल्फ्स्, इटलिदेशे अपेनैन्, स्पेन्देशे पिरनीस् इत्यादयः श्रेण्यः अस्मिन् खण्डे वर्तन्ते । कृष्णसमुद्र-क्यास्पियन्समुद्रयोः मध्ये काकेसस्श्रेण्यः विद्यन्ते । नार्वे-स्वीडन्देशयोः दक्षिणभागे स्काण्डिनेवियापर्वताः सन्ति । उत्तरस्यां दिशि ल्याप्लेण्ड् इति कथयन्ति । स्विट्सर्लेण्ड्तः रशियादेशपर्यन्तं उत्तरयुरोपस्य विशालः समतलप्रदेशः वर्तते । अस्य खण्डस्य ईशान्यभागे दक्षिणोत्तरदिशि व्यापृतः उरल्पर्वतः विद्यते ।

अतिदीर्घा नदी ओल्गा (३६९० कि मी) अत्र वहति । डेन्यूब् (२८२४ मी) डान् नीपर्-नद्यः च अत्रत्याः प्रमुखनद्यः । र्-होनेनदी १३२० किलोमीटर्मितं यावत् प्रवहति । मास्कोनगरस्य उत्तरभागे लडोगा-ओनेगा-नामकौ सरोवरौ विद्येते । फिन्लेण्ड्देशे स्वीड्न्देशस्य दक्षिणभागे च अनेके सरोवराः विद्यन्ते । नेदर्लेण्ड्-जर्मनिदेशयोः उत्तरसमुद्रस्य तीरप्रदेशः उरल्-ओल्गानद्योः मुखजभूप्रदेशश्च समुद्रस्तरस्य अपेक्षया अधः विद्यते ।

"https://sa.wikipedia.org/w/index.php?title=यूरोपखण्डः&oldid=188880" इत्यस्माद् प्रतिप्राप्तम्