"आस्ट्रेलिया" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Adding lez:Австралия (гьукумат)
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
७,६८६,८४९ च कि मी विस्तारयुतः अस्ति '''आस्ट्रेलियाखण्डः''' । तास्मेनिया अस्मिन् अन्तर्भवति । अस्मिन् खण्डे ६ राजनैतिकविभागाः सन्ति । मांसं, क्षीरं, गोधूमः, फलानि, खनिजाः, कार्यागारः इत्येतैः आधारिता आर्थिकी व्यवस्था अत्र विद्यते ।
'''आस्ट्रेलिया''' एक: महाद्वीप: किञ्चन राष्‍ट्रं च अस्ति ।
==परिसरः==
===वृष्टिः===
अस्य खण्डस्य महान् भागः मरुभूमिः इत्यतः शुष्कवातावरणम् अस्ति । वार्षिकवृष्टिः सामान्यतह् ५०० मि मीटर्मितम् । पर्थ, एडिलेड्, अल्बेनि, मेल्बर्न्, सिड्नि, ब्रिस्टेन्प्रदेशेषु वृष्टिः १०००-१५०० मि मीटर्मितं भवति । डार्विन्, यार्क भूशिरः, केर्क्स्, अल्बेनि, तास्मेनियायाः पश्चिमभागे वृष्टिः १५०० मि मी अपेक्षया अधिका भवति । खण्डस्य मध्यभागः पश्चिमभागश्च शुष्कौ स्तः । मध्यभागे ५००-२५० मि मी अपेक्षया न्यूना वृष्टिः भवति । अस्ट्रेलियायाः आल्प्स्-प्रदेशे हिमपातः भवति । खण्डस्य मध्यभागे मकरवृत्तं सञ्चरति ।
===औष्ण्यम्===
जनवरीमासे अत्र ग्रीष्मकालः । दक्षिण-उत्तरभागेषु २५<sup>०</sup> -३०<sup>०</sup> सेण्टिग्रेड्मितम् औष्ण्यं भवति । मध्यभागे वायव्यभागे च ३०<sup>०</sup> -३५<sup>०</sup> सेण्टिग्रेड्मितं भवति । नैऋत्य-आग्नेयकरावलीप्रदेशेषु १०<sup>०</sup> - १५<sup>०</sup> सेण्टिग्रेड्मितं भवति । विशेषतया विशालस्याण्डिमरुभूमौ औष्ण्यं भवति ४०<sup>०</sup> सेण्टिग्रेड्मितम् । जुलैमासे अत्र शैत्यकालः भवति । तदा उत्तरकरावलीप्रदेशेषु औष्ण्यं भवति २५<sup>०</sup> -३०<sup>०</sup> सेण्टिग्रेड्मितं भवति । दक्षिणदिशि १०<sup>०</sup> सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । विशेषतया तास्मेनिया, विक्टोरिया, न्यू सौथ् वेल्स् प्रदेशेषु औष्ण्यं ५<sup>०</sup> सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति ।
==सस्यसम्पत्तिः==
वातावरणानुगुणं सस्यानि अपि अत्र विविधानि भवन्ति । विक्टोरिया न्यू सौथ् वेल्स्भागेषु समशीतोष्णवलयस्य पर्णपातारण्यानि सन्ति । अत्र मरुद्रुमः नीलगिरिश्च अधिकप्रमाणेन वैविध्यमयरीत्या वर्धन्ते । निर्यास-वृक्षाः अपि अत्र वर्धन्ते । ब्रिस्टेन्तः डार्विन्पर्यन्तं करावलीप्रदेशः, उष्णवलयस्य अरण्यानि च विद्यन्ते । अत्र ओक्, फर्न्, ताडजातिवृक्षः, आर्चिड् इत्यादयः उष्णवलयस्य सस्यानि वर्धन्ते । अस्मिन् खण्डे कृष्यर्थं विद्यमाना भूमिः अत्यल्पा । अधिकांशः भागः उष्णवलयस्य तृणवर्धनसमतलप्रदेशः अस्ति । क्वीन्स्लेण्ड्, उत्तरभूप्रदेशस्य उत्तरार्धं, पश्चिमवलयस्य उत्तरार्धम् इत्येते तृणवर्धनप्रदेशाः । मरे-डार्लिङ्ग्-खातेषु च तृणानि वर्धन्ते ।
==फलोदयः==
गोधूमः अत्रत्यः प्रमुखः फलोदयः । चीन-भारतयोः कृते इतः गोधूमस्य निर्यातः भवति । ओट्स्, बार्ले, सोरगम्, यावानलः, लघुप्रमाणेन व्रीहिश्च अत्र वर्धन्ते । समृद्धायाम् उत्तरभूम्यां कदली, आम्रम्, बीजपूरम्, मधुकर्कटी, अनानस्फलानि वर्धन्ते । दक्षिणभूम्यां नारङ्गम्, लिम्बूकम्, सेवम्, शुष्कद्राक्षा, बीजरहितानि वनफलानि च वर्धन्ते । अत्र ५५% भूभागः शाद्वलं १८% भूभागः अरण्यञ्च वर्तते ।
==खनिजाः==
अयः, खनिजाङ्गारम्, बाक्सैट् इत्येतेषां खनिः प्रमुखतया अत्र विद्यन्ते । स्वर्णखनिः विक्टोरियायां पश्चिमास्ट्रेलियायाञ्च विद्यते । विक्टोऱिया, क्वीन्स्लेण्ड् न्यू सौथ वेल्स् प्रदेशेषु खनिजाङ्गारस्य खनिः विद्यते । न्यू सौथ् वेल्स् प्रदेशे रजतं, पुष्पाञ्जनं, सीसम्, अयः इत्येते विद्यन्ते । क्वीन्स्लेण्ड्प्रदेशे ताम्रं, युरेनियं, तैलेन्धनानि सन्ति । विक्टोरियायाम् इन्धनतैलम्, अनिलः, जिप्सम्, टिन्, स्वर्णञ्च उपलभ्यते । दक्षिणास्ट्रेलियायां सीसम्, अयः, युरेनियं खनिजाः सन्ति । उत्तरभूप्रदेशेषु ताम्रं, स्वर्णं, युरेनियं, मेङ्गनीस्, बाक्सैट्, रजतं, मैका, टङ्ग्स्टन् इत्यादीनां खनिजाः विद्यन्ते । पश्चिमास्ट्रेलिया स्वर्णाय प्रसिद्धा अस्ति । अत्रत्ययोः कालगूर्ली कूलगार्डी प्रदेशयोः स्वर्णोत्पादनं भवति । तास्मेनियायां खनिजाङ्गारं, ताम्रं, दास्ता, टिन्, रजतम् इत्यादीनां खनिजाः लभ्यन्ते ।
==पर्वताः==
ग्रेट्-डिवैडिङ्ग्-श्रेण्यः अत्र विद्यमानाः दीर्घाः विस्तृताः श्रेण्यः । सिड्नेः दक्षिणतः उत्तरस्य कुक्टौन्पर्यन्तं करावलेः समानान्तररूपेण विस्तृताः एताः सस्यानां वन्यप्राणिनाञ्च वरायते । होवेभूशिरसः वायव्यभागे आस्ट्रेलियायाः आल्प्स्-पर्वतश्रेण्यः विद्यन्ते । अत्र विद्यमानं २२३४ मी उन्नतं कोसियस्कोशिखरम् अस्मिन् खण्डे विद्यमानम् अत्युन्नतं शिखरं वर्तते । न्यूक्यासलस्य पश्चिमदिशि ब्लूपर्वताः सन्ति । एडीलेड्तः दक्षिणोत्तरदिशि फ्लैण्डर्स्-श्रेण्यः विद्यन्ते । ऐरिसरोवरस्य पूर्वभागेषु स्टुवर्ट्-मरुभूमिः, उत्तरदिशि सिम्प्सन्-मरुभूमिश्च विद्यते । अलीस्-स्प्रिङ्ग्सस्य उत्तरे मेक्डोनेल्-श्रेण्यः सन्ति । दक्षिणे मस्ग्रेव्-श्रेण्यः सन्ति । अस्याः श्रेण्याः दक्षिणभागे दक्षिण-पश्चिमभूप्रदेशेषु विक्टोरियामरुभूमिः विद्यते । अस्याः दक्षिणदिशि नल्लर्बार्-क्रीडाङ्गणं विद्यते ।


राजधानी - [[कन्बेरा]]
राजधानी - [[कन्बेरा]]

०७:२०, १२ एप्रिल् २०१२ इत्यस्य संस्करणं

७,६८६,८४९ च कि मी विस्तारयुतः अस्ति आस्ट्रेलियाखण्डः । तास्मेनिया अस्मिन् अन्तर्भवति । अस्मिन् खण्डे ६ राजनैतिकविभागाः सन्ति । मांसं, क्षीरं, गोधूमः, फलानि, खनिजाः, कार्यागारः इत्येतैः आधारिता आर्थिकी व्यवस्था अत्र विद्यते ।

परिसरः

वृष्टिः

अस्य खण्डस्य महान् भागः मरुभूमिः इत्यतः शुष्कवातावरणम् अस्ति । वार्षिकवृष्टिः सामान्यतह् ५०० मि मीटर्मितम् । पर्थ, एडिलेड्, अल्बेनि, मेल्बर्न्, सिड्नि, ब्रिस्टेन्प्रदेशेषु वृष्टिः १०००-१५०० मि मीटर्मितं भवति । डार्विन्, यार्क भूशिरः, केर्क्स्, अल्बेनि, तास्मेनियायाः पश्चिमभागे वृष्टिः १५०० मि मी अपेक्षया अधिका भवति । खण्डस्य मध्यभागः पश्चिमभागश्च शुष्कौ स्तः । मध्यभागे ५००-२५० मि मी अपेक्षया न्यूना वृष्टिः भवति । अस्ट्रेलियायाः आल्प्स्-प्रदेशे हिमपातः भवति । खण्डस्य मध्यभागे मकरवृत्तं सञ्चरति ।

औष्ण्यम्

जनवरीमासे अत्र ग्रीष्मकालः । दक्षिण-उत्तरभागेषु २५ -३० सेण्टिग्रेड्मितम् औष्ण्यं भवति । मध्यभागे वायव्यभागे च ३० -३५ सेण्टिग्रेड्मितं भवति । नैऋत्य-आग्नेयकरावलीप्रदेशेषु १० - १५ सेण्टिग्रेड्मितं भवति । विशेषतया विशालस्याण्डिमरुभूमौ औष्ण्यं भवति ४० सेण्टिग्रेड्मितम् । जुलैमासे अत्र शैत्यकालः भवति । तदा उत्तरकरावलीप्रदेशेषु औष्ण्यं भवति २५ -३० सेण्टिग्रेड्मितं भवति । दक्षिणदिशि १० सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । विशेषतया तास्मेनिया, विक्टोरिया, न्यू सौथ् वेल्स् प्रदेशेषु औष्ण्यं ५ सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति ।

सस्यसम्पत्तिः

वातावरणानुगुणं सस्यानि अपि अत्र विविधानि भवन्ति । विक्टोरिया न्यू सौथ् वेल्स्भागेषु समशीतोष्णवलयस्य पर्णपातारण्यानि सन्ति । अत्र मरुद्रुमः नीलगिरिश्च अधिकप्रमाणेन वैविध्यमयरीत्या वर्धन्ते । निर्यास-वृक्षाः अपि अत्र वर्धन्ते । ब्रिस्टेन्तः डार्विन्पर्यन्तं करावलीप्रदेशः, उष्णवलयस्य अरण्यानि च विद्यन्ते । अत्र ओक्, फर्न्, ताडजातिवृक्षः, आर्चिड् इत्यादयः उष्णवलयस्य सस्यानि वर्धन्ते । अस्मिन् खण्डे कृष्यर्थं विद्यमाना भूमिः अत्यल्पा । अधिकांशः भागः उष्णवलयस्य तृणवर्धनसमतलप्रदेशः अस्ति । क्वीन्स्लेण्ड्, उत्तरभूप्रदेशस्य उत्तरार्धं, पश्चिमवलयस्य उत्तरार्धम् इत्येते तृणवर्धनप्रदेशाः । मरे-डार्लिङ्ग्-खातेषु च तृणानि वर्धन्ते ।

फलोदयः

गोधूमः अत्रत्यः प्रमुखः फलोदयः । चीन-भारतयोः कृते इतः गोधूमस्य निर्यातः भवति । ओट्स्, बार्ले, सोरगम्, यावानलः, लघुप्रमाणेन व्रीहिश्च अत्र वर्धन्ते । समृद्धायाम् उत्तरभूम्यां कदली, आम्रम्, बीजपूरम्, मधुकर्कटी, अनानस्फलानि वर्धन्ते । दक्षिणभूम्यां नारङ्गम्, लिम्बूकम्, सेवम्, शुष्कद्राक्षा, बीजरहितानि वनफलानि च वर्धन्ते । अत्र ५५% भूभागः शाद्वलं १८% भूभागः अरण्यञ्च वर्तते ।

खनिजाः

अयः, खनिजाङ्गारम्, बाक्सैट् इत्येतेषां खनिः प्रमुखतया अत्र विद्यन्ते । स्वर्णखनिः विक्टोरियायां पश्चिमास्ट्रेलियायाञ्च विद्यते । विक्टोऱिया, क्वीन्स्लेण्ड् न्यू सौथ वेल्स् प्रदेशेषु खनिजाङ्गारस्य खनिः विद्यते । न्यू सौथ् वेल्स् प्रदेशे रजतं, पुष्पाञ्जनं, सीसम्, अयः इत्येते विद्यन्ते । क्वीन्स्लेण्ड्प्रदेशे ताम्रं, युरेनियं, तैलेन्धनानि सन्ति । विक्टोरियायाम् इन्धनतैलम्, अनिलः, जिप्सम्, टिन्, स्वर्णञ्च उपलभ्यते । दक्षिणास्ट्रेलियायां सीसम्, अयः, युरेनियं खनिजाः सन्ति । उत्तरभूप्रदेशेषु ताम्रं, स्वर्णं, युरेनियं, मेङ्गनीस्, बाक्सैट्, रजतं, मैका, टङ्ग्स्टन् इत्यादीनां खनिजाः विद्यन्ते । पश्चिमास्ट्रेलिया स्वर्णाय प्रसिद्धा अस्ति । अत्रत्ययोः कालगूर्ली कूलगार्डी प्रदेशयोः स्वर्णोत्पादनं भवति । तास्मेनियायां खनिजाङ्गारं, ताम्रं, दास्ता, टिन्, रजतम् इत्यादीनां खनिजाः लभ्यन्ते ।

पर्वताः

ग्रेट्-डिवैडिङ्ग्-श्रेण्यः अत्र विद्यमानाः दीर्घाः विस्तृताः श्रेण्यः । सिड्नेः दक्षिणतः उत्तरस्य कुक्टौन्पर्यन्तं करावलेः समानान्तररूपेण विस्तृताः एताः सस्यानां वन्यप्राणिनाञ्च वरायते । होवेभूशिरसः वायव्यभागे आस्ट्रेलियायाः आल्प्स्-पर्वतश्रेण्यः विद्यन्ते । अत्र विद्यमानं २२३४ मी उन्नतं कोसियस्कोशिखरम् अस्मिन् खण्डे विद्यमानम् अत्युन्नतं शिखरं वर्तते । न्यूक्यासलस्य पश्चिमदिशि ब्लूपर्वताः सन्ति । एडीलेड्तः दक्षिणोत्तरदिशि फ्लैण्डर्स्-श्रेण्यः विद्यन्ते । ऐरिसरोवरस्य पूर्वभागेषु स्टुवर्ट्-मरुभूमिः, उत्तरदिशि सिम्प्सन्-मरुभूमिश्च विद्यते । अलीस्-स्प्रिङ्ग्सस्य उत्तरे मेक्डोनेल्-श्रेण्यः सन्ति । दक्षिणे मस्ग्रेव्-श्रेण्यः सन्ति । अस्याः श्रेण्याः दक्षिणभागे दक्षिण-पश्चिमभूप्रदेशेषु विक्टोरियामरुभूमिः विद्यते । अस्याः दक्षिणदिशि नल्लर्बार्-क्रीडाङ्गणं विद्यते ।

राजधानी - कन्बेरा

महाद्वीपः

बाह्‍य

"https://sa.wikipedia.org/w/index.php?title=आस्ट्रेलिया&oldid=189590" इत्यस्माद् प्रतिप्राप्तम्