"महर्षि महेश योगी" इत्यस्य संस्करणे भेदः
(लघु) r2.7.2) (Robot: Adding eu:Maharishi Mahesh Yogi |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
[[Image:MaharishiMaheshYogi-01.jpg|thumb|right|Maharishi Mahesh Yogi (2007)]] |
[[Image:MaharishiMaheshYogi-01.jpg|thumb|right|Maharishi Mahesh Yogi (2007)]] |
||
'''महर्षि महेश योगी''' |
'''महर्षि महेश योगी''' १९१८ तमे वर्षे जनवरीमासस्य १२ दिनाङ्के प्रयागे जातः । तस्य मूलनाम आसीत् महेशप्रसादवर्मा इति । |
||
सः 'अतीन्द्रियध्यानपद्धतिम्' (Transcendental Meditation technique) आविष्कृतवान् । तस्य आन्दोलनस्य गुरुः सः । किञ्चन धार्मिकान्दोलनं सत्यपि धर्मनिरपेक्षमिति गृह्यते । महर्षि महेश योगी हिमालये स्थितस्य ज्योतिर्मठस्य शङ्कराचार्यस्य स्वामीब्रह्मानन्दसरस्वतीवर्यस्य शिष्यः सहायकश्च जातः । |
|||
==बाल्यजीवनम्== |
|||
महेशः अलहाबादविश्वविद्यालये भौतशास्त्रे स्नातकपदवीं प्राप्तवान् १९४२ तमे वर्षे । सः ज्योतिर्मठस्य शङ्कराचार्याणां ब्रह्मानन्दसरस्वतीनां सान्निध्ये अध्ययनम् अकरोत् । बालब्रह्मचारी महेशः इति तत्र नामाङ्कितः जातः । |
|||
सः स्वामिभिः सः १९५३ तमवर्षपर्यन्तं (गुरोः दिवङ्गमनं यावत्) तत्रैव अतिष्ठत् । ततः उत्तरखण्डस्य उत्तरकाशीम् अगच्छत् । |
|||
==भारते प्रवासः(१९५५-१९५७)== |
|||
१९५५ तमे वर्षे ब्रह्मचारी महेशः स्वस्य गुरुणा पाठितम् अतीन्द्रियध्यानपद्धतिं सार्वजनिकरूपेण पाठयितुम् आरब्धवान् । वर्षद्वयं यावत् सः आभारते प्रवासं कृतवान् । स्वस्य इदम् आन्दोलनं सः अध्यात्मप्रगतेः / अध्यात्मपुनरुत्थानस्य आन्दोलनमिति निर्दिष्टवान् । अस्य पद्धतेः परमप्रयोजनस्य विषये बहवः स्वानुभवम् अकथयन् । |
|||
==विश्वप्रवासः (१९५८-१९६८)== |
|||
१९५९ तमे वर्षे महर्षि महेशयोगी विश्वप्रवासम् आरब्धवान् । तेन उक्तम् - 'मम मनसि एकः विचारः वर्तते, सर्वस्य जनस्य अपि उपयोगाय यत् भवेत् तादृशं किञ्चित् अहं जानामि' इति । |
|||
प्रथमः विश्वप्रवासः रङ्गून्तः (बर्मा, अधुना म्यान्मार्) आरब्धः । ततः थैलेण्ड्, मलय, सिङ्गपूर्, हाङ्ग्काङ्ग्, हवैदेशं गतवान् । हवैदेशस्य दिनपत्रिका 'दि होनोलूलु स्टार् बुलेटिन्' उल्लिखति यत् - 'सः आसीत् निर्धनः । सः न किञ्चित् याचते । तदीयानि प्रापञ्चिकवस्तूनि हस्तग्राह्यानि आसन् । तदीयः सन्देशः विश्वं दुःखात्, अतृप्तितः च रक्षति इति सः कथयति' इति । १९५९ तमे वर्षे महर्षी होनोलूलु, सान्फ्रान्सिस्को, लास्-एञ्जलीस्, बोस्टन्, न्यूयार्क्, लण्डन्देशे च अतीन्द्रियध्यानपद्धतिम् अबोधयत् । |
|||
१९५९ तमे वर्षे सः सान्फ्रान्सिस्कोनगरे लण्डन्नगरे च अन्ताराष्ट्रियध्यानकेन्द्रम् आरब्धवान् । |
|||
१९६० तमे वर्षे महर्षी फ्रान्स्, स्विट्सर्लेण्ड्, इङ्ग्लेण्ड्, स्काट्लेण्ड्, नार्वे, स्वीडन्, जर्मनी, दि नेदर्लेण्ड्स्, इटालि, सिङ्गपुर्, आस्ट्रेलिया, न्यूझिलेण्ड्, आफ्रिका इत्यादीन् देशान् अगच्छत् । तत्र सर्वत्र सः अतीन्द्रियध्यानपद्धतिम् अपाठयत् । स्वस्य अनुपस्थितौ अभ्यासं कर्तुं ध्यानकेन्द्राणि च आरब्धवान् । |
|||
१९६१ तमे वर्षे महर्षी आस्ट्रेलिया, स्वीडन्, फ्रान्स्, इटालि, ग्रीस्, भारत्म्, केन्या, इङ्ग्लेण्ड्, अमेरिका, केनडा इत्यादीन् देशान् अगच्छत् । इङ्ग्लेण्ड्देशे बि बि सि दूरदर्शने तस्य सन्दर्शनं प्रसारितम् । १९६१ तमे वर्षे एप्रिल्मासे भारते हृषिकेशे अतीन्द्रियध्यानपद्धतेः प्रथमशिक्षकप्रशिक्षणवर्गः तेन सञ्चालितः । विभिन्नेभ्यः देशेभ्यः ६० प्रशिक्षणार्थिनः भागम् अवहन् । इदम् अग्रे अनुवृत्तम् । |
|||
== External links == |
== External links == |
||
* [http://www.alltm.org/Maharishi.html Official Maharishi site] |
* [http://www.alltm.org/Maharishi.html Official Maharishi site] |
०७:२४, १५ मे २०१२ इत्यस्य संस्करणं
महर्षि महेश योगी १९१८ तमे वर्षे जनवरीमासस्य १२ दिनाङ्के प्रयागे जातः । तस्य मूलनाम आसीत् महेशप्रसादवर्मा इति । सः 'अतीन्द्रियध्यानपद्धतिम्' (Transcendental Meditation technique) आविष्कृतवान् । तस्य आन्दोलनस्य गुरुः सः । किञ्चन धार्मिकान्दोलनं सत्यपि धर्मनिरपेक्षमिति गृह्यते । महर्षि महेश योगी हिमालये स्थितस्य ज्योतिर्मठस्य शङ्कराचार्यस्य स्वामीब्रह्मानन्दसरस्वतीवर्यस्य शिष्यः सहायकश्च जातः ।
बाल्यजीवनम्
महेशः अलहाबादविश्वविद्यालये भौतशास्त्रे स्नातकपदवीं प्राप्तवान् १९४२ तमे वर्षे । सः ज्योतिर्मठस्य शङ्कराचार्याणां ब्रह्मानन्दसरस्वतीनां सान्निध्ये अध्ययनम् अकरोत् । बालब्रह्मचारी महेशः इति तत्र नामाङ्कितः जातः । सः स्वामिभिः सः १९५३ तमवर्षपर्यन्तं (गुरोः दिवङ्गमनं यावत्) तत्रैव अतिष्ठत् । ततः उत्तरखण्डस्य उत्तरकाशीम् अगच्छत् ।
भारते प्रवासः(१९५५-१९५७)
१९५५ तमे वर्षे ब्रह्मचारी महेशः स्वस्य गुरुणा पाठितम् अतीन्द्रियध्यानपद्धतिं सार्वजनिकरूपेण पाठयितुम् आरब्धवान् । वर्षद्वयं यावत् सः आभारते प्रवासं कृतवान् । स्वस्य इदम् आन्दोलनं सः अध्यात्मप्रगतेः / अध्यात्मपुनरुत्थानस्य आन्दोलनमिति निर्दिष्टवान् । अस्य पद्धतेः परमप्रयोजनस्य विषये बहवः स्वानुभवम् अकथयन् ।
विश्वप्रवासः (१९५८-१९६८)
१९५९ तमे वर्षे महर्षि महेशयोगी विश्वप्रवासम् आरब्धवान् । तेन उक्तम् - 'मम मनसि एकः विचारः वर्तते, सर्वस्य जनस्य अपि उपयोगाय यत् भवेत् तादृशं किञ्चित् अहं जानामि' इति । प्रथमः विश्वप्रवासः रङ्गून्तः (बर्मा, अधुना म्यान्मार्) आरब्धः । ततः थैलेण्ड्, मलय, सिङ्गपूर्, हाङ्ग्काङ्ग्, हवैदेशं गतवान् । हवैदेशस्य दिनपत्रिका 'दि होनोलूलु स्टार् बुलेटिन्' उल्लिखति यत् - 'सः आसीत् निर्धनः । सः न किञ्चित् याचते । तदीयानि प्रापञ्चिकवस्तूनि हस्तग्राह्यानि आसन् । तदीयः सन्देशः विश्वं दुःखात्, अतृप्तितः च रक्षति इति सः कथयति' इति । १९५९ तमे वर्षे महर्षी होनोलूलु, सान्फ्रान्सिस्को, लास्-एञ्जलीस्, बोस्टन्, न्यूयार्क्, लण्डन्देशे च अतीन्द्रियध्यानपद्धतिम् अबोधयत् । १९५९ तमे वर्षे सः सान्फ्रान्सिस्कोनगरे लण्डन्नगरे च अन्ताराष्ट्रियध्यानकेन्द्रम् आरब्धवान् । १९६० तमे वर्षे महर्षी फ्रान्स्, स्विट्सर्लेण्ड्, इङ्ग्लेण्ड्, स्काट्लेण्ड्, नार्वे, स्वीडन्, जर्मनी, दि नेदर्लेण्ड्स्, इटालि, सिङ्गपुर्, आस्ट्रेलिया, न्यूझिलेण्ड्, आफ्रिका इत्यादीन् देशान् अगच्छत् । तत्र सर्वत्र सः अतीन्द्रियध्यानपद्धतिम् अपाठयत् । स्वस्य अनुपस्थितौ अभ्यासं कर्तुं ध्यानकेन्द्राणि च आरब्धवान् । १९६१ तमे वर्षे महर्षी आस्ट्रेलिया, स्वीडन्, फ्रान्स्, इटालि, ग्रीस्, भारत्म्, केन्या, इङ्ग्लेण्ड्, अमेरिका, केनडा इत्यादीन् देशान् अगच्छत् । इङ्ग्लेण्ड्देशे बि बि सि दूरदर्शने तस्य सन्दर्शनं प्रसारितम् । १९६१ तमे वर्षे एप्रिल्मासे भारते हृषिकेशे अतीन्द्रियध्यानपद्धतेः प्रथमशिक्षकप्रशिक्षणवर्गः तेन सञ्चालितः । विभिन्नेभ्यः देशेभ्यः ६० प्रशिक्षणार्थिनः भागम् अवहन् । इदम् अग्रे अनुवृत्तम् ।