"बेलूरु" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः १०: पङ्क्तिः १०:


[[वर्गः:हासनमण्डलस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:हासनमण्डलस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:कर्णाटकस्य ऐतिहासिकस्थानानि]]

०६:१५, १६ जुलै २०१२ इत्यस्य संस्करणं

चेन्नकेशवमन्दिरम्

कर्णाटकराज्यस्य हासनमण्डले एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धम् अस्ति । होय्सलराजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशव देवालयः अनुपमः बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५*३९६ पादपरिमितः अस्ति । महाराजः विष्णुवर्धनः अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः । अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति। अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम्। अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति ।

दर्पणसुन्दरी

देवालयस्य प्राङ्गणं नक्षत्राकारकेण त्रिपादपरिमितोन्नते स्थाने निर्मितम् अस्ति । गर्भगृहे स्थिता ३.१७ मीटरपरिमितोन्नता मूर्तिः । एतं देव ”’चेन्नकेशव”’ इत्यपि कथयन्ति । मूर्तेः भावः स्री इव अस्ति। मुखभावः, अलङ्काराः, कटिप्रदेशस्य खङ्गः, पुष्पधारणरीतिः इत्यादिभिः अस्य देवस्य दर्शनं पुण्यकरम् पापहरं च अस्ति । देवालयस्य बाहयशिल्पम् आन्तरशिल्पापेक्षया अत्यन्तं सुन्दरम् अस्ति । अन्तर्भागे नवरङ्गमण्डपम् अपूर्वम् अस्ति । बाह्यशिल्पेषु भुवनेश्वरी, स्तम्भाः असंख्यविग्रहाः अनेकभङ्या निर्मिताः । मदनिकाविग्रहाः शिलाबालिकाः विभिन्नरुपभावान्विताः। अन्यत्र कुत्रापि द्रष्टुं न शक्नुमः । देवालयं परितः गजानां सुन्दरशिल्पपंक्तिः अस्ति । यगचिनदीतीरे एषः सुन्दरदेवालयः विराजते । मार्गः -समीपे मङ्गलूरु, बेङ्गलूरु विमानस्थानके स्थः। रेलयानेन हासननिस्थानकं समीपेऽस्ति । वाहनमार्गः हासनतः ४० कि.मी । बेङ्गलूरुतः २२२ कि.मी मङ्गलूरुतः १२४ कि.मी । मैसूरतः १४९ कि.मी होसपेटेतः ३३० कि.मी । हळेबीडुतः १६ कि.मी वसतिः -होटेलवेलापुरी, श्रीराघवेन्द्र टूरिस्टहोम्

"https://sa.wikipedia.org/w/index.php?title=बेलूरु&oldid=200645" इत्यस्माद् प्रतिप्राप्तम्