"ताजमहल" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) Robot: Adding en:Taj Mahal |
||
पङ्क्तिः ७९: | पङ्क्तिः ७९: | ||
[[el:Τατζ Μαχάλ]] |
[[el:Τατζ Μαχάλ]] |
||
[[es:Taj Mahal]] |
[[es:Taj Mahal]] |
||
[[en:Taj Mahal]] |
|||
[[eo:Taĝ-Mahalo]] |
[[eo:Taĝ-Mahalo]] |
||
[[eu:Taj Mahal]] |
[[eu:Taj Mahal]] |
१७:४७, २५ जुलै २०१२ इत्यस्य संस्करणं
ताजमहल् تاج محل | |
---|---|
क्षेत्रम् | आग्रा, भारतम् |
यामः | २७°१०′२९″उत्तरदिक् ७८°०२′३२″पूर्वदिक् / 27.174799°उत्तरदिक् 78.042111°पूर्वदिक् |
औन्नत्यम् | 171 m (561 ft) |
निर्मितम् | 1632–1653[उद्धरणं वाञ्छितम्] |
स्थपतिः | उस्तादहमदलहौरिणा |
स्थापत्यशैली | Mughal |
पर्यटकसंख्या | More than 3 million (in 2003) |
प्रकारः | Cultural |
मानदण्डः | i |
अभिहितः | 1983 (7th session) |
उद्धरणम् # | 252 |
State Party | भारतम् |
Region | Asia-Pacific |
लुआ त्रुटि पटलम्:Location_map में पंक्ति 390 पर: Minutes can only be provided with DMS degrees for longitude। |
ताजभवनम् (अमृतशिलाकाव्यम्) आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् ।
एषः भवनसमुच्चयः ६० ‘बिघा’ विशालयुक्तः अस्ति । अयः प्रदेशः दक्षिणतः उत्तरदिशि नद्यभिमुखं प्रसृतः, निम्नभूमिं प्रति गच्छन्त्यः वीथिकाः इव च अस्ति । द्वितीये आलिन्दे किञ्चन चतुरस्रोद्यानम् अस्ति , यत् उभयतः पटमण्डपाः वर्तन्ते । विविधाकारकैः जलनालैः अयं प्रदेशः चतुर्धा विभक्तः अस्ति । एते चत्वारः प्रदेशाः ‘चारबाग्’ नाम्ना ख्याताः सन्ति ।
मुख्यशिखरगोलार्धं वस्तुतः चतुरस्त्राकारयुतम् अस्ति, यस्य कोणानि निम्नताकारेण कर्तितानि दृश्यन्ते । प्रार्थनाङ्गणानि इतः अयुक्तानि सन्ति । तानि मुख्यशिखराणां कोणाभिमुखानि वर्तन्ते । रक्तवर्णशिलया निर्मितं पश्चिमदिशि विद्यमानं प्रार्थनामन्दिरं स्वीयवर्णात् अत्रत्यं सौन्दर्यं परिवर्धयति ।
ताजभवनस्य् अन्तः, बहिः, ऊर्ध्वभागे, परितः विद्यमाने अमृतशिलाजानिकासु च दृश्यमानाः कलाकृतयः अत्यद्भुताः सन्ति ।१९८३ तमे वर्षे युनेस्कोसंस्थया ताजभवनं जागतिकपारम्परिकस्थलत्वेन घोषितम् । संस्थया उल्लिखितम् अस्ति यत् भारते यवनकलायाः आभरणम् इव स्थिता जागतिकपरम्परायां सर्वजनैः कीर्तिता काचित् श्रेष्ठा कलाकृतिः एषा इति । ताजभवनं प्रातः ६ वादनतः रात्रौ ७ वादन- पर्यन्तं सार्वजनिकानां दर्शनाय उद्घाटितं भवति । शुक्रवासरे भवनं पिहितं भवति । पूर्णिमादिने , ततः पूर्वं दिनद्वयं, तदनन्तरं दिनद्वयं च रात्रिकाले दर्शनाय उद्घाटितं भवति तत् । रमझान्मासे रात्रिदर्शनं न भवति । १९८३ तमे वर्षे विश्वपरम्परास्थानानां सूच्यां ताजमहल् योजितम् अस्ति ।
बाह्यसम्पर्कतन्तुः
विकिमीडिया कॉमन्स् मध्ये Taj Mahal सम्बन्धिताः सञ्चिकाः सन्ति। |
- Archeological Survey of India description
- Government of India – Description
- Information from the Department of Tourism, Uttar Pradesh
- Historical images on Europeana.eu
- फलकम्:Wikitravel
- The plants growing throughout the Taj Mahal complex
फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA
अन्यानि चित्राणि
-
यमुना नद्यां प्रतिफलनम्
-
२००४ मार्च् ताज् महल्
-
प्रतिफलनम्
-
१८६५ तमे वर्षे
-
वर्ष ऋतौ