"विकिपीडिया:उल्लेख्यता" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
न खलु विकिपीडिया नाम विश्वकोशः अविवेकतया संगृ... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ७: पङ्क्तिः ७:




* तद्विषयमधिकृत्य विश्वासार्हाः ते सन्दर्भाः तृतीयपाक्षिकाः स्युः (अर्थात् न आत्मविकत्थनं सन्दर्भो भवति), नोचेत् स विषयः विकिदृष्ट्या उल्लेख्यः न स्यात्।
* '''तद्विषयमधिकृत्य विश्वासार्हाः ते सन्दर्भाः तृतीयपाक्षिकाः स्युः''' (अर्थात् न आत्मविकत्थनं सन्दर्भो भवति), नोचेत् स विषयः विकिदृष्ट्या उल्लेख्यः न स्यात्।


* "'''यत्र सः विषयः महत्त्वं भजते'''" अर्थात् तेषु सूत्रेषु विषयस्य विस्तरशः चर्चा स्यात्। सः उल्लेखः न तुच्छ उल्लेखः भवेत्, नापि अत्र मुख्यविषयत्वेन सः विषयः एव स्यादिति प्रतिज्ञा।
* "'''यत्र सः विषयः महत्त्वं भजते'''" अर्थात् तेषु सूत्रेषु विषयस्य विस्तरशः चर्चा स्यात्। सः उल्लेखः न तुच्छ उल्लेखः भवेत्, नापि अत्र मुख्यविषयत्वेन सः विषयः एव स्यादिति प्रतिज्ञा।

१०:०६, ६ आगस्ट् २०१२ इत्यस्य संस्करणं

न खलु विकिपीडिया नाम विश्वकोशः अविवेकतया संगृहीता सूचना अस्ति। कानिचित् विषयस्थानानि विकिपीडियायां भवितुं नार्हन्त्येव। ते विषयास्तु प्रायेण नैजजालस्थलेषु अथवा ब्लाग् इति जालपुटेषु भवितुमर्हन्ति।

अत्र उल्लेख्यतानिर्देशैः ज्ञायते यत् विषयः कश्चित् विकिपीडियायां लेखनार्थम् अनुकूलः स्यात् न वेति।

उल्लेख्यतामधिकृत्य सामान्यनिर्देशाः

यदि विषयमेकम् अधिकृत्य स्वतन्त्राः विश्वासार्हाश्च स्रोतांसि (ग्रन्थाः, पुस्तकानि, पत्रिकाः इत्यादीनि) उपलभ्यन्ते यत्र सः विषयः महत्त्वं भजते, तदा सः विषयः लेखरचनायै अथवा तालिकायां भवितुम् अर्हति।


  • तद्विषयमधिकृत्य विश्वासार्हाः ते सन्दर्भाः तृतीयपाक्षिकाः स्युः (अर्थात् न आत्मविकत्थनं सन्दर्भो भवति), नोचेत् स विषयः विकिदृष्ट्या उल्लेख्यः न स्यात्।
  • "यत्र सः विषयः महत्त्वं भजते" अर्थात् तेषु सूत्रेषु विषयस्य विस्तरशः चर्चा स्यात्। सः उल्लेखः न तुच्छ उल्लेखः भवेत्, नापि अत्र मुख्यविषयत्वेन सः विषयः एव स्यादिति प्रतिज्ञा।
  • विश्वासार्हेषु स्रोतःसु सम्पादकीय अखण्डता वर्तते। तच्च स्रोतः प्रेक्षितुं शक्यते।
  • स्रोतांसि: स्रोतांसि स्वतन्त्राणि भवेयुः। स्रोतसां प्रकृतिं/गुणवत्तां तथा च उल्लेखस्य गहनताम् अवलम्ब्य एतदपि निश्चीयते यत् स्रोतसां कियती सङ्ख्यां समीचीना। प्रायेण एकाधिकानि स्रोतांसि अपेक्ष्यन्ते। एकस्मादेव लेखकाद् अथवा एकस्यैव संगठनस्य विभिन्नप्रकाशनेभ्यः प्राप्ताः उल्लेखाः अत्र आहत्य एकं स्रोतः इत्येव मन्यते।
  • स्वतन्त्राणि नाम तानि स्रोतांसि ये विषयसम्बन्धिजनेभ्यः नोत्पादितानि। न हि आत्मप्रचारः, विज्ञापनानि वा स्वतन्त्रस्रोतांसि उच्यन्ते।