"कोवलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) Robot: Adding zh:科瓦兰
पङ्क्तिः १८: पङ्क्तिः १८:
[[sv:Kovalam]]
[[sv:Kovalam]]
[[ta:கோவளம்]]
[[ta:கோவளம்]]
[[zh:科瓦兰]]
[[en:kovalam]]
[[en:kovalam]]

०१:०१, ३० सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

कोवलं समुद्रतीरम्
कोवलं समुद्रतीरम्

केरळराज्ये अरब्बीसागरतीरम् ५८० कि.मीटरमितं दीर्घमस्ति । अतः अत्र बहूनि सागरतीराणि आकर्षकस्थलानि च सन्ति ।

कोवलम् बीच्

तिरुवनन्तपुरतः १६ कि.मी दूरे एतत् सागरतीरमस्ति । अन्ताराष्ट्रियस्तरे एतत् प्रसिद्धम् अस्ति । अर्धचन्द्रः इति वा धनुः इति वा एतत् वर्णयन्ति । अत्र त्रीणि सागरतीराणि सन्ति । तेषु लैटहौसबीच् बहुजनप्रियं तरणाय योग्यं च अस्ति । अत्र नौकायानार्थं सर्फबोर्ड्, बूगलबोर्ड वाहनानि भाटकेन लभ्यन्ते । तिरुवनन्तपुरतः गन्तुं प्रत्यर्धघण्टं वाहनानि सन्ति । सागरतीरे एव उपाहारगृहाणिसन्ति किन्तु मूल्यम् अधिकं देयं भवति । अत्र कोवलम्-सागरतीरे अधः स्वर्णवर्णसिकताराशिः अस्ति । नारिकेलवृक्षाः समीपे सन्ति । एतत् सुन्दरं सागरतीरम् आरोग्यधाम अप्यस्ति । शुध्दं जलं वातावरणं, शुध्दः वायुः च अत्र सन्ति । आयुर्वेदीयारोग्यकेन्द्रमप्यस्ति । सागरे तरङ्गाः वेगेन आगच्छन्ति । अत्र ये आगच्छन्ति, बहुदिनपर्यन्तं वासं कर्तुम् इच्छन्ति । एकतः श्यामलवर्णयुक्तं वनसौन्दर्यं द्र्ष्टुं शक्यते । आडम् ईव्स् बीच् अपि अतीव सुन्दरम् अस्ति । अत्र अनेकाः आपणाः उपाहारवसतिगृहाणि सन्ति । किन्तु अधिकम् धनम् आवश्यकम् भवति । सागरतीरेषु अनेक विधोपाहारगृहाणि सन्ति । सूर्यस्नानाय जनाः अत्र आगच्छन्ति । केरळराज्ये स्थितानि इतरसागरतीराणि एवं सन्ति । बेकल् बीच् कासरगोडतः २० कि.मी. दूरे अस्ति । बेपोर कोळीकोडतः १० कि.मी, कप्पड बीच् कोळीकोडतः १६ कि.मी । क्यालिकत् तः वळ्ळिकण्णुबीच् (मल्लपुरमण्डलम् ) तङ्गस्सेरी बीच् कोल्लम् तः ५ कि.मी

"https://sa.wikipedia.org/w/index.php?title=कोवलम्&oldid=207111" इत्यस्माद् प्रतिप्राप्तम्