"होलीपर्व" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding as:ফাকুৱা; अंगराग परिवर्तन
(लघु) Robot: Removing es:Holi (deleted)
पङ्क्तिः ३५: पङ्क्तिः ३५:
[[el:Χόλι]]
[[el:Χόλι]]
[[en:Holi]]
[[en:Holi]]
[[es:Holi]]
[[fa:هولی]]
[[fa:هولی]]
[[fi:Holi]]
[[fi:Holi]]

०५:२०, ८ अक्टोबर् २०१२ इत्यस्य संस्करणं

होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति पुराणेषु

भगवान् श्रीकृष्णस्य गोपिकाभिः सह होलीक्रीडा

होलिकानामिका हिरण्याक्ष-हिरण्यकशिपो: सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् । तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं पाप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।

कामदहनम्

सत्ययुगे ढुण्ढानामिका मालिनामकस्य राक्षसराजस्य पुत्री आसीत् । सा कठोरं तप: आचर्य युवै: वा वृद्धै: वा मनुष्यै:, देवै: केनापि प्राणिना च मम मरणं न भवेत् इति वरं प्राप्तवती । बाला: किं कर्तुं शक्नुयु: इति तेषाम् उपेक्षां कृतवती । सा पृथु अथवा रघु इत्याख्यातस्य राज्ञ: काले अहर्निशं सञ्चरन्ती बालान् सर्वान् मारयति स्म । मायाविनीं तां राक्षसीं गृहीतुं केऽपि न शक्तवन्त: । वसिष्ठमहर्षिद्वारा तस्या: रहस्यं ज्ञातवान् राजा तस्या: ग्रहणकार्ये बालान् एव नियुक्तवान् । फाल्गुनमासस्य पूर्णिमायां देशस्य सर्वे बाला: सम्भूय काष्ठकारीषेषु अग्निं प्रज्वाल्य नृत्यन्त: चीत्कुर्वन्त: तस्या: ग्रहणार्थं धावितवन्त: । भीता सा मनुष्यलोकादेव निर्गता । एतस्य स्मरणार्थम् होलीपर्व आचर्यते ।

शिव: समाधिस्थितौ तप: आचरन् आसीत् । तदा तस्य तप: नाशितवान् कामदेव: । तदा तपोभाङ्गात् क्रुद्ध: शिव: तृतीयं नेत्रम् उद्घाट्य कामदेवं दहति । तस्य दिनस्य स्मरणार्थं होलीपर्व आचर्यते ।

एतद्दिने कामदेवम् आवह्य षोडशोपचारै: पूजयन्ति च । अस्मिन् दिने होलिका अथवा पोलिका इति विशिष्टं भक्ष्यं समर्पयन्ति देवेभ्य: । तद्दिने देवपितृभ्य: तर्पणं प्रदाय दोषशान्त्यर्थं होलीधूलिं नमस्कुर्वन्ति । गृहस्य अङ्गणं शुद्धीकृत्य अक्षतारङ्गवल्लीभि: अलङ्कृत्य मध्यभागे श्वेतवस्त्रयुक्तं पीठं स्थापयन्ति । तत्पुरत: श्वेतचन्दन-रक्तवस्त्र-पल्लवै: युक्तं कलशं प्रतिष्ठापयन्ति । तदुपरि रतीदेवीसहितं कामदेवं प्रतिष्ठाप्य अर्घ्य-पाद्य-गन्ध-दीप-धूप-पुष्प-नैवेद्यानि समर्पयन्ति । महिला: रक्तवर्णस्य वस्त्रम् आभूषणानि च धृत्वा चन्दनवृक्षं पूजयन्ति । तेन आयुरारोग्यवृद्धि: भवति इति । पञ्चमीत: आरभ्य दश दिनानि विनोदार्थं चोरितानि काष्ठानि सङ्गृह्य होलिकादहनं कुर्वन्ति । पूर्णिमादिने अग्निप्रदीपनं कुर्वन्ति । ग्रामात् बहि: मध्ये वा होलिकादहनम् आचरन्ति । चण्डालगृहात् वा सूतिकागृहात् वा बालानां द्वारा अग्निम् आनाययन्ति होलिकादहनार्थम् । राजा एव स्वयं स्नानादिना शुद्ध: सन् स्वस्तिवाचनं कारयित्वा तूर्यनादसहित: आगत्य दानधर्मादिकम् आचर्य अग्निज्वालनं कुर्यात् । अग्नये घृतं दुग्धं च समर्पयन्ति । अनन्तरं जलेन अग्निकेन्द्रं शान्तं क्रुत्वा एकान्तस्थाने स्थापयन्ति । नारिकेलस्य दाडिमस्य बीजपूरस्य च दानं कृत्वा रात्रिं गीतवाद्यनृत्यै: यापयन्ति । त्रिवारम् अग्ने: प्रदक्षिणं कृत्वा गृहमानयन्ति तम् अग्निम् । अपरस्मिन् दिने प्रात:काले तेन अग्निना एव जलम् उष्णीकृत्य स्नानं कुर्वन्ति ।

राजस्थाने पुष्करनगरे होलीक्रीडा
वर्णविलेपनम्
दशस्यु: शोभमानास्तु काष्ठस्तेयं विधीयते ।
चण्डालसूतिकागेहाच्छिशुहारितवह्निना ॥
प्राप्तायां पूर्णिमायां तु कुर्यात्काष्ठप्रदीपनम् ।
ग्रामद्बहिा मध्ये वा तूर्यनादसमन्वित: ॥
स्नात्वा राजा शुचिर्भूत्वा स्वस्तिवाचनतत्पर: ।
दत्वा दानानि भूरीणि दीपयेद्धोलिकाचितिम् ॥

एवं रात्रौ होलिकोत्सवम् आचर्य अपरस्मिन् दिने प्रात:काले सर्ववर्गीया: अपि जना: मिलित्वा आमोदप्रमोदम् आचरन्ति । पाटलवर्णस्य जलं प्रथमं देवेभ्य: ज्येष्ठेभ्य: च समर्प्य प्रसादरूपेण परस्परं सिञ्चन्ति । वङ्गदेशे तद्दिने श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । तत्र त्रीणि वा पञ्च वा दिनानि पर्व आचरन्ति । फाल्गुनशुद्धचतुर्दश्यां रात्रौ मण्डपस्य पूर्वभागे अग्निदेवस्य आराधनं कुर्वन्ति । गोविन्दस्य विग्रहं कृत्वा १६ स्तम्भै: युक्तस्य मण्डपस्य वेदिकायां प्रतिष्ठापयन्ति । पञ्चामृताद्यै: अभिषेकं कृत्वा देवस्य अलङ्कारं कुर्वन्ति । अनन्तरं सम्यगलङ्कृतायाम् आन्दोलिकायां देवम् उपवेश्य सप्तवारं आन्दोलयन्ति । उत्सवस्य प्रथमदिने ज्वालितम् अग्निम् अन्तिमदिनपर्यन्तमपि रक्षन्ति । अन्तिमदिने देवम् २१ वारम् आन्दोलयन्ति । इन्द्रद्युम्नमहाराज: वृन्दावने एतत् पर्व आरब्धवान् इति विश्वसन्ति जना: ।

"https://sa.wikipedia.org/w/index.php?title=होलीपर्व&oldid=209218" इत्यस्माद् प्रतिप्राप्तम्