सामग्री पर जाएँ

"झारखण्डराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) (r2.7.3) (Robot: Modifying sk:Džhárkhand)
 
==जनसङ्ख्याशास्त्रम्==
झारखण्डराज्यस्य जनसङ्ख्या ३,२९,६०,००० - पुरुषाः - १,६९,३०,००० महिलाः - १,६०,३०,००० । लिङ्गानुपातः ९४७ महिलाः : १००० पुरुषाः । जनसङ्ख्यायां २८% वनवासिनः, १२% अनुसूचितावल्यां विद्यमानाः, ६०% अन्ये च । राज्यस्य जनसङ्ख्यानिबिडता अस्ति - चतरस्रकिलोमीटर्मितायां भूमौ ४१३ जनाः । इयं परिवर्तते - गुम्लामण्डले चतरस्रकिलोमीटर्मितायां भूमौ १४८ जनाः (कनिष्ठम्) धान्बाद्मण्डले चतरस्रकिलोमीटर्मितायां भूमौ ११६७ जनाः । जनगणनाविवरणं दर्शयति यत् क्रमशः राज्ये वनवासिनां सङ्ख्या न्यूना जायमाना अस्ति, वनवासिभिन्नानां सङ्ख्या वर्धमाना अस्ति इति । वनवासिनां जननप्रमाणस्य अल्पता, मरणप्रमाणस्य आधिक्यम्, अन्येषाम् अत्र आप्रवासः, इतः वनवासिनां देशान्तराधिवासनम्, औद्योगिकीकरणस्य दुष्परिणामाः, नगरीकरण्म् इत्यादयः अस्य हेतवः । वनवासिनः वदन्ति यत् विवरणमिदं न युक्तम्, वयमेव अधिकसङ्ख्याकाः स्मः इति । स्वातन्त्रप्राप्तेः अनन्तरं देशस्य प्रगत्यर्थं कृतायाः योजनायाः द्वारा एव झारखण्डराज्यस्य जनसङ्ख्यायां महत् परिवर्तनं दृष्टमित्येषः विपर्यासः एव । १९५१ तमात् वर्षात् केन्द्रजल-आयोगेन ९० मुख्याः जलबन्धाः, ४०० सामान्यजलबन्धाः, ११,८७८ लघुबन्धाः च निर्मिताः । ७९ मुख्यानि औद्योगिककेन्द्राणि कार्यागाराश्च निर्मिताः । एताभिः निर्माणयोजनाभिः औपचरिक-आर्थिकतावलम्बिनां लाभः जातः । किन्तु अनौपचारिक-आर्थिकतावलम्बिनां प्राकृतिकसम्पत्त्यैकावलम्बिनां वनवासिनां जीविकायै महती विपत्तिः आपतिता । ३० लक्षजनाः एतासां योजनानां कारणतः स्थानान्तरिताः अभवन् । तेषु ९०% जनाः आसन् वनवासिनः
==जातिप्रजातयः==
 
वनवासिषु अधिकांशाः जगदात्मवादस्य सर्णामतस्य अनुयायिनः । इदं मतं हिन्दु-क्रैस्त-यवनमतभिन्नं किञ्चन मतम् । मुण्डरिभाषायां 'सर्णा'इत्यस्य अर्थः 'पवित्रा वनिका' इति । 'सिङ्ग बोङ्ग'नामके विशेषचैतन्ये एतेषां विशेषश्रद्धा । इदं जगत् असङ्ख्यानां विविधविधानां चैतन्यजीविनां वासस्थानम् इति तेषां विश्वासः । एते तैः चेतनैः सह समीपसाङ्गत्येन एव सर्वम् आचरन्ति । सर्णा इति कथ्यमानस्य 'साल् ट्री' (इज्जलवृक्षस्य) अधः एव धार्मिकविधीन् आचरन्ति यत्र 'बोङ्ग' प्रत्यक्षः भवति इति विश्वस्यते । वनवासिनां पुराणकथानुसारं सर्णामतस्य उगमः एवं जातः - कदाचित् मृगयार्थं वनं प्रति गताः वनवासिनः वृक्षस्य अधः विश्रामसुखम् अनुभवन्तः चर्चाम् आरब्धवन्तः - 'अस्माकं सृष्टिकर्ता रक्षकः कः ?' इति । सूर्यः वा ? वायुः वा ? मेघः वा ? अन्ते तैः निर्णीतं यत् बाणं प्रमुञ्चामः, तस्य लक्ष्यीभूतं यद् भवति स एव देवस्य निवासः इति । तथैव आकाशं प्रति तैः बाणः प्रमुक्तः । सः इज्जलवृक्षस्य अधः अपतत् । ततः ते इज्जलवनिकायां सिङ्गबोङ्गस्य आराधनाम् आरब्धवन्तः । 'साल्ट्री'तः निष्पन्नम् इत्यतः 'सर्णा' इति नाम । एवं सर्णामतम् अस्तित्वं प्राप्नोत् । तस्मिन् 'नैके' 'कुडम् नैके' इति कथ्यमानाः अर्चकाः सहार्चकाः च भवन्ति सर्वेषु सन्थाल्ग्रामेषु । 'पहानाः' भवन्ति मुण्डाग्रामेषु । बहवः हिन्दवः विश्वसन्ति यत् इदमपि हिन्दुधर्मे साम्यं भजते यतः हिन्दुधर्मे अपि वृक्षस्य पूजा प्रचलति इति । अपि च तैः आचर्यमाणः 'कर्म'पर्व कर्म-एकादश्यां (भाद्रपदशुक्ल-एकादशी), 'सर्हुल्'पर्व चैत्रशुक्लतृतीयायां भवति सर्वदा हिन्दुपञ्चागानुसारम् । किन्तु वनवासिषु अधिकांशाः इदम् अर्थहीनं मन्यन्ते यतः तेषु हिन्दुवर्णव्यवस्था (ब्राह्मण-क्षत्रिय-वैश्य-शू्द्रादि) न विद्यते । केचन आदिवासिनः आग्रहम् अकुर्वन् यत् भारतस्य जनगणनायां तेषां धर्मः पार्थक्येन उल्लेखनीयः इति । २०११ तमस्य वर्षस्य जनवरिमासस्य १-२ दिनाङ्कयोः अखिलभारतीय-आदिवासिसम्मेलनम् आयोजितम् आसीत् [[पश्चिमबङ्गालम्|पश्चिमवङ्गे]] [[असन्सोलमण्डलम्|असन्सोल्मण्डलस्थे]] बर्नपुरे । अस्मिन् ७५० प्रतिनिधयः भागम् अवहन् । तैः कृतस्य मतदानस्य विवरणम् एवमस्ति - सारि धोरोम् - ६३२, सर्णा - ५१, खेर्वालिस्म् - १४, अन्ये धर्माः - ३ । झारखण्डे ३२ वनवासिगणाः सन्ति । ते असुर्, बैगा, बञ्जार, बथुडि, बेडिया, बिञ्जिया, बिर्होर्, बिर्जिय, खेरो, चिक्-बारिक्, गोन्द्, गोरैट्, हो, कार्मलि, खरिय, खार्वार्, खोन्द्, किसान्, कोरा, कोर्वा, लोह्रा, माह्लि, माल्-पहारिय, मुण्ड, ओरान्, पर्हाय, सन्ताल्, सौरिय-पहारिय, सवर्, भुम्जि, कोल्, कान्वार् च । झारखण्डराज्यस्य केषुचित् मण्डलेषु वनवासिनः एव अधिकसङ्ख्याकाः ।
जनगणनाविवरणं दर्शयति यत् क्रमशः राज्ये वनवासिनां सङ्ख्या न्यूना जायमाना अस्ति, वनवासिभिन्नानां सङ्ख्या वर्धमाना अस्ति इति । वनवासिनां जननप्रमाणस्य अल्पता, मरणप्रमाणस्य आधिक्यम्, अन्येषाम् अत्र आप्रवासः, इतः वनवासिनां देशान्तराधिवासनम्, औद्योगिकीकरणस्य दुष्परिणामाः, नगरीकरण्म् इत्यादयः अस्य हेतवः । वनवासिनः वदन्ति यत् विवरणमिदं न युक्तम्, वयमेव अधिकसङ्ख्याकाः स्मः इति ।
==भाषाः==
 
स्वातन्त्रप्राप्तेः अनन्तरं देशस्य प्रगत्यर्थं कृतायाः योजनायाः द्वारा एव झारखण्डराज्यस्य जनसङ्ख्यायां महत् परिवर्तनं दृष्टमित्येषः विपर्यासः एव । १९५१ तमात् वर्षात् केन्द्रजल-आयोगेन ९० मुख्याः जलबन्धाः, ४०० सामान्यजलबन्धाः, ११,८७८ लघुबन्धाः च निर्मिताः । ७९ मुख्यानि औद्योगिककेन्द्राणि कार्यागाराश्च निर्मिताः । एताभिः निर्माणयोजनाभिः औपचरिक-आर्थिकतावलम्बिनां लाभः जातः । किन्तु अनौपचारिक-आर्थिकतावलम्बिनां प्राकृतिकसम्पत्त्यैकावलम्बिनां वनवासिनां जीविकायै महती विपत्तिः आपतिता । ३० लक्षजनाः एतासां योजनानां कारणतः स्थानान्तरिताः अभवन् । तेषु ९०% जनाः आसन् वनवासिनः ।
 
वनवासिषु अधिकांशाः जगदात्मवादस्य सर्णामतस्य अनुयायिनः । इदं मतं हिन्दु-क्रैस्त-यवनमतभिन्नं किञ्चन मतम् । मुण्डरिभाषायां 'सर्णा'इत्यस्य अर्थः 'पवित्रा वनिका' इति । 'सिङ्ग बोङ्ग'नामके विशेषचैतन्ये एतेषां विशेषश्रद्धा । इदं जगत् असङ्ख्यानां विविधविधानां चैतन्यजीविनां वासस्थानम् इति तेषां विश्वासः । एते तैः चेतनैः सह समीपसाङ्गत्येन एव सर्वम् आचरन्ति । सर्णा इति कथ्यमानस्य 'साल् ट्री' (इज्जलवृक्षस्य) अधः एव धार्मिकविधीन् आचरन्ति यत्र 'बोङ्ग' प्रत्यक्षः भवति इति विश्वस्यते ।
 
वनवासिनां पुराणकथानुसारं सर्णामतस्य उगमः एवं जातः - कदाचित् मृगयार्थं वनं प्रति गताः वनवासिनः वृक्षस्य अधः विश्रामसुखम् अनुभवन्तः चर्चाम् आरब्धवन्तः - 'अस्माकं सृष्टिकर्ता रक्षकः कः ?' इति । सूर्यः वा ? वायुः वा ? मेघः वा ? अन्ते तैः निर्णीतं यत् बाणं प्रमुञ्चामः, तस्य लक्ष्यीभूतं यद् भवति स एव देवस्य निवासः इति । तथैव आकाशं प्रति तैः बाणः प्रमुक्तः । सः इज्जलवृक्षस्य अधः अपतत् । ततः ते इज्जलवनिकायां सिङ्गबोङ्गस्य आराधनाम् आरब्धवन्तः । 'साल्ट्री'तः निष्पन्नम् इत्यतः 'सर्णा' इति नाम । एवं सर्णामतम् अस्तित्वं प्राप्नोत् । तस्मिन् 'नैके' 'कुडम् नैके' इति कथ्यमानाः अर्चकाः सहार्चकाः च भवन्ति सर्वेषु सन्थाल्ग्रामेषु । 'पहानाः' भवन्ति मुण्डाग्रामेषु ।
 
बहवः हिन्दवः विश्वसन्ति यत् इदमपि हिन्दुधर्मे साम्यं भजते यतः हिन्दुधर्मे अपि वृक्षस्य पूजा प्रचलति इति । अपि च तैः आचर्यमाणः 'कर्म'पर्व कर्म-एकादश्यां (भाद्रपदशुक्ल-एकादशी), 'सर्हुल्'पर्व चैत्रशुक्लतृतीयायां भवति सर्वदा हिन्दुपञ्चागानुसारम् । किन्तु वनवासिषु अधिकांशाः इदम् अर्थहीनं मन्यन्ते यतः तेषु हिन्दुवर्णव्यवस्था (ब्राह्मण-क्षत्रिय-वैश्य-शू्द्रादि) न विद्यते । केचन आदिवासिनः आग्रहम् अकुर्वन् यत् भारतस्य जनगणनायां तेषां धर्मः पार्थक्येन उल्लेखनीयः इति । २०११ तमस्य वर्षस्य जनवरिमासस्य १-२ दिनाङ्कयोः अखिलभारतीय-आदिवासिसम्मेलनम् आयोजितम् आसीत् [[पश्चिमबङ्गालम्|पश्चिमवङ्गे]] [[असन्सोलमण्डलम्|असन्सोल्मण्डलस्थे]] बर्नपुरे । अस्मिन् ७५० प्रतिनिधयः भागम् अवहन् । तैः कृतस्य मतदानस्य विवरणम् एवमस्ति - सारि धोरोम् - ६३२, सर्णा - ५१, खेर्वालिस्म् - १४, अन्ये धर्माः - ३ ।
 
झारखण्डे ३२ वनवासिगणाः सन्ति । ते असुर्, बैगा, बञ्जार, बथुडि, बेडिया, बिञ्जिया, बिर्होर्, बिर्जिय, खेरो, चिक्-बारिक्, गोन्द्, गोरैट्, हो, कार्मलि, खरिय, खार्वार्, खोन्द्, किसान्, कोरा, कोर्वा, लोह्रा, माह्लि, माल्-पहारिय, मुण्ड, ओरान्, पर्हाय, सन्ताल्, सौरिय-पहारिय, सवर्, भुम्जि, कोल्, कान्वार् च । झारखण्डराज्यस्य केषुचित् मण्डलेषु वनवासिनः एव अधिकसङ्ख्याकाः ।
 
राज्यभाषा [[हिन्दी]] चेदपि जनाः बहुभिः भाषाभिः व्यवहरन्ति याः गणत्रये योजयितुं शक्याः - मुण्डाभाषाः - सन्ताली, मुन्दरि, हो, खरिय, भूम्जिभाषा च । इण्डो-आर्यन्-भाषाः - [[बङ्गाली]], [[ओरिया]], कोसली, [[मैथिली]], नागपुरी, सद्रि, खोर्थ, कुर्मलि, पञ्चपरगणियभाषा च । द्रविडियन्भाषाः - ओरान् (कुरुख्), कोर्वा, पहारिय (माल्टो)भाषा च । सेन्तालि, मुण्डरि, हो भाषाः च सहोदर्यः इति कथयितुं शक्यं यतः ८०%-९०% तासां व्याकरणं समानम् अस्ति ।
 
५,९२०

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/210198" इत्यस्माद् प्रतिप्राप्तम्