सामग्री पर जाएँ

"वेणुः (वाद्यम्)" इत्यस्य संस्करणे भेदः

No edit summary
[[सङ्गीतम्|शास्त्रीयसङ्गीतस्य]] परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना वाद्यैः अलङ्कारशून्या नारीव नीरससङ्गीतं भवति। विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति। वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति। एतेषु मधुरं मनमोहकं भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] वादितं वाद्यं वेणुवाद्यं भवति।द्वापरान्ते कृष्णावतारे भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्)। सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति। नाट्यशास्त्रस्य रचयिता [[भरतः|भरतस्य]] काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते। षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता।
==वेणुनिर्माणम्==
फलितं, सरलंच वंशमानीय छायायां संस्थाप्य शोषणं करणीयम्। अनन्तरं कनिष्टिका प्रमाणे रन्ध्राणां छेदः कर्तव्यः। ८ रन्ध्राणि भवन्ति। ४ अङ्गुलान्तरे एकस्य रन्ध्रस्य छेदः कर्तव्यः। [[हिन्दुस्थानीशास्त्रीयसङ्गीतम्हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्थानीशास्त्रीयसङ्गीतस्यहिन्दुस्तानीशास्त्रीयसङ्गीतस्य]], [[कर्णाटकसङ्गीतम्|कर्णाटकशास्त्रीयसङ्गीतस्यच]] वेणुवाद्यस्य गात्रादि विषयेषु भेदाः वर्तन्ते।
 
==नामान्तराणि==
*मुरलि
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/211611" इत्यस्माद् प्रतिप्राप्तम्