"खयाल्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ७: पङ्क्तिः ७:


[[वर्गः:सङ्गीतम्]]
[[वर्गः:सङ्गीतम्]]
[[वर्गः:हिन्दुस्तानीसङ्गीतम्]]

०५:०१, २० नवेम्बर् २०१२ इत्यस्य संस्करणं

हिन्दुस्तानीशास्त्रीयसङ्गीते नैके प्रकाराः विद्यन्ते। ध्रुपद् उत् ध्रुवपद, होरि उत धमार्, खयाल् उत ख्याल्, ठुम्रि, टप्पा, दाद्रा, तराना, तिरवत्, गजल्, खव्वालि, सादरा, खमसा, लावणि, चतुरङ्ग,भजन्, सरगम्, रागमाला इत्यादयप्रकाराः सन्ति। तेषु अन्यतमः प्रकारः खयाल् भवति। "फारसी" भाषायां खयाल् शब्दस्य "विचारः" उत "कल्पना" इत्यर्थः भवति। रागस्य नियमपालनं कुर्वन्तः कल्पनानुसारं विभिन्न तान् तथा आलापान् विस्तारं कुर्वन्तः एकताल्, त्रिताल्, झुमरा, आधा चौताल् इत्यादिषु तालेषु गानं कुर्वन्ति। खयाल् गीतेषु शृङ्गाररसस्य प्रयोगाः अधिकतया दृश्यन्ते। खयाल् गायने जलद तान् गिटकरी इत्यादयः प्रयोगाः प्रसिद्धाः सन्ति। स्वराणां वैचित्र्यं तथा चमत्कारदर्शनार्थं खयाले विभिन्न तान् स्वीकुर्वन्ति। ध्रुपद् प्रकारे यथा विद्यमानगाम्भीर्यं तथा भक्तिरसः भवति तथा खयाल् प्रकारे नभवति।

विभागः

अस्मिन् प्रकारे विभागद्वयं भवतः।

  • बडाखयाल्- विलम्बितलये गायन्ति चेत् बडाखयाल् इति व्यवहारः।
  • छोटाखयाल्- द्रुतलये गायन्ति चेत् छोटाखयाल् इति व्यवहारः।

गायकः यदा खयाल् गानारम्भं करोति तदा विलम्बितलये एव आरम्भं करोति। विलम्बित एकताल्, तीनताल्, झमरादिषु गायति। समनन्तरमेव छोटाखयाल् गायति। मध्य उत ध्रुतलये आरम्भं करोति। प्रायः त्रिताल् उत द्रुत एकताले गायति। एकस्मिन् समये यदा प्रकारद्वयस्य गानं भवति तदा एकस्मिन् एव रागे गायन्ति। किन्तु, बोल् उत कवितायाः (चीज्) व्यत्यासः दृश्यते। मोघलसाम्राज्ये महम्मद षा रङ्गीले काले(१७१३) प्रसिद्धौ खयाल् गायकौ सदारङ्गअदारङ्गौ आस्ताम्। आभ्यां सहस्राधिकखयाल्कविताः रचिताः।अधिकाः शिष्याः आसन्।

"https://sa.wikipedia.org/w/index.php?title=खयाल्&oldid=213369" इत्यस्माद् प्रतिप्राप्तम्