"जम्बीरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding pa:ਨਿੰਬੂ; removing: lij:Çetron (strongly connected to sa:नारङ्गफलम्)
(लघु) Robot: Adding ba:Лимон
पङ्क्तिः ३९: पङ्क्तिः ३९:
[[ast:Citrus limon]]
[[ast:Citrus limon]]
[[az:Limon]]
[[az:Limon]]
[[ba:Лимон]]
[[bar:Limauni]]
[[bar:Limauni]]
[[bat-smg:Cėtrėna]]
[[bat-smg:Cėtrėna]]

०६:०६, २० डिसेम्बर् २०१२ इत्यस्य संस्करणं

वृक्षे दृश्यमानं निम्बूकम्
पूर्णं, कर्तितं च निम्बूकम्

एतत् निम्बूकम् अपि भारते वर्धमानः कश्चन फलविशेषः । एतत् निम्बूकम् अपि सस्यजन्यः आहारपदार्थः । एतत् निम्बूकम् आङ्ग्लभाषायां Lemon इति उच्यते । प्रायः भारते सर्वेषु अपि प्रदेशेषु अस्य निम्बूकस्य उपयोगः क्रियते एव । एतत् निम्बूकम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य निम्बूकसस्यस्य फलं, त्वक्, पत्रं च उपयुज्यते । अन्यानि अङ्गानि न उपयुज्यन्ते । अनेन निम्बूकेन अवलेहः, पेयम्, उपसेचनम् इत्यादिकं सज्जीक्रियते । चित्रान्नसदृशाणाम् उपहाराणां निर्माणे अपि निम्बूकम् उपयुज्यते । एतत् निम्बूकं सौन्दर्यवर्धकरूपेण अपि उपयुज्यते ।

अपक्वं निम्बूकम्
निम्बूकपुष्पम्

आयुर्वेदस्य अनुसारम् अस्य निम्बूकस्य स्वभावः

निम्बूकसस्यम्
निम्बूकक्षेत्रम्
निम्बूकपत्राणि पुष्पाणि च

एतत् निम्बूकम् आम्लरसयुक्तम् । एतत् निम्बूकं पचनार्थं गुरु । एतत् निम्बूकं तीक्ष्णम्, उष्णवीर्ययुक्तं चापि । एतत् निम्बूकं जीर्णानन्तरम् अपि आम्लविपाकः एव भवति ।

१. एतत् निम्बूकं कफं वातं च हरति ।
निम्बूकवृक्षः
२. एतत् निम्बूकं श्वासरोगे, कासे च उपयुज्यते ।
३. एतत् निम्बूकं मलस्य अवरोधम्, आमदोषं च निवारयति ।
४. एतत् निम्बूकं वात-कफजन्येषु विकारेषु, उत्क्लेषे च उपयुज्यते ।
५. अस्य निम्बूकस्य पत्रस्य रसं ५ – १० मि.ग्रां यावत् उपयोक्तुं शक्यते ।
६. अस्य निम्बूकस्य त्वचा निर्मितं कषायं अनारोग्यावसरे ४० – ५० मि.ली. यावत् दातुं शक्यते ।
७. निम्बूकस्य रसम् उष्णजले योजयित्वा दिने ४ – ६ वारम् इव पातव्यम् । तथा पानावसरे किञ्चिक् कालं यावत् तत् जलं मुखे रक्षित्वा अनन्तरं गिलनं करणीयम् । तथा करणेन मुखे जाताः पिटकाः, दन्तपाल्याः बाधाः च निवारिताः भवन्ति ।
८. पूर्णं दिनम् उपवासं कुर्वन्तः मध्ये मध्ये उष्णजले निम्बूकस्य रसं योजयित्वा पिबन्ति चेत् पीनसः अपगच्छति ।
९. प्रतिदिनं प्रातः एकस्य निम्बूकस्य रसं निष्पीड्य तत्र १२५ ग्रां यावत् हिङ्गु मिश्रीकृत्य पातव्यम् । एवं ६ दिनानि कृत्वा सप्तमे दिने अतिसारस्य (विरेचनस्य) औषधं सेवनीयम् । तथा कृतं चेत् उदरे विद्यमानाः क्रिमयः अपगच्छन्ति ।
१०. एतत् निम्बूकं मलस्य अवरोधं, वमनं, कृमिरोगं च शमयति ।
११. एतत् निम्बूकं उदरवेदनां, यकृत्-विकारं, हृदयवेदनां च निवारयति ।
१२. एतत् निम्बूकं पित्तं वर्धयति । अतः पित्तप्रकृतियुक्तानां, पित्तजन्यैः रोगैः पीडितानां, पित्तदेशे काले एतत् वर्ज्यम् ।


"https://sa.wikipedia.org/w/index.php?title=जम्बीरम्&oldid=216476" इत्यस्माद् प्रतिप्राप्तम्