"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः
(लघु) r2.7.1) (Robot: Modifying el:Ρατζαστάν |
(लघु) r2.7.3) (रोबॉट: la:Rajasthan की जगह la:Rajasthana जोड़ रहा है |
||
पङ्क्तिः २३४: | पङ्क्तिः २३४: | ||
[[kn:ರಾಜಸ್ಥಾನ]] |
[[kn:ರಾಜಸ್ಥಾನ]] |
||
[[ko:라자스탄 주]] |
[[ko:라자스탄 주]] |
||
[[la: |
[[la:Rajasthana]] |
||
[[lt:Radžasthanas]] |
[[lt:Radžasthanas]] |
||
[[lv:Rādžastāna]] |
[[lv:Rādžastāna]] |
२१:३२, ५ फेब्रवरी २०१३ इत्यस्य संस्करणं
Rajasthan राजस्थानराज्यम् | ||
---|---|---|
राज्यम् | ||
| ||
भारते राजस्थानराज्यम् | ||
राजस्थानराज्यस्य भूपटः | ||
राष्ट्रम् | भारतम् | |
उद्घोषणम् | १ नवम्बर १९५६ | |
राजधानि | जयपुर | |
मण्डलम् | ३३ | |
Government | ||
• राज्यपालः | मार्गरेट आल्वा | |
• मुख्यमन्त्री | अशोकः घेलोट | |
Area | ||
• Total | ३४२२३९ km२ | |
Area rank | १म | |
Population (२०११) | ||
• Total | ६८६२१०११२ | |
• Rank | ८म | |
• Density | २,०००/km२ | |
Time zone | UTC+05:30 (भारतीय कालगणनम्) | |
साक्षरतापरिमाणम् | ६८% (१५तम) | |
भाषा | हिन्दि, राजस्थानी, मारावाडी | |
Website | http://assam.gov.in assam.gov.in |
राजस्थानम् भारतस्य विशालतम प्रान्त: अस्ति। इदं भारतवर्षस्य पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुस्थलम्(सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे राजपूतानानाम्ना विख्यातम् । अपूर्वलोकगीतानि लोकनृयत्यानि पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लम् ३,४२,२३९ वर्ग किमी अस्ति। अस्य जनसन्ख्या ६८,६२१,०१२ वर्तते। पुरातनेषु पर्वतशिखरेषु अरावळीशिखराः राराजन्ते अस्मिन् राज्ये। एवमेव मौण्ट् अबू , तथा दिल्वारा पर्वतौ अपि प्रसिद्धौ भवतः। पूर्वराजस्थाने व्याघ्राभयारण्ये भवतः। रणथम्बोर, सारिस्कामृगधाम, भरतपुरादिप्रदेशेषु पक्षिसंरक्षणाकेन्द्राणि प्रसिद्धानि सन्ति। संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति।
प्राचीनेतिहासः
राजस्थानस्य प्रमुखभागेषु मीनावंशीयानां शासनम् आसीत्। १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन्। गुजरात तथा राजस्थानस्य अधिकभागः “गुर्जरात्र” नाम गुर्जरशासकैः रक्षितप्रदेशः आसीत्। ३०० वर्षाणि गुर्जरशासकाः "उत्तरभारतं" यवनशासकैः रक्षितवन्तः आसन्। रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनं आरब्धवन्तः। वंशस्य उत प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत्। भूगोलस्य दृष्ट्याऽपि प्रदेशाणां नामानि स्थापयन्ति स्म। उदयपुर, डूङ्गरपूर, बांसवाडा, प्रतापगढ, जोधपुर, बीकानेर, किशनगढ, सिरोही, कोटा, बून्दी, जयपुरम्, अलवर, भरतपुर, करौली, झालावाड, टोंक च संस्थानानि भवन्ति। ब्रिटिष् शासनकाले राजस्थानस्य “राजपूताना” नाम आसीत्। वंशभूषणः असाधारणः देशभक्तः “महाराणाप्रतापसिंहः” स्वपराक्रमेण विश्वेस्मिन् प्रसिद्धः आसीत्। राजस्थानराज्यं भारतस्य महत्वपूर्णं राज्यं भवति। अधीनराजानां शासने विद्यमानाः प्रान्ताः विलीनो भूत्वा ३० मार्च १९४९ तमे संवत्सरे भारतस्य राज्यत्वेन अस्य राज्यस्य उद्घोषणं कृतम्। राजस्थानपदस्य “राज्ञां स्थानं” इत्यर्थः। कुतश्चेत् अस्मिन् राज्ये गुर्जर, राजपूत, मौर्य तथा जाट वंशीयाः राजानः आसन्।
भूगोलम्
राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति। अस्य राज्यस्य उत्तरे पाकिस्तानदेशः, पञ्जाबराज्यम्, हरियाणाराज्यञ्च भवन्ति। दक्षिणे मध्यप्रदेशराज्यम्, गुजरातराज्यञ्च भवतः। पूर्वे उत्तरप्रदेशः मध्यप्रदेशश्च भवतः। पश्चिमे पकिस्तानदेशः भवति। सिरोहीतः अलवर गमनमार्गे ४८० कि मि विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकितिकदृष्ट्या एतत् राज्यं विभजति। पूर्वस्मिन् भागे रसवद्भूमिः विद्यते। अस्मिन् भागे प्रायः ५० से.मी. तः ९० से.मी. वृष्टिः भवति। माहिनद्याः चम्बल् जलबन्धस्य निर्माणानन्तरं विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते। कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति। अस्मिन् भागे ताम्र, सतु, मैका, फेनकशिला, अन्येच खनिजाः लभ्यन्ते। राज्यस्य पश्चिमभागे भारते विद्यमाना बृहत् थार भूमिः अस्ति। अस्मिन् भागे १२ से.मी. तः ३० से. मी. वृष्टिः भवति। अस्मिन् भागे लूनी, बाण्ड्यादि नद्यः प्रवहन्ति। अस्य राज्यस्य ३.४२ लक्षवर्ग कि.मी. परिमिता भूमिः अस्ति। भारते अतीवबृहत् राज्यं भवति।
प्रसिद्धानि नगराणि
जयपुर
- पाटलनगरम्(Pink city) इत्यव प्रसिद्धम्।
- अस्य राज्यस्य राजधानी।
- सुन्दराः प्रासादाः, दुर्गाः, सरोवराश्च सन्ति।
- नगरस्य प्रासादः मोघल तथा राजस्थानयोः वास्तुशैल्या निर्मितोऽस्ति।
- “हवामहल्” सा.श. १७९९ तमे संवत्सरे सवायी प्रतापसिंहस्य नृपस्य शासनकाले निर्मतम् आसीत्। वास्तुशिल्पकारः “लाल् चन्द उस्व”।
- अमेर दुर्गे मन्दिराणि,सुन्दरौद्यानञ्च वर्तन्ते।
- सार्वकारस्य वस्तुसङ्ग्रहालयस्य सा.श. १८७६ तमे संवत्सरे निर्माणं कृतवन्तः।
- अभरणानि, काश्टेन निर्मितानि वस्तूनि, शस्त्राणि,चित्राणि, वस्त्राणिच सङ्ग्रहालये सन्ति।
- जलमहल् सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः।
- कनकवृन्दावनं जनप्रियम् विहारस्थानं भवति।
भरत्पूर
- राजस्थानस्य पूर्वस्य प्रवेश मार्गः भरत्पूर भवति।
- केवलादेवी अन्ताराष्ट्रिय उद्यानम् अस्ति। बहुप्रसिद्धः पक्षिधामः अपि अस्ति।
- लोहदुर्गः(लोहगढ) भरत्पूरस्य सुप्रसिद्धः स्थानविशेषः भवति। “ऐरन् पोर्ट”इति प्रसिद्धिः अस्य।
- भरत्पूरस्य वस्तुसङ्ग्रहालयः स्वप्रदेशीय वीराणां शौर्यं स्फुटीकरोति।
- भरत्पूरस्य वस्तुसङ्ग्रहालयस्य समीपे सुन्दरं “नेहरू उद्यानम्” अस्ति।
- डीगप्रासादः सुन्दरः बृहच्च भवति। शासकानां ग्रीष्मकालीन आवासस्थलम् आसीत।
जोधपूर
- राजस्थानस्य पश्चिमभागे विद्यमानः प्रदेशः राज्ये द्वितीयं नगरञ्च भवति। सुन्दरदुर्गः, मन्दिराणिच यात्रिकान् मोहयन्ति।
- अस्मिन् नगरे केचन धातूनां, वस्त्राणाञ्च उद्योगाश्रिताः जनाः भवन्ति।
- सुप्रसिद्धेषु भारतीय दुर्गेषु “मेहरानगढ” दुर्गः अपि एकः। अस्य दुर्गस्य अन्ते मोतिमहल्, फूलमहल्, शीशमहलच भवन्ति। अस्मिन्नेव कश्चन वस्तुसङ्ग्रहालयः अस्ति। अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानिच सन्ति।
- उम्मेदभवन प्रासादः प्रसिद्धः सुन्दरश्च भवति।
- “बालसमन्द सरोवरः” विहाराय योग्यं स्थलं भवति।
- “मारवाड” प्रमुखः उत्सवः भवति। अक्टोबरमासे आचर्यते।
- अक्टोबरमासादारभ्य मार्चमासपर्यन्तं पर्यटनार्थं योग्यः कालः।
शिक्षणसंस्थाः
- राजस्थानविश्वविद्यालयः
- राजस्थानतान्त्रिकविश्वविद्यालयः
- राजस्थान केन्द्रीय विश्वविद्यालयः
- मोदी प्रौद्योगिकी तथा विज्ञान संस्थानम्,लक्ष्मणगढ़, (मानित विश्व विद्यालयः)
- वनस्थली विद्यापीठम् (मानित विश्विविद्यालयः)
- बिरला प्रौद्योगिकी एवं विज्ञान संस्थानम्, पिलानी (मानित विश्व विद्यालयः)
- जैन विश्विभारती विश्ववविद्यालय (मानित विश्वाविद्यालयः)
- एलएनएम सूचना प्रौद्योगिकी संस्थावनम् (मानित विश्ववविद्यालयः)
- मालवीय राष्ट्रिय प्रौद्योगिकी संस्थानम् (मानित विश्ववविद्यालयः)
- मोहनलाल सुखाडिया विश्वपविद्यालयः,
- राष्ट्रियविधिविश्वमविद्यालयः,
- राजस्थानकृषिविश्वविद्यालयः,
- राजस्थान आयुर्वेदविश्वविद्यालयः,
- राजस्थान संस्कृपतविश्वविद्यालयः,
- बीकानेर विश्वविद्यालयः,
- कोटा विश्वविद्यालयः
मण्डलनि
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।