"ताजमहल" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (रोबॉट: pa:ਤਾਜ ਮਹਿਲ की जगह pa:ਤਾਜ ਮਹੱਲ जोड़ रहा है
पङ्क्तिः १६१: पङ्क्तिः १६१:
[[or:ତାଜମହଲ]]
[[or:ତାଜମହଲ]]
[[os:Тадж-Махал]]
[[os:Тадж-Махал]]
[[pa:ਤਾਜ ਮਹਿਲ]]
[[pa:ਤਾਜ ਮਹੱਲ]]
[[pl:Tadź Mahal]]
[[pl:Tadź Mahal]]
[[pnb:تاج محل]]
[[pnb:تاج محل]]

१४:०१, २५ फेब्रवरी २०१३ इत्यस्य संस्करणं

ताजमहल्
تاج محل
क्षेत्रम् आग्रा, भारतम्
यामः २७°१०′२९″उत्तरदिक् ७८°०२′३२″पूर्वदिक् / 27.174799°उत्तरदिक् 78.042111°पूर्वदिक् / २७.१७४७९९; ७८.०४२१११
औन्नत्यम् 171 m (561 ft)
निर्मितम् 1632–1653[उद्धरणं वाञ्छितम्]
स्थपतिः उस्तादहमदलहौरिणा
स्थापत्यशैली Mughal
पर्यटकसंख्या More than 3 million (in 2003)
प्रकारः Cultural
मानदण्डः i
अभिहितः 1983 (7th session)
उद्धरणम् # 252
State Party  भारतम्
Region Asia-Pacific
लुआ त्रुटि पटलम्:Location_map में पंक्ति 390 पर: Minutes can only be provided with DMS degrees for longitude।

ताजभवनम् (अमृतशिलाकाव्यम्) आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् । ताजमहल् न केवलं भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । फ्रान्सदेशस्य ऐफेल् गोपुरमिव आस्ट्रेलिया देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । यमुनानद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य दैर्घ्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति ।

ताजमहल् स्वरूपम्

परितः प्रावारकम् अस्ति । दक्षिणदिशि महाद्वारम् अस्ति । उत्तरभागे ताजमन्दिरमस्ति । महाद्वारतः १८०० पादमितदीर्घम् उद्यानम् । मध्ये नालाः तत्र तत्र जलोत्सांसि सन्ति । ७५ पादमितम् चौकाकारकं सरोवरम् अस्ति। दूरतः वीक्षणसमये ३१३ पादमिते प्राङ्गणे १४० पादमितोन्नतं मन्दिरं सुन्दरतया द्रृश्यते । चौकाकारे शिल्पे चतुर्षु कोणेषु १४० पादमितोन्नताः त्रिस्तरीयाः वृत्तच्छदाः (मिनरेट्स्) सन्ति । मध्ये उन्नते प्राङ्गणे १८६ पादमिते चौकाकारे स्थले मुख्यं ताजमन्दिरम् अस्ति । केषुचिद्विभागेषु शिल्पानि सन्ति । अर्धगोलाकारके छदे (Tomb) भित्तिषु लताशिल्पानि विराजन्ते । पवित्रस्य कुरान् ग्रन्थस्य भागाः अत्र शिल्पेषु उत्कीर्णाः सन्ति । यथा यथा उपरि गम्यते तथा तथा अक्षराणां गात्रं बृहत् भवति ।

वैशिष्ट्यम्

ताजमहल् भवनं ये पश्यन्ति तेषा मनसि एतत् अलौकिकं भवन इति भावना भवति । अतीवाकर्षकं सुन्दरं काव्यमिव सर्वजनप्रियं भवन एतत् । मोगलचक्रवर्तिः शाहजहानः स्वप्रियपत्न्याः मुमताज़वर्यायाः स्मरणार्थं एतस्य निर्माणं कारितवान् । क्रिस्ताब्दे १६३११६५२ पर्यन्तस्य कालावसरे निर्मित एतत् कलास्थानं विश्वे अद्भुत स्थानेष्वन्यतम इति परिगण्यते । वर्णनातीतमेतत् चन्द्रिकाया अत्यन्तं मोहकं भवति । “यावत् एतस्य साक्षात् दर्शनं न क्रियते तावत् तस्य वर्णनम् अपूर्णम् एव तिष्ठति । अस्य अद्भुत सौन्दर्यं साक्षादेव द्रष्टव्यम् ” इति फर्ग्युसन् महोदयः उक्तवान् अस्ति । भवने बहिर्भागे उपयुक्ताः अमृतशिलाः सम्यक् घर्षयित्वा मसृणतायुक्ताः कृताः सन्ति । सूर्यप्रकाशे किरणानि सर्वत्र प्रतिफलन्ति । पुरतः निर्मले सरोवरजले ताजमहल् प्रतिबिम्बः द्रृष्टुं शक्नुमः । ताजमहल् दर्शनाय ग्रीष्मकाले प्रातः ७.३० वादनतः , शीतकाले ८ वादनतः प्रवेशावकाशः अस्ति । साधारण समये अल्प शुल्क । ४.०० वादनानन्तरं शुल्कं महार्घं भवति। शुक्रवासरे दर्शनं निश्शुल्कम् भवति । सोमवासरे अत्र विरामः भवति ।

विमानमार्गः

देहली खजुराहो वाराणसी इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति ।

धूमशकटमार्गः

देहलीचेन्नै मार्गे आग्रा प्रमुखनिस्थानमस्ति । कोलकातातः आगतवतां टुण्डला निस्थानं समीपे भवति । ततः ३५ कि.मी वाहनमार्गेण गन्तव्यम् । आग्राकण्टोन्मेण्ट् मुख्य निस्थानमस्ति ।

भूमार्गः

मुख्यवाहननिस्थानं पोर्टवाहननिस्थानमस्ति । ईदगावाहननिस्थानतः नगरवाहनसम्पर्कः अस्ति । देहलीतः २०० कि.मी. । ग्वालियर्तः ११९ कि.मी. । लखनौतः ३६९ कि.मी । मुम्बयीतः ३२० कि.मी । जयपूरतः १३० कि.मी । भरतपुरतः ६० कि.मी । मथुरातः ५८ कि.मी. । देहलीतः एकदिनप्रवासव्यवस्था अस्ति ।


एषः भवनसमुच्चयः ६० ‘बिघा’ विशालयुक्तः अस्ति । अयः प्रदेशः दक्षिणतः उत्तरदिशि नद्यभिमुखं प्रसृतः, निम्नभूमिं प्रति गच्छन्त्यः वीथिकाः इव च अस्ति । द्वितीये आलिन्दे किञ्चन चतुरस्रोद्यानम् अस्ति , यत् उभयतः पटमण्डपाः वर्तन्ते । विविधाकारकैः जलनालैः अयं प्रदेशः चतुर्धा विभक्तः अस्ति । एते चत्वारः प्रदेशाः ‘चारबाग्’ नाम्ना ख्याताः सन्ति ।

मुख्यशिखरगोलार्धं वस्तुतः चतुरस्त्राकारयुतम् अस्ति, यस्य कोणानि निम्नताकारेण कर्तितानि दृश्यन्ते । प्रार्थनाङ्गणानि इतः अयुक्तानि सन्ति । तानि मुख्यशिखराणां कोणाभिमुखानि वर्तन्ते । रक्तवर्णशिलया निर्मितं पश्चिमदिशि विद्यमानं प्रार्थनामन्दिरं स्वीयवर्णात् अत्रत्यं सौन्दर्यं परिवर्धयति ।

ताजभवनस्य् अन्तः, बहिः, ऊर्ध्वभागे, परितः विद्यमाने अमृतशिलाजानिकासु च दृश्यमानाः कलाकृतयः अत्यद्भुताः सन्ति ।१९८३ तमे वर्षे युनेस्कोसंस्थया ताजभवनं जागतिकपारम्परिकस्थलत्वेन घोषितम् । संस्थया उल्लिखितम् अस्ति यत् भारते यवनकलायाः आभरणम् इव स्थिता जागतिकपरम्परायां सर्वजनैः कीर्तिता काचित् श्रेष्ठा कलाकृतिः एषा इति । ताजभवनं प्रातः ६ वादनतः रात्रौ ७ वादन- पर्यन्तं सार्वजनिकानां दर्शनाय उद्घाटितं भवति । शुक्रवासरे भवनं पिहितं भवति । पूर्णिमादिने , ततः पूर्वं दिनद्वयं, तदनन्तरं दिनद्वयं च रात्रिकाले दर्शनाय उद्घाटितं भवति तत् । रमझान्मासे रात्रिदर्शनं न भवति । १९८३ तमे वर्षे विश्वपरम्परास्थानानां सूच्यां ताजमहल् योजितम् अस्ति ।

बाह्यसम्पर्कतन्तुः

अन्यानि चित्राणि

फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA

"https://sa.wikipedia.org/w/index.php?title=ताजमहल&oldid=227246" इत्यस्माद् प्रतिप्राप्तम्