"गृञ्जनकरसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding zh:胡萝卜汁
(लघु) Bot: Migrating 6 interwiki links, now provided by Wikidata on d:q1190074 (translate me)
पङ्क्तिः १३: पङ्क्तिः १३:
[[वर्गः:पेयानि]]
[[वर्गः:पेयानि]]


[[da:Gulerodsjuice]]
[[en:Carrot juice]]
[[fr:Jus de carotte]]
[[ko:당근 주스]]
[[sl:Korenčkov sok]]
[[th:น้ำแครอท]]
[[zh:胡萝卜汁]]
[[zh:胡萝卜汁]]

२३:३२, ८ मार्च् २०१३ इत्यस्य संस्करणं

गृञ्जनकरसः
कूप्यां संरक्षितः गृञ्जनकरसः
गृञ्जनकानि
गृञ्जनकरसस्य निर्माणम्

गृञ्जनकस्य रसः एव गृञ्जनकरसः । एतत् गृञ्जनकम् आङ्ग्लभाषायां Carrot इति उच्यते । तस्य रसः Carrot Juice इति उच्यते । गृञ्जनकरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य शाकरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः शाकरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य गृञ्जनकरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि गृञ्जनकरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं गृञ्जनकरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । गृञ्जनकानि बहुविधानि सन्ति । तदनुगुणं रसस्य अपि वर्णः रुचिः च परिवर्तते ।


अस्य गृञ्जनकरसस्य निर्माणम्

अस्य गृञ्जनकरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् गृञ्जनकं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । तदनन्तरं तेषु खण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=गृञ्जनकरसः&oldid=232672" इत्यस्माद् प्रतिप्राप्तम्