"आस्ट्रेलिया" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 225 interwiki links, now provided by Wikidata on d:q408 (translate me)
(लघु) removed Category:भूखण्डाः using HotCat
पङ्क्तिः ४४: पङ्क्तिः ४४:
* [http://gutenberg.net.au/dictbiog/00-dict-biogIndex.html Dictionary of Australian Biography, 1949 edition]
* [http://gutenberg.net.au/dictbiog/00-dict-biogIndex.html Dictionary of Australian Biography, 1949 edition]


[[वर्गः:भूखण्डाः]]
[[वर्गः:परिशीलनीयानि| स्थलम्]]
[[वर्गः:परिशीलनीयानि| स्थलम्]]

०६:१५, २० जून् २०१३ इत्यस्य संस्करणं

आस्ट्रेलियायाः वातावरणदर्शिनि चित्रम्

७,६८६,८४९ च कि मी विस्तारयुतः अस्ति आस्ट्रेलियाखण्डः । तास्मेनिया अस्मिन् अन्तर्भवति । अस्मिन् खण्डे ६ राजनैतिकविभागाः सन्ति । मांसं, क्षीरं, गोधूमः, फलानि, खनिजाः, कार्यागारः इत्येतैः आधारिता आर्थिकी व्यवस्था अत्र विद्यते ।

परिसरः

वृष्टिः

अस्य खण्डस्य महान् भागः मरुभूमिः इत्यतः शुष्कवातावरणम् अस्ति । वार्षिकवृष्टिः सामान्यतह् ५०० मि मीटर्मितम् । पर्थ, एडिलेड्, अल्बेनि, मेल्बर्न्, सिड्नि, ब्रिस्टेन्प्रदेशेषु वृष्टिः १०००-१५०० मि मीटर्मितं भवति । डार्विन्, यार्क भूशिरः, केर्क्स्, अल्बेनि, तास्मेनियायाः पश्चिमभागे वृष्टिः १५०० मि मी अपेक्षया अधिका भवति । खण्डस्य मध्यभागः पश्चिमभागश्च शुष्कौ स्तः । मध्यभागे ५००-२५० मि मी अपेक्षया न्यूना वृष्टिः भवति । अस्ट्रेलियायाः आल्प्स्-प्रदेशे हिमपातः भवति । खण्डस्य मध्यभागे मकरवृत्तं सञ्चरति ।

आस्ट्रेलियाध्वजः

औष्ण्यम्

जनवरीमासे अत्र ग्रीष्मकालः । दक्षिण-उत्तरभागेषु २५ -३० सेण्टिग्रेड्मितम् औष्ण्यं भवति । मध्यभागे वायव्यभागे च ३० -३५ सेण्टिग्रेड्मितं भवति । नैऋत्य-आग्नेयकरावलीप्रदेशेषु १० - १५ सेण्टिग्रेड्मितं भवति । विशेषतया विशालस्याण्डिमरुभूमौ औष्ण्यं भवति ४० सेण्टिग्रेड्मितम् । जुलैमासे अत्र शैत्यकालः भवति । तदा उत्तरकरावलीप्रदेशेषु औष्ण्यं भवति २५ -३० सेण्टिग्रेड्मितं भवति । दक्षिणदिशि १० सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । विशेषतया तास्मेनिया, विक्टोरिया, न्यू सौथ् वेल्स् प्रदेशेषु औष्ण्यं ५ सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति ।

सस्यसम्पत्तिः

वातावरणानुगुणं सस्यानि अपि अत्र विविधानि भवन्ति । विक्टोरिया न्यू सौथ् वेल्स्भागेषु समशीतोष्णवलयस्य पर्णपातारण्यानि सन्ति । अत्र मरुद्रुमः नीलगिरिश्च अधिकप्रमाणेन वैविध्यमयरीत्या वर्धन्ते । निर्यास-वृक्षाः अपि अत्र वर्धन्ते । ब्रिस्टेन्तः डार्विन्पर्यन्तं करावलीप्रदेशः, उष्णवलयस्य अरण्यानि च विद्यन्ते । अत्र ओक्, फर्न्, ताडजातिवृक्षः, आर्चिड् इत्यादयः उष्णवलयस्य सस्यानि वर्धन्ते । अस्मिन् खण्डे कृष्यर्थं विद्यमाना भूमिः अत्यल्पा । अधिकांशः भागः उष्णवलयस्य तृणवर्धनसमतलप्रदेशः अस्ति । क्वीन्स्लेण्ड्, उत्तरभूप्रदेशस्य उत्तरार्धं, पश्चिमवलयस्य उत्तरार्धम् इत्येते तृणवर्धनप्रदेशाः । मरे-डार्लिङ्ग्-खातेषु च तृणानि वर्धन्ते ।

फलोदयः

गोधूमः अत्रत्यः प्रमुखः फलोदयः । चीन-भारतयोः कृते इतः गोधूमस्य निर्यातः भवति । ओट्स्, बार्ले, सोरगम्, यावानलः, लघुप्रमाणेन व्रीहिश्च अत्र वर्धन्ते । समृद्धायाम् उत्तरभूम्यां कदली, आम्रम्, बीजपूरम्, मधुकर्कटी, अनानस्फलानि वर्धन्ते । दक्षिणभूम्यां नारङ्गम्, लिम्बूकम्, सेवम्, शुष्कद्राक्षा, बीजरहितानि वनफलानि च वर्धन्ते । अत्र ५५% भूभागः शाद्वलं १८% भूभागः अरण्यञ्च वर्तते ।

आस्ट्रेलियायाः मुक्तमहास्वर्णखनिः

खनिजाः

अयः, खनिजाङ्गारम्, बाक्सैट् इत्येतेषां खनिः प्रमुखतया अत्र विद्यन्ते । स्वर्णखनिः विक्टोरियायां पश्चिमास्ट्रेलियायाञ्च विद्यते । विक्टोऱिया, क्वीन्स्लेण्ड् न्यू सौथ वेल्स् प्रदेशेषु खनिजाङ्गारस्य खनिः विद्यते । न्यू सौथ् वेल्स् प्रदेशे रजतं, पुष्पाञ्जनं, सीसम्, अयः इत्येते विद्यन्ते । क्वीन्स्लेण्ड्प्रदेशे ताम्रं, युरेनियं, तैलेन्धनानि सन्ति । विक्टोरियायाम् इन्धनतैलम्, अनिलः, जिप्सम्, टिन्, स्वर्णञ्च उपलभ्यते । दक्षिणास्ट्रेलियायां सीसम्, अयः, युरेनियं खनिजाः सन्ति । उत्तरभूप्रदेशेषु ताम्रं, स्वर्णं, युरेनियं, मेङ्गनीस्, बाक्सैट्, रजतं, मैका, टङ्ग्स्टन् इत्यादीनां खनिजाः विद्यन्ते । पश्चिमास्ट्रेलिया स्वर्णाय प्रसिद्धा अस्ति । अत्रत्ययोः कालगूर्ली कूलगार्डी प्रदेशयोः स्वर्णोत्पादनं भवति । तास्मेनियायां खनिजाङ्गारं, ताम्रं, दास्ता, टिन्, रजतम् इत्यादीनां खनिजाः लभ्यन्ते ।

पर्वताः

ग्रेट्-डिवैडिङ्ग्-श्रेण्यः अत्र विद्यमानाः दीर्घाः विस्तृताः श्रेण्यः । सिड्नेः दक्षिणतः उत्तरस्य कुक्टौन्पर्यन्तं करावलेः समानान्तररूपेण विस्तृताः एताः सस्यानां वन्यप्राणिनाञ्च वरायते । होवेभूशिरसः वायव्यभागे आस्ट्रेलियायाः आल्प्स्-पर्वतश्रेण्यः विद्यन्ते । अत्र विद्यमानं २२३४ मी उन्नतं कोसियस्कोशिखरम् अस्मिन् खण्डे विद्यमानम् अत्युन्नतं शिखरं वर्तते । न्यूक्यासलस्य पश्चिमदिशि ब्लूपर्वताः सन्ति । एडीलेड्तः दक्षिणोत्तरदिशि फ्लैण्डर्स्-श्रेण्यः विद्यन्ते । ऐरिसरोवरस्य पूर्वभागेषु स्टुवर्ट्-मरुभूमिः, उत्तरदिशि सिम्प्सन्-मरुभूमिश्च विद्यते । अलीस्-स्प्रिङ्ग्सस्य उत्तरे मेक्डोनेल्-श्रेण्यः सन्ति । दक्षिणे मस्ग्रेव्-श्रेण्यः सन्ति । अस्याः श्रेण्याः दक्षिणभागे दक्षिण-पश्चिमभूप्रदेशेषु विक्टोरियामरुभूमिः विद्यते । अस्याः दक्षिणदिशि नल्लर्बार्-क्रीडाङ्गणं विद्यते । पश्चिमभूप्रदेशस्य मध्ये उत्तरभागे च गिब्सन्-मरुभूमिः, विशालस्याण्डि-सिकतामरुभूमिः च विद्यते । पर्थस्य समीपे डार्लिङ्ग्-श्रेण्यः सन्ति । वायव्यभागे हेमर्स्ले श्रेणी, राबर्ट्सन् श्रेणी च विद्यते । उत्तरे डर्बिप्रदेशस्य ईशान्यभागे किङ्ग् लियोपोल्ड् श्रेणी, ततः किम्बर्लि प्रस्थभूमिश्च विद्यते । उत्तरभूप्रदेशस्य उत्तरसमुद्रतीरभागे अर्न्हेम्-भूमिः विद्यते । अस्य दक्षिणभागे तनामिमरुभूमिः विद्यते । क्वीन्सलेण्ड्-प्रदेशस्य उत्तरभागे यार्क्-भूशिरसः प्रस्थभूमिः विद्यते । ऐरिसरोवरस्य कारणतः अत्र अन्तर्जलस्य लाभः विद्यते ।

जलसम्पत्तिः

अस्मिन् खण्डे विद्यमाना प्रमुखा नदी वर्तते मरेनदी । इयं विक्टोरिया-न्यू सौथ् वेल्स् प्रदेशयोः प्रवहति । अस्याः उपनद्यः सन्ति - डार्लिङ्ग्, मुर्रुम्बिजी, गौल्बर्न् च । अर्धमार्गे शुष्कतां गच्छन्त्यः काश्चन नद्याः सन्ति । पर्वतप्रदेशतः प्रवहन्त्यः पेसिफिक्-समुद्रेण मिलन्तः लघुनद्यः सन्ति । ऐरिसरोवरः दक्षिण-अस्ट्रेलियायां विद्यमानः कश्चन शुष्कः सरोवरः । फ्लैण्डर्स्-श्रेणीनां पश्चिमदिशि मधुरजलस्य सरोवराः सन्ति । पश्चिम-आस्ट्रेलियायाः कालगूर्लियां परितः प्रदेशेषु विशालविक्टोरिया-मरुभूमिप्रदेशेषु च लघुसरोवराः सन्ति । मध्य-आस्ट्रेलियायाम् अन्तर्जलं विद्यते । आर्टीसियन्-कूपैः जलं लभ्यते ।

कोलाभल्लूकः

प्राणिपक्षिणः

अयं खण्डः विचित्र प्राणिनां पक्षिणां च वासभूमिः । अत्र विद्यमानाः अनेके प्राणिनः अन्यत्र न विद्यन्ते । शरीरे विद्यमानेषु स्यूतेषु श्रावकान् नयन्तः प्राणिनः अत्र अधिकतया दृश्यन्ते । काङ्गरू, वल्लाबि, पोसम्, वोम्ब्याट्, चिक्रोडः, महामूषिकः, तास्मेनियावृकाश्च एवं स्यूतवन्तः भवन्ति । कोलाभल्लूकः, प्लाटिपस्-नामकः जलचरप्राणी, पिपीलिकाभक्षी एचिड्ना इत्येते अत्रत्याः विशिष्टाः प्राणिनः । वनशुनकः 'डिङ्गो' मेषानां मृगयां करोति । शशाः अत्र अत्यधिकाः । कोकाबुर्रा-पक्षी, उड्डयननर्हः एमु, केसोवेरि, विविधशब्दान् अनुकुर्वन् लैर्-पक्षी च अत्रत्याः विशेषाः । आकर्षकवर्णयुताः शुकाः, मधुभक्षी पक्षी, तीक्ष्णपुच्छयुतः गृध्रः, बकः, कदम्बः, पेलिकन्, कृष्ण-हंसपक्षी च अत्र वसन्ति ।

उद्यमाः

पर्थ, मेल्बर्न्, ब्रिस्टेन्, सिड्नि च अत्रत्याः प्रमुखानि उद्यमकेन्द्राणि । स्वर्णं खनिजाङ्गारयोः खन्युद्यमः अत्र पुरातनीयः महाप्रमाणकश्च वर्तते । अत्र मेषपालनं, ततः मेषमांस-ऊर्णयोः उत्पादनं, निर्यातः, क्षीरं, क्षीरकृषिः, उद्यानकर्म, गोधूमकृषिः च अत्रत्यप्रमुखकार्याणि । तान्त्रिकवस्तूनि, यन्त्रोपकरणानि, वस्त्रोत्पादनम्, आहारसंस्करणम्, अरण्यवृद्धिश्च अत्रत्याः प्रधानोद्यमाः ।

वैशिष्ट्यानि

काङ्गरू, डिङ्गो, वल्लाबि, कोलाभल्लूकः प्रमुखाः प्राणिनः । एमु लैर् च प्रमुखपक्षिणौ । अत्रत्यमूलनिवासिनां साधनम् अस्ति बूमराङ्ग् इत्येतत् (क्षिप्यते चेत् भ्रमणानन्तरं प्रयोक्तारं प्रत्येव आगच्छति) । आर्टिसियन्कूपाः, विशालमरुभूमिः, फलयुक्ता पूर्वकरावली, ग्रेट् बेरियर्नामिका प्रवालभित्तिः च अत्रत्य विशेषः । जनपद-आर्थिक-स्वावलम्बनयुक्तः प्रजाप्रभुत्वयुक्तः अस्ति अयम् । विमानयानद्वारा भवति अत्र आरोग्यसंरक्षणम् । टेन्निस्, क्रिकेट् च अस्य खण्डस्य विशिष्टक्रीडे । सिड्निप्रदेशे विद्यमानः अयःसेतुः ५०२ मीटर्मितं दीर्घं विद्यते ।

राजधानी - कन्बेरा

महाद्वीपः

बाह्‍य

"https://sa.wikipedia.org/w/index.php?title=आस्ट्रेलिया&oldid=240761" इत्यस्माद् प्रतिप्राप्तम्