"मिखाइल् गोर्बचोफ्" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) Shubha इति प्रयोक्त्रा मिखाइल गोर्बाचोफ इत्येतत् मिखाइल् गोर्बचोफ़् इत्येतत् प्रति चालितम् |
(भेदः नास्ति)
|
१०:५०, ११ जुलै २०१३ इत्यस्य संस्करणं
मिखाइल सर्गेयेविच् गोर्बाचोफ (Mikhail Gorbachev) कश्चन सुप्रसिद्धः राजकीयनेता अस्ति । कम्युनिष्ट्-पक्षस्य प्रमुखः सदस्यः अस्ति।
जननम्, बाल्यञ्च
मिखायिल् गोर्बाचोफ १९३१ तमे संवत्सरे मार्चमासस्य २ ये दिनाङ्के रष्या-देशस्य काकसन्-प्रदेशस्य प्रिवोल्नोयियाम् अजायत । एषः मेधावी आसित् । अस्य गणितम्, इतिहासश्च प्रियौ विषयौ भवतः । अस्य बाल्यजीवनं कठिणमयम् आसीत् । अस्य त्रयोदशे वयसि एव कृषिकार्यम् आरब्धवान् । कृषिकार्ये दक्षः आसीत् । अस्य षिडशे वयसि एव “ आर्डर् आफ् दि रेड्-ब्यानर् आफ् लेबर्” इति पुरस्कारं प्राप्तवान् आसीत् । अस्य पुरस्कारस्य प्राप्त्यनन्तरं मास्को विश्वविद्यालये अध्ययनार्थं प्रवेशं प्राप्तवान् । अस्मिन् एव विद्यालये शासनविधिं (Law) पठित्वा पदवीधरः सञ्जातः । सुप्रसिद्धः शासनतज्ज्ञः संजातः ।
वैय्यक्तिकजीवनम्
१९५३ तमे संवत्सरे सेप्टम्बर्-मासे "रैसा माक्सिमोवना तितारेङ्को" नाम्नीं विवाहं कृतवान् । १९५७ तमे संवत्सरे पुत्री जाता । तस्याः नाम ’ऐरिन्’ । १९८७ तमे संवत्सरे नवम्बर्-मासे “पेरिस्ट्रोयिक् न्यू थिङ्किङ्ग् फार् अवर् कण्ट्रि दि वर्ल्ड्” नामकपुस्तकं रचितवान् । अस्य “ग्लास्-वास्ट् पेरिस्ट्रोयिक्” नीतयः सुप्रसिद्धाः सञ्जाताः ।
राजनीतिः
सुप्रसिद्धेषु राजकीयनेतारेषु मिखायिल् गोर्बचेव् अन्यतमः । अस्य राजकीयजीवनं स्टाव्रोपोल्-प्रदेशे आरब्धम् । १९५२ तमे संवत्सरे मिखायिल् गोर्बाचोफ कम्युनिष्ट् पक्षस्य सदस्यः जातः । १९५६ तमे संवत्सरे कार्यदर्शित्वेन नियुक्तः । १८७४ तमे संवत्सरे 'सोवियत् युवजनायोगस्य' अध्यक्षः संजातः । १९८० तमे संवत्सरे पालिट्-ब्युरो-संस्थायाः सदस्यत्वं प्राप्तवान् । अस्य देशे तेषु दिनेषु क्षामः आसीत् । अतः तेन कृषिक्षेत्रे विनूतनपरिवर्तनानि आनीतानि । अतः समृद्धिराष्ट्रः सञ्जातः । १९८८ तमे संवत्सरे देशीयजनेभ्यः ग्लास्-नास्ट् परिचायितवान् । एतेन जनाः स्वातन्त्र्यं प्राप्तवन्तः । १९९० तमे संवत्सरे जुलैमासे प्रधानकार्यदर्शित्वेन पुनः नियुक्तः । एषः 'सोवियत् कम्युनिष्ट् पक्षस्य' अन्तिमः कार्यदर्शि आसीत् । 'यु एस् एस् आर्'-स्य अन्तिमः अध्यक्षः आसीत् ।
पुरस्काराः
- १९९० तमे संवत्सरे 'नोबेल्' शान्तिपुरस्कारं प्राप्तवान् ।
- १९९२ तमे संवत्सरे क्यालिफोर्नियादेशस्य प्रप्रथमतया 'रोनाल्ड् रेगन् प्रेसिडेन्षियर्' पुरस्कारं प्राप्तवान् ।
- १९९५ तमे संवत्सरे केनडादेशस्य "कार्लटन् विश्वविद्यालयस्य" ’लीगंडाक्टर्’ पुरस्कारं प्राप्तवान् ।
- ’डर्ह्यां विश्वविद्यालयस्य’ गौरवडाक्टरेट् उपाधिं प्राप्तवान् ।
- २००४ तमे संवत्सरे ’ग्रामि’ पुरस्कारं प्राप्तवान् ।
- मून्-स्टर् विश्वविद्यालयस्य ’गौरवडाक्टरेट्’ उपाधिं प्राप्तवान् ।
अस्वास्थ्यम्
- २००६ तमे संवत्सरे नवम्बर्-मासे अस्वस्थः जातः । ग्रीवायाः शस्त्रचिकित्सा अपि जाता । गोर्बचेफ् २००६ तमे संवत्सरे रषियादेशाय निर्गतः । सद्यः विश्रान्तिजीवने अस्ति ।
बाह्यानुबन्धः
- Gorby80 Gorbachev 80th Birthday Gala Celebration at the Royal Albert Hall London
- The Gorbachev Foundation
- Green Cross International
- Column and op-ed archives at Journalisted
- Column and op-ed archives at Project Syndicate
- Column and op-ed archives at The Guardian
Interviews and articles
- Public Opinion about Gorbachev
- The Encyclopaedia of Marxism, from which parts of this article have been taken.
- Out in the Cold Guardian interview 8 March 2005
- TIME 100 for 2004: Mikhail Gorbachev
- Biography, talks, tributes and quotes
- Ubben Lecture at DePauw University
- Commanding Heights: Mikhail Gorbachev (PBS interview), April 2001.
- USSR – USA: Summit Documents and Materials, Washington 30 May – 3 June 1990
- Gorbachev on 1989 – 2009 interview by The Nation
- Gorbachev's Legacy Examined, 25 Years After His Rise To Power article by Brian Whitmore
- Chernobyl 25 years later: Many lessons learned free article by Mikhail Gorbachev published in the Bulletin of the Atomic Scientists, March 2011