"प्रश्नोपनिषत्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:Om buttom.svg|thumb|]]
[[File:Om buttom.svg|thumb|]]
अथर्ववेदीयेयमुपनिषत् पिप्पलादतच्छिष्यानां संवादरुपा । अत्र षट्सङ्खाकाः शिष्याः पिप्पलादं यथाविधि उपगम्य ब्रह्मविद्यां बोधयितुं प्रार्थयन्ते । तनिद्दिश्य पिप्पलादर्षिः उवाच –भवन्तः सर्वे तपस्विनः ब्रह्मचर्यव्रतं पालयित्वा वेदान् अधीतवन्तः इति जाने अहम् । तथापि ममाश्रमे श्रध्दया ब्रह्मचर्यपूर्वकम् एकं वर्षं यावत् पुनः तपः चरन्तु । ततः परं यथाभिलाषं ब्रह्मजिज्ञासां कुर्वन्तु अहं यथामति बोधयिष्यामि इति । तथैव कृत्वा वर्षानन्तरं शिष्याः (सुकेशाः भारद्वाजः शैब्यः सत्यकामः, सौर्यायणी गार्ग्यः कौसल्यः आश्वलायनः, वैदर्भी भार्गवः, कबन्धी कात्यायनः) आगच्छन्ति
प्रश्नोपनिषत् (Prashnopanishat) अथर्ववेदीया उपनिषत् । गुरु-शिष्याणां संवादरूपा वर्तते इयम् उपनिषत् । अत्र षट्सङ्खाकाः शिष्याः गुरुं पिप्पलादं यथाविधि उपगम्य ब्रह्मविद्यां बोधयितुं प्रार्थयन्ते । तानुद्दिश्य पिप्पलादऋषिः उवाच –भवन्तः सर्वे तपस्विनः ब्रह्मचर्यव्रतं पालयन्तः वेदान् अधीतवन्तः इति जाने अहम् । तथापि ममाश्रमे श्रद्धया ब्रह्मचर्यपूर्वकम् एकं वर्षं यावत् पुनः तपः चरन्तु । ततः परं यथाभिलाषं ब्रह्मजिज्ञासां कुर्वन्तु अहं यथामति बोधयिष्यामि इति । तथैव कृत्वा वर्षानन्तरं शिष्याः (सुकेशाः भारद्वाजः शैब्यः सत्यकामः, सौर्यायणी गार्ग्यः कौसल्यः आश्वलायनः, वैदर्भी भार्गवः, कबन्धी कात्यायनः) आगत्य षट् प्रश्नान् पृच्छन्ति कश्चन प्रश्नः उत्तरञ्च योजयित्वा उपनिषदः खण्डः भवति । एवं षट् खण्डाः भवन्ति । एते प्रश्नाः इत्येव निर्दिश्यन्ते ।
==प्रथमप्रश्नः==
==प्रथमप्रश्नः==
तत्र प्रथमं तावत् कबन्धी कात्यायनः पृच्छति, यस्मादिदं चराचरं जगत् उत्पद्यते, तस्य कारणाभूतं तत्त्वं किम् इति । तस्य प्रश्नं श्रुत्वा गुरुः ब्रूते –सृष्टेरादौ प्रजाः स्रष्टुकामः प्रजापतिः एको ऽहं बहुस्यामिति चिन्तयन् सङ्कल्पमात्रेण प्राणरयिनामकं शक्तिद्वयं सृजतितत्र प्राणः आदित्यरुपः, रयिः चन्द्रमारुपा मूर्तामूर्तरुपत्वात् मूर्तिरेव रयिःप्रत्यक्षं यदिदं दृश्यते जगत् तत् रयिप्राणोः संयोगेनैव सकलं सुचरितमस्तीति अवगन्तव्यम् । सूर्यः सम्पूर्णस्य जगतः प्राणबिन्दुः इति कारणात् सूर्य आत्मा जगतस्तस्थुषश्चसूर्यदेव खल्विमानि भूतानि जायन्ते इति सूर्योपनिषदिचन्द्रमाः स्थावरजङ्गमात्मकं सम्पूर्णं स्थूलजगत् अस्य चन्द्रमसः सोमशक्तेः कारणात् परिपुष्टम् भवतिअस्माकं जीवनस्य सर्वकालेषु अपि सूर्याचन्द्रमसोरेव क्रीडा (प्रभावः) भवति इति दर्शयितुम् उत्तरायणदक्षिणायणरुपेण, अहोरात्ररुपेणव्याप्तत्वम् उच्यते
तत्र प्रथमं तावत् कबन्धी कात्यायनः पृच्छति, यस्मादिदं चराचरं जगत् उत्पद्यते, तस्य कारणीभूतं तत्त्वं किम् ? इति । तस्य प्रश्नं श्रुत्वा गुरुः ब्रूते – सृष्टेरादौ प्रजाः स्रष्टुकामः प्रजापतिः एकोऽहं बहुस्यामिति चिन्तयन् सङ्कल्पमात्रेण प्राणरयिनामकं (चैतन्य-जड) शक्तिद्वयं असृजत्इन्द्रियाणां गोचराः स्थूलसूक्ष्मादीनि वस्तूनि सर्वाणि जडरूपाणि एवएतेषु सञ्चलनं यत् कारयति तदेव चैतन्यम् चन्द्रमाः जडस्वरूपं सूर्यः चैतन्यस्वरूपम् इति ऋषिभिः कल्पितम् । सूर्यः स्वस्य उदयेन चराचरवस्तुषु चैतन्यं जागरयति । चन्द्रलोकः नाम स्वर्गलोकःयज्ञयागादीनि परोपकारकर्माणि यैः क्रियते ते चन्द्रलोकं प्राप्नुवन्तिइमं मार्गं पितृयानमिति निर्दिशन्ति सूर्यलोकः नाम पुनर्जन्मरहितानां मुक्तानां स्थानम्ज्ञानश्रद्धादिभिः सूर्यलोकः प्राप्यते अयं मार्गः देवयानमिति निर्दिश्यते । संवत्सरः प्रजापतिः इति प्रकल्प्य दक्षिण-उत्तरायणौ जड-चैतन्यमार्गौ इति, मासः प्रजापतिः इति प्रकल्प्य निशा-दिवेजड-चैतन्ये इति च मुनयः निर्णीतवन्तः । अन्ते अन्नमेव प्रजापतिः ततः एव रेतः ततः एव प्रजाः इति निर्दिष्टम्
==द्वितीयप्रश्नः==
==द्वितीयप्रश्नः==
द्वितीयेन प्रश्नेन तावत् भार्गवः पिप्पलादं पृच्छति, कति देवाः प्रजानां स्थूलशरीरं धारयन्ति, तेषु वरिष्ठः देवः कः इति । तदानीं प्राणतत्त्वं बोधयति । प्राणः एव वायु-अग्नि-आदिदेवेषु वरिष्ठः । यावत्कालं प्राणः देहे आस्ते तावदेव अन्ये देवाः (इन्द्रियाणि)तमधिकृत्य क्रियाशीलाः भवन्ति । तस्य शरीरान्निस्सरणानन्तरम् अन्ये निष्क्रियाः भवन्ति । अतः कारणात् अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् इति प्राणस्य स्तुतिं कुर्वन्ति अन्ये देवाः
द्वितीयेन प्रश्नेन तावत् भार्गवः पिप्पलादं पृच्छति, कति देवाः प्रजानां स्थूलशरीरं धारयन्ति, तेषु वरिष्ठः देवः कः इति । 'पञ्चभूतानि इन्द्रियाणि च शरीरस्य निजः आधारः न, प्रमुखः आधारः भवति प्राणः । प्राणः एव वायु-अग्नि-आदिदेवेषु वरिष्ठः । यावत्कालं प्राणः देहे आस्ते तावदेव अन्ये देवाः (इन्द्रियाणि)तमधिकृत्य क्रियाशीलाः भवन्ति । तस्य शरीरान्निस्सरणानन्तरम् अन्ये निष्क्रियाः भवन्ति । अतः प्राणः एव विश्वपतिः सः सर्वस्य आधारभूतः सः एव सर्वस्य प्रेरकः' इति उत्तरति मुनिः
==तृतीयप्रश्नः==
==तृतीयप्रश्नः==
तृतीयेन प्रश्नेन आश्वलायनः प्राणस्य उत्पत्तिः, देहप्रवेशः, देहधारणं, देहादूर्घ्वोत्क्रमणम् इत्यादिविषयान् प्रण्सम्बध्दान् पृच्छति । तदा पिप्पलादः ब्रूते-आत्मनः सकाशादेव प्राणः जायते । पुरुषं यथा छाया अनुवर्तते तथैव मनोकृतेन सङ्कल्पेन एषः प्राणः जीवमनुप्रविशति विविधकर्माणि कर्तुं जीवं धारयितुं च एषः पञ्चस्थानेषु तिष्ठति हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः इत्यमरः । प्राणः सम्राडिव सर्वान् प्रणान् तत्तत्कार्ये विधत्ते अपानः पुरुषं दृढं धारयति यथा न पतेत् भूमौ । हुतमन्नं जीर्णीकरोति समानः । सर्वासु नाडीषु सञ्चरति व्यानः । उदानः यथासङ्कल्पम् ऊर्ध्वं पुण्यं लोकं नयति मरणानन्तरम् ।
तृतीयेन प्रश्नेन आश्वलायनः पृच्छति, प्राणः कुतः आयाति, देहप्रवेशः कथम्, पञ्चधा कथं विभक्तः भवति, देहादूर्घ्वोत्क्रमणं कथम् इति तदा पिप्पलादः ब्रूते-आत्मनः एव प्राणः जायते । मनोकृतेन सङ्कल्पेन एषः प्राणः जीवमनुप्रविशति विविधकर्माणि कर्तुं जीवं धारयितुं च एषः स्वयं पञ्चधा विभक्तः सन् पञ्चसु स्थानेषु तिष्ठति हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः इत्यमरः । प्राणः सम्राडिव सर्वान् प्रणान् तत्तत्कार्ये विधत्ते अपानः पुरुषं दृढं धारयति यथा न पतेत् भूमौ तथा । हुतमन्नं जीर्णीकरोति समानः । सर्वासु नाडीषु सञ्चरति व्यानः । उदानः यथासङ्कल्पम् ऊर्ध्वं पुण्यं लोकं नयति मरणानन्तरम् । आदित्यः, पृथिवी, आकाशः, वायुः तेजः च क्रमेण प्राण-अपान-समान-व्यान-उदानरूपेण बाह्यपदार्थानाम् आधाररूपाः भवन्ति । देहान्तर्गततत्त्वानां प्राणः आधारभूतः भवति
==चतुर्थप्रश्नः==
==चतुर्थप्रश्नः==
चतुर्थे प्रश्ने सौर्यायणी गार्ग्यः पुरुषे सुप्ते कानि स्वपन्ति कानि च जागृतानि भवन्ति, कः देवः स्वप्नान् पश्यति, कः सुखमनुभवति, कस्मिन् अन्ये देवाः सम्प्रतिष्ठिता भवन्ति इति । तदा उत्तरं ब्रवीति गुरुः- सर्वाणि देवभूतानि इन्द्रियाणि मनसि सम्पन्नानि भवन्ति यथा सूर्यास्तकाले सर्वाणि किरणानि सूर्ये लयमाप्नुवन्ति तथैवतदा प्रणाग्नयः पञ्चसंख्याकाः एव जागृताः भवन्ति । अस्यामवस्थायां जीवः एव स्वप्नान् पश्यति एव सुखमनुभवतिअस्य उच्छवासनिशस्वासावेव प्राणाग्निहोत्रे आहुती भवतः
चतुर्थे प्रश्ने सौर्यायणी गार्ग्यः पुरुषे सुप्ते कानि स्वपन्ति कानि च जागृतानि भवन्ति, कः देवः स्वप्नान् पश्यति, कः सुखमनुभवति, कस्मिन् सर्वाः शक्तयः सम्प्रतिष्ठिता भवन्ति इति पृच्छति । तदा उत्तरं ब्रवीति गुरुः- सर्वाः शक्तयः मनसि सम्मिल्य स्वपन्ति प्राणाग्नयः जागरिताः सन्तः सततं कार्यरताः भवन्तिस्वप्नान् पश्यति देवः मनः एव । विविधानि शक्याशक्यानि दृष्टादृष्टानि वस्तूनि मनसि गोचराः भवन्ति । पूर्णज्ञानस्य प्राप्त्या आत्मा सुखी भवति, मनः अपि सुखमनुभवति । सुषुप्तस्थितौ सर्वाणि भूतानि, तेषां तन्मात्राणि, सर्वाणि इन्द्रियाणि, इन्द्रियविषयाश्च आत्मनि लीनाः भवन्तिआत्मा एव द्रष्टा, श्रोता, वक्ता चसः परमश्रेष्ठे अक्षरब्रह्मणि प्रतिष्ठितः । परब्रह्म एव सर्वेषां प्रतिष्ठारूपम्
==पञ्चमप्रश्नः==
==पञ्चमप्रश्नः==
पञ्चमेन प्रश्नेन सत्यकामः पृच्छति-यः आजीवनम् ओङ्कारमुपास्ते सः कतरं लोकं प्राप्नोति ? कीदृशं फलं प्राप्नोति ? तस्य उत्तरं पठति-परमपावनस्य ओङ्कारस्य लक्ष्यभूतमस्ति परब्रह्म । यः निष्कामेन उपास्ते सः सकलैश्वर्यं प्राप्नोति । तत्रापि यः एकमात्रां ध्यायति तं यजुः सोमलोकं प्रति अन्नयति तत्र सः विभूतिमनुभवति । यश्च त्रिमात्रेण उपास्ते सः तेजसि अर्थात् द्युलोके सम्पन्नो सर्वपाप्मविनिर्मुक्तः भावति । अतः एतद्रहस्यं ज्ञात्वा उपास्ते यः स परं पदं प्राप्नोति न पुनरावर्तते ।
पञ्चमेन प्रश्नेन सत्यकामः पृच्छति-यः आजीवनम् ओङ्कारमुपास्ते सः कतरं लोकं प्राप्नोति ? कीदृशं फलं प्राप्नोति ? तस्य उत्तरं पठति-परमपावनस्य ओङ्कारस्य लक्ष्यभूतमस्ति परब्रह्म । यः निष्कामेन उपास्ते सः सकलैश्वर्यं प्राप्नोति । तत्रापि यः एकमात्रां ध्यायति तं यजुः सोमलोकं प्रति अन्नयति तत्र सः विभूतिमनुभवति । यश्च त्रिमात्रेण उपास्ते सः तेजसि अर्थात् द्युलोके सम्पन्नो सर्वपाप्मविनिर्मुक्तः भावति । अतः एतद्रहस्यं ज्ञात्वा उपास्ते यः स परं पदं प्राप्नोति न पुनरावर्तते ।

०७:२८, २७ जुलै २०१३ इत्यस्य संस्करणं

प्रश्नोपनिषत् (Prashnopanishat) अथर्ववेदीया उपनिषत् । गुरु-शिष्याणां संवादरूपा वर्तते इयम् उपनिषत् । अत्र षट्सङ्खाकाः शिष्याः गुरुं पिप्पलादं यथाविधि उपगम्य ब्रह्मविद्यां बोधयितुं प्रार्थयन्ते । तानुद्दिश्य पिप्पलादऋषिः उवाच –भवन्तः सर्वे तपस्विनः ब्रह्मचर्यव्रतं पालयन्तः वेदान् अधीतवन्तः इति जाने अहम् । तथापि ममाश्रमे श्रद्धया ब्रह्मचर्यपूर्वकम् एकं वर्षं यावत् पुनः तपः चरन्तु । ततः परं यथाभिलाषं ब्रह्मजिज्ञासां कुर्वन्तु अहं यथामति बोधयिष्यामि इति । तथैव कृत्वा वर्षानन्तरं शिष्याः (सुकेशाः भारद्वाजः शैब्यः सत्यकामः, सौर्यायणी गार्ग्यः कौसल्यः आश्वलायनः, वैदर्भी भार्गवः, कबन्धी कात्यायनः) आगत्य षट् प्रश्नान् पृच्छन्ति । कश्चन प्रश्नः उत्तरञ्च योजयित्वा उपनिषदः खण्डः भवति । एवं षट् खण्डाः भवन्ति । एते प्रश्नाः इत्येव निर्दिश्यन्ते ।

प्रथमप्रश्नः

तत्र प्रथमं तावत् कबन्धी कात्यायनः पृच्छति, यस्मादिदं चराचरं जगत् उत्पद्यते, तस्य कारणीभूतं तत्त्वं किम् ? इति । तस्य प्रश्नं श्रुत्वा गुरुः ब्रूते – सृष्टेरादौ प्रजाः स्रष्टुकामः प्रजापतिः एकोऽहं बहुस्यामिति चिन्तयन् सङ्कल्पमात्रेण प्राणरयिनामकं (चैतन्य-जड) शक्तिद्वयं असृजत् । इन्द्रियाणां गोचराः स्थूलसूक्ष्मादीनि वस्तूनि सर्वाणि जडरूपाणि एव । एतेषु सञ्चलनं यत् कारयति तदेव चैतन्यम् । चन्द्रमाः जडस्वरूपं सूर्यः चैतन्यस्वरूपम् इति ऋषिभिः कल्पितम् । सूर्यः स्वस्य उदयेन चराचरवस्तुषु चैतन्यं जागरयति । चन्द्रलोकः नाम स्वर्गलोकः । यज्ञयागादीनि परोपकारकर्माणि यैः क्रियते ते चन्द्रलोकं प्राप्नुवन्ति । इमं मार्गं पितृयानमिति निर्दिशन्ति । सूर्यलोकः नाम पुनर्जन्मरहितानां मुक्तानां स्थानम् । ज्ञानश्रद्धादिभिः सूर्यलोकः प्राप्यते । अयं मार्गः देवयानमिति निर्दिश्यते । संवत्सरः प्रजापतिः इति प्रकल्प्य दक्षिण-उत्तरायणौ जड-चैतन्यमार्गौ इति, मासः प्रजापतिः इति प्रकल्प्य निशा-दिवे च जड-चैतन्ये इति च मुनयः निर्णीतवन्तः । अन्ते अन्नमेव प्रजापतिः ततः एव रेतः ततः एव प्रजाः इति निर्दिष्टम् ।

द्वितीयप्रश्नः

द्वितीयेन प्रश्नेन तावत् भार्गवः पिप्पलादं पृच्छति, कति देवाः प्रजानां स्थूलशरीरं धारयन्ति, तेषु वरिष्ठः देवः कः इति । 'पञ्चभूतानि इन्द्रियाणि च शरीरस्य निजः आधारः न, प्रमुखः आधारः भवति प्राणः । प्राणः एव वायु-अग्नि-आदिदेवेषु वरिष्ठः । यावत्कालं प्राणः देहे आस्ते तावदेव अन्ये देवाः (इन्द्रियाणि)तमधिकृत्य क्रियाशीलाः भवन्ति । तस्य शरीरान्निस्सरणानन्तरम् अन्ये निष्क्रियाः भवन्ति । अतः प्राणः एव विश्वपतिः । सः सर्वस्य आधारभूतः । सः एव सर्वस्य प्रेरकः' इति उत्तरति मुनिः ।

तृतीयप्रश्नः

तृतीयेन प्रश्नेन आश्वलायनः पृच्छति, प्राणः कुतः आयाति, देहप्रवेशः कथम्, पञ्चधा कथं विभक्तः भवति, देहादूर्घ्वोत्क्रमणं कथम् इति । तदा पिप्पलादः ब्रूते-आत्मनः एव प्राणः जायते । मनोकृतेन सङ्कल्पेन एषः प्राणः जीवमनुप्रविशति । विविधकर्माणि कर्तुं जीवं धारयितुं च एषः स्वयं पञ्चधा विभक्तः सन् पञ्चसु स्थानेषु तिष्ठति हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः इत्यमरः । प्राणः सम्राडिव सर्वान् प्रणान् तत्तत्कार्ये विधत्ते अपानः पुरुषं दृढं धारयति यथा न पतेत् भूमौ तथा । हुतमन्नं जीर्णीकरोति समानः । सर्वासु नाडीषु सञ्चरति व्यानः । उदानः यथासङ्कल्पम् ऊर्ध्वं पुण्यं लोकं नयति मरणानन्तरम् । आदित्यः, पृथिवी, आकाशः, वायुः तेजः च क्रमेण प्राण-अपान-समान-व्यान-उदानरूपेण बाह्यपदार्थानाम् आधाररूपाः भवन्ति । देहान्तर्गततत्त्वानां प्राणः आधारभूतः भवति ।

चतुर्थप्रश्नः

चतुर्थे प्रश्ने सौर्यायणी गार्ग्यः पुरुषे सुप्ते कानि स्वपन्ति कानि च जागृतानि भवन्ति, कः देवः स्वप्नान् पश्यति, कः सुखमनुभवति, कस्मिन् सर्वाः शक्तयः सम्प्रतिष्ठिता भवन्ति इति पृच्छति । तदा उत्तरं ब्रवीति गुरुः- सर्वाः शक्तयः मनसि सम्मिल्य स्वपन्ति । प्राणाग्नयः जागरिताः सन्तः सततं कार्यरताः भवन्ति । स्वप्नान् पश्यति देवः मनः एव । विविधानि शक्याशक्यानि दृष्टादृष्टानि वस्तूनि मनसि गोचराः भवन्ति । पूर्णज्ञानस्य प्राप्त्या आत्मा सुखी भवति, मनः अपि सुखमनुभवति । सुषुप्तस्थितौ सर्वाणि भूतानि, तेषां तन्मात्राणि, सर्वाणि इन्द्रियाणि, इन्द्रियविषयाश्च आत्मनि लीनाः भवन्ति । आत्मा एव द्रष्टा, श्रोता, वक्ता च । सः परमश्रेष्ठे अक्षरब्रह्मणि प्रतिष्ठितः । परब्रह्म एव सर्वेषां प्रतिष्ठारूपम् ।

पञ्चमप्रश्नः

पञ्चमेन प्रश्नेन सत्यकामः पृच्छति-यः आजीवनम् ओङ्कारमुपास्ते सः कतरं लोकं प्राप्नोति ? कीदृशं फलं प्राप्नोति ? तस्य उत्तरं पठति-परमपावनस्य ओङ्कारस्य लक्ष्यभूतमस्ति परब्रह्म । यः निष्कामेन उपास्ते सः सकलैश्वर्यं प्राप्नोति । तत्रापि यः एकमात्रां ध्यायति तं यजुः सोमलोकं प्रति अन्नयति तत्र सः विभूतिमनुभवति । यश्च त्रिमात्रेण उपास्ते सः तेजसि अर्थात् द्युलोके सम्पन्नो सर्वपाप्मविनिर्मुक्तः भावति । अतः एतद्रहस्यं ज्ञात्वा उपास्ते यः स परं पदं प्राप्नोति न पुनरावर्तते ।

षष्ठः प्रश्नः

षष्ठे प्रश्ने सुकेशाः भारद्वाजः प्रश्नं पृच्छति यत् कोशलदेशस्य राजकुमारः हिरण्यनाभः एकदा षोडशकला-सम्पन्नस्य पुरुषस्य विषये मां पृष्टवान् । अहम् अनभिज्ञः इति ज्ञात्वा सः सथमारुह्य प्रतिगतवान् । अतः अहं त्वां पृच्छामि कोऽसौ षोडशकलायुक्तः पुरुषः – इति । उत्तरं पठति-पुरुषे एव एते षोडशकलाः संहताः यथा रथनाभौ अराः तथा । सः पुरुषः प्राणमसृजत । सृष्टेः श्रेयसे प्राणात् श्रध्दाम् असृजत । ततः पञ्चभूतानि । तत्र श्रूयते –स प्राणमसृजत, प्राणात् श्रध्दां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च । तदनन्तरं गुरुः ब्रूते-एतावदेवाहमेतत्परं वेद नातः परमस्तीति । तदा सर्वे शिष्याः सविनयं गुरुस्तवनं कुर्वन्ति –त्वं हि नः पिता यः अस्माकमविद्यायाः परं पारं तारयसि इति ।

"https://sa.wikipedia.org/w/index.php?title=प्रश्नोपनिषत्&oldid=246358" इत्यस्माद् प्रतिप्राप्तम्