"शिवगङ्गामण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Removing ar (strong connection between (2) sa:शिवगङ्गामण्डलम् and ar:ضاحية سيفغانغا),en (strong connection between (2) sa:शिवगङ्गामण्डलम् and [[w:Sivaganga dist...
पङ्क्तिः १७७: पङ्क्तिः १७७:
<references/>
<references/>


[[en:Sivaganga District]]
[[ar:منطقة سيفجانجا]]


[[वर्गः:तमिळनाडुराज्यस्य मण्डलानि]]
[[वर्गः:तमिळनाडुराज्यस्य मण्डलानि]]

०९:३६, ५ आगस्ट् २०१३ इत्यस्य संस्करणं

शिवगङ्गामण्डलम्

சிவகங்கை மாவட்டம்

—  मण्डलम्  —
[[file:|250px|border|alt=|Map of तमिळ् नाडु showing location of शिवगङ्गामण्डलम्]]


Location of शिवगङ्गामण्डलम्
in तमिळ् नाडु
निर्देशाङ्काः

९°४३′०″ उत्तरदिक् ७८°४९′०″ पूर्वदिक् / 9.71667°उत्तरदिक् 78.81667°पूर्वदिक् / ९.७१६६७; ७८.८१६६७

देशः भारतम्
राज्यम् तमिळ् नाडु
मण्डलम् शिवगङ्गामण्डलम्
उपमण्डलम् शिवगङ्गामण्डलम् , देवकोट्टै
केन्द्रप्रदेशः शिवगङ्गानगरम्
बृहत्तमं नगरम् करैकुडि
Collector & District Magistrate वि। राजारमन्, IAS
जनसङ्ख्या

• सान्द्रता

१३,४१,२५०[१] (2011)

274.7 /किमी2 (711 /वर्ग मील)

लिङ्गानुपातः पु-49%/स्त्री-51% /
साक्षरता 52.5%% 
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
विस्तीर्णम् 4,189 वर्ग किलोमीटर (1,617 वर्ग मील)
वायुमण्डलम्

तलस्पर्षी


     875.2 मिमी (34.46 इंच)

जालस्थानम् Official website of District Collectorate, Sivaganga


शिवगङ्गामण्डलम् (Sivaganga District) (तमिळ: சிவகங்கை மாவட்டம்) (तमिऴ्:சிவகங்கைமாவட்டம்) शिवगङ्गामण्डलं दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं शिवगङ्गानगरम् ।

भौगोलिकम्

अस्य मण्डलस्य विस्तारः ४१८९ चतुरश्रकिलोमीटर् । अस्य ईशान्यदिशे पुदुक्कोट्टैमण्डलम्, उत्तरे तिरुच्चिराप्पळ्ळिमण्डलम्, आग्नेये रामनाथपुरमण्डलं, नैर्ऋत्ये विरुदुनगरमण्डलं, पश्चिमे मधुरैमण्डलं च अस्ति ।

इतिहासः

शिवगङ्गामण्डलं १९८५ तमवर्षस्य मार्च् मासस्य पञ्चदशदिनाङ्के रामनाथपुरमण्डलात् पृथक्कृतम् ।

जनसंख्या

२०११ तमवर्षस्य जनगणनानुगुणं शिवगङ्गामण्डलस्य जनसंख्या १,३४१,२५० । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३६० तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३२४ (८४० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यायाः वृद्धेः प्रमाणं १६.०९% आसीत् । अस्मिन् मण्डले पुं, स्त्री अनुपातः १०००:१००० अस्ति, साक्षरताप्रमाणं च ८०.४६% ।

उपमण्डलानि

शिवगङ्गामण्डले षट् उपमण्डलानि सन्ति। तानि -

१. शिवगङ्गा
२. मनमधुरै
३. इलयङ्कुडिः
४. देवकोट्टै
५. कारैकुडिः
६. तिरुप्पत्तूरुः

कृषिः वाणिज्यं च

२००६ तमे वर्षे केन्द्रसर्वकारस्य पञ्चायती राज् सचिवालयेन निर्दिष्टेषु देशस्य २५० अतिदीनमण्डलेषु शिवगङ्गा अपि परिगणिता। सम्प्रति, तमिऴ्‌नाडुराज्यस्य षट् मण्डलानि सर्वकारस्य दीनप्रदेशसहायधनयोजनया (Backward Regions Grant Fund Programme) साहाय्यं लभमानाः सन्ति। तेषु शिवगङ्गा अन्यतमा ।

अस्य मण्डलस्य ७२.८% जनाः कृषिकार्यम् अवलम्बन्ते । अस्य मण्डलस्य प्रमुखं सस्यं तण्डुलः । मण्डले प्रायेण सर्वत्र लोहितमृत्तिका दृश्यते । अत्र रुह्यमानानि अन्यानि सस्यानि इक्षुखण्डः, कलायः, इत्यादयः । शिवगङ्गायां शक्तिशर्कराकार्यागारम् अस्ति, यत्र प्रतिदिनं ५००० टन् परिमिता शर्करा उत्पाद्यते । सहस्राधिकाः जनाः अत्र उद्योगं प्राप्नुवन्ति ।

वीक्षणीयस्थलानि

वेत्तन्ङ्गुडिपक्षिधाम

इदं पक्षिधाम तिरुप्पत्तूरोः समीपे अस्ति । अत्र विदेशेभ्यः बहवः पक्षिणः आगच्छन्ति । वैट् ऐबिस्, एषियन् ओपन्बिल् स्टार्क्, नैट् हेरान् इत्येते सुदूरात् अत्र आगच्छन्तः प्रमुखाः पक्षिप्रभेदाः । एतदतिरिच्य विनाशसन्निहिताः पक्षिप्रभेदाः अपि बहवः अत्र दृश्यन्ते। यथा पैण्टेड् स्टार्ज्, ग्रे हेरान्, डार्टर्, लिटल् कार्मोरण्ट्, लिटल् एग्रेट्, इण्टर्मीडियट् एग्रेट्, काटल् एग्रेट्, कामन् टील्, स्पाट्‌बिल्, पिन्टैल्, फ़्लेमिङ्गो इत्यादयः । नवेम्बर् मासतः फ़ेब्रवरीमासपर्यन्तं इदं पक्षिधाम वीक्षणीयं भवति ।

चेट्टिनाडु

इदं नाट्टुकोट्टै चेट्टियारसमुदायस्य मूलस्थानम् । अस्य समुदायस्य जनाः वित्तकोशोद्यमे, वाणिज्ये च सफलाः सन्ति । अतिकटुः चेट्टिनाडुपाकः बहुप्रसिद्धः । पुरातनानि चेट्टियाराणां भवनानि अतिविशालानि, सुन्दराणि, कलात्मकतया निर्मितानि च सन्ति । पाण्ड्यकालस्य केचन देवालयाः अपि अत्र दृश्यन्ते । तिरुगोष्ठियूरुनि विद्यमानः कर्पगविनायकदेवालयः, श्रीसौमिनारायणपेरुमाळ् देवालयः च प्रसिद्धौ ।

पञ्चभूतेश्वरम्

इदं मनमधुरैतः ५ किलोमीटर् दूरे परमकुडिमार्गे अस्ति । श्रीरामः अनेन मार्गेण लङ्कां गतवान् इति प्रतीतिः । अत्र श्रीमहापञ्चमुखप्रत्यङ्गिरादेव्याः शिलादेवालयः अस्ति । अस्य देवालयस्य विस्तारः ५.५ एकर्‌परिमितः ।

बाह्यसम्पर्कतन्तुः

लक्षणम्

  1. "2011 Census of India" (Excel). Indian government. 16 April 2011. 
  2. www.tn.gov.in/sta/a2.pdf
"https://sa.wikipedia.org/w/index.php?title=शिवगङ्गामण्डलम्&oldid=247211" इत्यस्माद् प्रतिप्राप्तम्