परिवर्तनानि

Jump to navigation Jump to search
सम्पादनसारांशरहितः
[[File:Shri Shankaracharya.jpg|thumb|150px|[[शङ्कराचार्यः]]]]
अद्वैतवेदान्तः (Advaita Vedanta) [[भारतीयदर्शनशास्त्रम्|दर्शनेषु]] अन्यतमः। न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । [[शङ्कराचार्यः|शङ्कराचार्याणाम्]] आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् ।
आस्य मतस्य प्रवर्तकः [[शङ्कराचार्यः]] । शाङ्करदर्शनं [[शङ्कराचार्यः]] प्रस्थानत्रयेन श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनमित्यपि" प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति। प्रपञ्चे जीवभावङ्गतस्य विवेकिनः प्रत्येकपुरुषस्य धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः सन्ति । चतुर्षु एतेषु आद्यास्त्रयः पाञ्चभौतिकेऽस्मिन् प्रपञ्चे भौतिकस्य जीवस्य कृते इहफलभोगत्वेन विहिताः भवन्ति । अन्तिमः मोक्षः परमसुखात्मकः इति कथनात् अयं परमपुरुषार्थः भवति । चतुर्णामेतेषां चतुवर्गत्वेन व्यवहारः। वर्गचतुष्टयानां मध्ये आद्यास्त्रयः तत्तत्पुरुषमत्यनुसारमुत्पन्नत्वात् एतेषामनित्यत्वमुच्यते । अन्तिमत्वेन निर्विशेषात्मकं सुखं प्राप्यते इत्यतः [[मोक्षः]] नित्यः इति शास्त्रेषु गीयते। नित्यभूतस्यास्य मौक्षस्वरूपस्य प्राप्त्यर्थं विभिन्नाः दर्शनकाराः भिन्नभिन्नप्रकारेण स्वमतं व्याचख्युः । वेदान्तशास्त्रे केवलमात्मस्वरूपं प्रतिपाद्यते इति हेतोः मुमुक्षुः वेदान्तशास्त्रपठनश्रवणमननादिषु प्रवृत्तो भवति । तस्मात् एतत् शास्त्रं सर्वेषां शास्त्राणां शिरोमणिभूतं भवति । अस्मिन्नपि शास्त्रे [[आत्मा|आत्मनः]] स्वरूपप्रतिपादनं महता विस्तरेण प्रतिपादितमस्ति । यत्र समस्तवेदमन्त्राणां लक्ष्यत्वेन अन्तिमं तत्त्वमेकं वर्णितं भवति तत् वेदान्तशास्त्रमित्युच्यते । [[उपनिषदः|उपनिषन्मन्त्रसमूहस्यापि]] [[वेदान्तः]] इति संज्ञा, यतः समस्तवेदानां परमलक्ष्यात्मकं तत्त्वमुपनिषन्मन्त्रेषु निगदितमस्ति । परिदृश्यमानस्य चराचरात्मकस्य सकलप्रपञ्चस्य सृष्टिकर्तृत्वेन मूलकारणं यद् [[ब्रह्म]], तस्य सम्पूर्णं विवेचनात्मकं ज्ञानमुपनिषत्स्वेव लभ्यते, एवमन्यत्र न मिलिष्यति । अतः वेदानामन्तिमं रहस्यमुपनिषदि कथितत्वात् [[उपनिषदः|उपनिषत्]] वेदान्तत्वेन आद्रियते । उक्तं च वेदान्तो नाम उपनिषत्प्रमाणम् इति । परन्तु उपनिषत्सु अत्यन्तरहस्यत्वेन गूढतमभावाः सन्तीति कृत्वा उपनिषदर्थं सर्वैः ज्ञातुं न शक्यते । सर्वेषां सम्यगवबोधनाय परमकारुणिकः वेदव्यासः उपनिषत्सारभूतानामर्थानामेकीकृत्य सूत्ररूपेण प्रणिनाय । यानि इदानीं गीयन्ते ब्रह्मसूत्राणि अथवा वेदान्तसूत्राणि इति । ब्रह्मसूत्रात्मकः भागः अत्यल्पः, अथापि महत्वपूर्णः इति कृत्वा एतेषां सूत्राणां व्याख्याने आहत्य एकादशजनाः स्वजन्म समर्पितवन्तः ।
आस्य मतस्य प्रवर्तकः [[शङ्कराचार्यः]] । शाङ्करदर्शनं [[शङ्कराचार्यः]] प्रस्थानत्रयेन श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनमित्यपि" प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति।
==तत्त्वम्==
==तत्त्वानि==
अद्वैतवेदान्तस्य तत्त्वानां निरूपणे वैशिष्ट्यम् अस्ति । ब्रह्मतत्त्वमेव परमार्थः । अस्य परमार्थस्य भिन्नपरमार्थः नास्तीत्यतः एव अद्वैतसिद्धान्तः इति विख्यातः अस्ति । '''ब्रह्मसत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः''' इति अस्य सिद्धान्तः । तर्हि जगत्, जीवः नास्ति किम् ? एतौ न परमार्थौ । केवलम् अध्यासेन भासेते । अतस्मिन् तद् बुद्धिः (यत् नास्ति तत् अस्ति इति या भावना) अध्यासः इति ।
अद्वैतवेदान्तस्य तत्त्वानां निरूपणे वैशिष्ट्यम् अस्ति । ब्रह्मतत्त्वमेव परमार्थः । अस्य परमार्थस्य भिन्नपरमार्थः नास्तीत्यतः एव अद्वैतसिद्धान्तः इति विख्यातः अस्ति । '''ब्रह्मसत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः''' इति अस्य सिद्धान्तः । तर्हि जगत्, जीवः नास्ति किम् ? एतौ न परमार्थौ । केवलम् अध्यासेन भासेते । अतस्मिन् तद् बुद्धिः अध्यासः इति । वेदान्तनये अपि तत्त्वानि भविष्यन्ति । तद्यथा- ब्रह्म, सगुणब्रह्म, निर्गुणब्रह्म, सोपाधिकः, सर्वज्ञः, परमेश्वरः, जीवः, जीवस्वरूपम्, आत्मनः स्वयंज्योतिष्ट्वम्, जीवात्म-परमात्मनोः ऐक्यम्, तयोः जीवात्मपरमात्मनोः अभेदप्रतिपादनम्, मायोपाधिना ईश्वरः, अविद्योपाधिना जीवः इति प्रतिपादनम्, अविद्या, माया उपाधिः, संसारस्य अनादित्वम्, सृष्टिः, जगत्, सृष्टिविषये ब्रह्मणः उपादानकारणत्वम्, निमित्तकारणत्वम्, प्रपञ्चमिथ्यात्वम्, जाग्रत्स्वप्नसुषुप्त्याद्यवस्थानां प्रतिपादनम्, स्वप्नदृष्टान्तः, पञ्चमहाभूतानां विवेचनम्, पञ्चज्ञानेन्द्रियाणि, एवमन्तःकरणस्योत्पत्तिः, पञ्चकर्मेन्द्रियाणि, तथा प्राणस्योत्पत्तिः, स्थूलशरीरम्, लिङ्गशरीरम्, कारणशरीरम्, सत्तात्रैविध्यम्, ब्रह्मणि पञ्चभूतानां लयः, सृष्टेः पूर्वं ब्रह्मणः स्वरूपप्रतिपादनमित्यादीनि तत्त्वानि प्रतिपादितानि, एवं तेषां तत्त्वानां स्वरूपविवेचनमपि सम्यक् प्रसाधितम् ।
==मुख्यविषयाः==
===सृष्टिप्रक्रिया कारणवादः च===
 
===माया===
अविद्या, अनिर्वचनीया च या सा माया । या मा सा माया इत्यपि कथयन्ति । मा नाम त्रिकालेश्वपि न विद्यते किन्तु अस्ति इति भाति । यद्यपि आत्मनः एकत्वे अन्यत् सर्वं मिथ्या इति सिध्यति तथापि संक्षेपेण तस्य मिथ्यास्वरूपस्यापि उपवर्णनं भवति । तथा हि- दृश्यप्रपञ्चः बुद्ध्यादयश्च मिथ्याभूताः इति अस्मिन् वेदान्तशास्त्रे प्रतिपाद्यते । अद्वितीयः सः परमात्मा स्वशक्त्या विचित्ररूपेण परिदृश्यमानम् अमुं प्रपञ्चं सृजति, अनन्तरं च सृष्टं सर्वं जगत् स्वात्मनि विलीनं करोति । प्रपञ्चस्य जन्मनाशौ भवतः इति श्रुतिस्मृतिभ्याम् अभ्युपगतत्वात् दृश्यमानः प्रपञ्चः मिथ्या भवति ।
* अध्यासः
 
* अज्ञानम्
===अविद्या===
* ब्रह्म
अविद्यायाः अस्तित्वे किं प्रमाणम् ? समाधानत्वेन "अहमज्ञः, मामन्यं च न जानामि" इत्यादि सांव्यवहारिकं वचनमेव अविद्यायाः सत्वे प्रमाणं भवति इत्युच्यते ।
* जीवः
 
* जगत्
* ===ब्रह्म===
जीवब्रह्मणोः एकता उच्यते, जीवस्तु ज्ञातः ब्रह्म तु न ज्ञातम्, अज्ञाते ब्रह्मणि कथमेकता? यदि [[ब्रह्म]] ज्ञातुमित्युच्यते तर्हि किं प्रमाणम् ? इति विचारे पूर्वपक्षी वदति, ननु ब्रह्मज्ञाने प्रत्यक्षं न प्रमाणं भवति । यतः ब्रह्म अतीन्द्रियत्वात् । अतीन्द्रियं न कदापि प्रत्यक्षीक्रियते। प्रत्यक्षानुमानोपमानानां प्रमाणानां ब्रह्म विषयत्वाभावात् इमानि ब्रह्माणि ब्रह्मसाधने न क्षमन्ते । अन्तिममागमप्रमाणमस्त्येव । तेन ब्रह्मणः अस्तित्वे ब्रह्मस्वरूपज्ञाने प्रमाणत्त्वमस्त्त्येव । श्रुतिभिः ब्रह्म आगमगम्यप्वेनोक्तम् ।
 
* ===अध्यासः===
अध्यासो नाम "अतस्मिंस्तद्बुद्धिः" इति भाष्यकारस्य वचनम् । तद्यथा- पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मान् अध्यस्यति । स्थूलोऽहम्, कृशोऽहम्, गौरोऽहम्, तिष्ठामि इत्यादि देहधर्मान् स्वात्मनि अध्यस्यति ।
 
==अवस्थाः==
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/251042" इत्यस्माद् पुनः प्राप्तिः

सञ्चरणावलिः