"कृष्णन् के एस्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 4 interwiki links, now provided by Wikidata on d:q3351142 (translate me)
No edit summary
पङ्क्तिः ७: पङ्क्तिः ७:


[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:भारतीयविज्ञानिनः]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]] "

०८:०८, १८ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं

(कालः – १८९८ तः १९६१)

अयं कृष्णन् के. एस्. (K. S. kRishanan) कश्चन प्रसिद्धः भौतविज्ञानी । अस्य पूर्णं नाम करिय–माणिक्यं–श्रीनिवास–कृष्णन् इति । अयं भारतदेशस्य तमिळ्नाडुराज्ये साम्प्रदायिके कुटुम्बे १८९८ तमे वर्षे जन्म प्राप्नोत् । सः विद्यार्थिदशायाम् एव खगोलशास्त्रस्य अध्ययनं, ताडपत्राणाम् अध्ययनं च अकरोत् । ततः महत् पुस्तकम् एव प्राकाशयत् अपि । अग्रे प्रो. रामन् – तः आकृष्टः सन् कल्कत्ता–विश्वविद्यालयस्य वैज्ञानिक–महाविद्यालये स्नानकोत्तरं शिक्षणं प्राप्नोत् । “इण्डियन् असोसियेषन् फार् दि कल्टिवेषन् आफ् सैन्स्” संस्थायां द्रवाणां प्रकाशप्रसरणं तथा अनिलाणुषु, मणिषु च विद्यमानस्य कान्तत्वस्य असमानतायाः विषये गभीरं संशोधनम् अपि अकरोत् । ढाकाविश्वविद्यालयः, अलहाबाद्–विश्वविद्यालयः इत्यादिषु विश्वविद्यालयेषु प्राध्यापकरूपेण अपि अयं कृष्णन् के. एस्. कार्यम् अकरोत् । भारतस्य स्वातन्त्र्यस्य अनन्तरं राष्ट्रिय–भौतशास्त्र–प्रयोगालयस्य निदेशकत्वेन अपि चितः अभवत् । जीवनस्य अन्तपर्यन्तम् अपि तस्मिन् प्रयोगालये कार्यम् अकरोत् अपि ।


अयं कृष्णन् के. एस्. अनेकासु राष्ट्रिय–अन्ताराष्ट्रिय–संस्थासु प्रतिष्ठितं पदं प्रति चितः आसीत् । अन्ताराष्ट्रिय–परमाणु–शक्तिमण्डल्याः, उद्यमं तथा वैज्ञानिक–संशोधन–मण्डल्याः, युनेस्को–संस्थायाः वैज्ञानिक–सूचना–समितेः च प्रमुखानि स्थानानि अलङ्कृतवान् आसीत् । १९४० तमे वर्षे एफ्. आर्. एस्. – प्रशस्तिं, १९५४ तमे वर्षे पद्मभूषणप्रशस्तिं, राष्ट्रिय–प्राध्यापकप्रशस्तिं चापि प्राप्तवान् आसीत् । अयं कृष्णन् के. एस्. अत्यन्तं सरलः, जनप्रियः च आसीत् । वैज्ञानिकविषयैः सह तमिळ्साहित्ये, संस्कृतसाहित्ये, आङ्ग्लसाहित्ये च आसक्तः आसीत् । देशस्य व्यवहारैः सह क्रीडासु अपि अस्य महती आसक्तिः आसीत् । अनेन कृष्णन् के. एस्.महोदयेन “तरङ्गविज्ञाने”, “संख्याकलनीय–उष्णगति–विज्ञाने”, “घनस्थितेः” विषये च संशोधनं कृत्वा लिखिताः १३ अधिकाः प्रबन्धाः प्रतिष्ठितासु पत्रिकासु प्रकाशिताः आसन् । " "

"https://sa.wikipedia.org/w/index.php?title=कृष्णन्_के_एस्&oldid=251450" इत्यस्माद् प्रतिप्राप्तम्