"लक्ष्मणः" इत्यस्य संस्करणे भेदः
(लघु) removed Category:रामायणम् using HotCat |
No edit summary |
||
पङ्क्तिः २३: | पङ्क्तिः २३: | ||
[[वर्गः:रामायणस्य पात्राणि]] |
[[वर्गः:रामायणस्य पात्राणि]] |
||
[[वर्गः:बाह्यानुबन्धः योजनीयः]] |
|||
[[वर्गः:सारमञ्जूषा योजनीया]] |
०७:३७, २३ अक्टोबर् २०१३ इत्यस्य संस्करणं
लक्ष्मणः अयोध्याचक्रवर्तिनः दशरथस्य पुत्रः । रामः।श्रीरामचन्द्रस्य अनुजः । अस्य पत्नी ऊर्मिला | सुमित्रायाः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम । लक्ष्मणः आदिशेषांशसम्भूतः ।
मखसंरक्षणम्
विश्वामित्रः यदा दशरथस्य सकाशे पुत्रयोः साहाय्यम् अयाचत तदा लक्ष्मणः अपि श्रीरामेण सह मखसंरक्षणार्थं वनं गतवान् | असुरशक्तीनां नाशनञ्च कृतवान् |
नासाच्छेदः
यदा श्रीरामादयः वनवासे पञ्चवट्यामासन् तदा रावणस्यानुजा शूर्पणखा प्रच्छन्नवेषेण युवतीवेषं धृत्वा श्रीरामस्य सकाशमागतवती । रामस्तु तस्याः मायावेषं ज्ञात्वा ताम् अनुजस्य लक्ष्मणस्य समीपं प्रेषितवान् । लक्ष्मणः शूर्पणखायाः नासाच्छेदं कृतवान् ।
मेघनादस्य वधः
रामरावणसैन्ययोर्मध्ये जाते युद्धे रावणपुत्रं मेघनादं लक्ष्मणः मारितवान् । मेघनादः मारणाध्वरदीक्षित आसीत् । येन चतुर्दशवर्षाणि यावत् ब्रह्मचर्यं परिपालितं तेनैव मेघनादस्य वधः कर्तुं शक्य आसीत् । तदा लक्ष्मण एव मेघनादं मारितवान् ।
सीतामातरि लक्ष्मणस्य भक्तिः
लक्ष्मणः सर्वदा सीतारामयोः मातरं पितरञ्च पश्यति स्म । यदा रामः सुवर्णमृगमनुसरन् गतः तदा 'हा सीते ! हा लक्ष्मण !' इति आक्रन्दनं श्रुतम् । तस्मिन्नवसरे तच्च आक्रन्दनं रामस्येति मत्वा सीता स्वभर्तुः रामस्य रक्षणार्थं गन्तुं लक्ष्मणं प्रेरितवती । तदा च लक्ष्मणः 'नैषः रामस्य ध्वनिः अपि तु आसुरीशक्तेः प्रभाव' इति कथितवान् । तदा लक्ष्मणः सीतायामन्यमनस्कः सन् इत्थं ब्रवीतीति सीतामाता लक्ष्मणं भर्त्सितवती । तदा च लक्ष्मणः बहु खेदमनुभूतवान् । सीतापहरणानन्तरं वानरसैन्येन सीतान्वेषणमारब्धम् । तदा वस्त्रेण बद्ध्वा क्षिप्तानि कतिचन आभरणानि प्राप्तानि | लक्ष्मणस्य सीतायां महती भक्तिरासीदिति हेतोः रामः तेषामाभरणानाम् अभिज्ञानं प्राप्तुं लक्ष्मणाय दर्शयति | लक्ष्मणः प्रतिदिनं भक्त्या सीतां प्रणमति स्म इति कारणेन केवलं पादाङ्गुलीयकस्य अभिज्ञानं प्राप्नोति | एतच्च लक्ष्मणस्य आदर्शव्यक्तित्वविषयकं हृदयङ्गमं चित्रणं रामायणे समुपलभ्यते |