"स्कन्दपुराणम्" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु)No edit summary |
||
पङ्क्तिः २३: | पङ्क्तिः २३: | ||
| followed_by = |
| followed_by = |
||
}} |
}} |
||
॥ अथ श्रीस्कान्दे महापुराणे प्रथमं माहेश्वरखण्डं प्रारभ्यते॥ |
|||
॥श्रीगणेशाय नमः॥ |
|||
ॐनमो भगवते वासुदेवाय॥ |
|||
ॐनारायणं नमस्कृत्य नरं चैव नरोत्तमम्॥ |
|||
देवीं सरस्वती चैव ततो जयमुदीरयेत्॥ १.१ ॥ |
|||
॥व्यास उवाच॥ |
|||
यस्याज्ञया जगत्स्रष्टाविरिंचिः पालको हरिः॥ |
|||
संहर्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने। १.१ ॥ |
|||
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम्॥ |
|||
तत्रैव नैमिषारण्ये सौनकाद्यास्तपोधनाः॥ |
|||
दीर्घसत्रं प्रकुर्वंतः सत्रिणः कर्मचेतसः॥ १.२ ॥ |
|||
तेषां सदर्शनौत्सुक्यादागतो हि महा तपाः॥ |
|||
व्यासशिष्योमहाप्राज्ञो लोमशोनाम नामतः॥ १.३ ॥ |
|||
तत्रागतं ते ददृशुर्मुनयो दीर्घसत्रिणः॥ |
|||
उत्तस्थुर्युगपत्सर्वे सार्घ्यहस्ताः समुत्सुकाः॥ १.४ ॥ |
|||
दत्त्वार्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः॥ |
|||
तं पप्रच्छुर्महाभागाः शिवधर्मं सविस्तरम्॥ १.५ ॥ |
|||
॥ऋषय ऊचुः॥ |
|||
कथयस्व महाप्राज्ञ देवदेवस्य शूलिनः॥ |
|||
महिमानं महाभाग ध्यानार्चनसमन्वितम्॥ १.६ ॥ |
|||
संमार्जने किं फलं स्यात्तथा रंगावलीषुच॥ |
|||
प्रदाने दर्पणस्याथ तथा वै चामरस्य च॥ १.७ ॥ |
|||
प्रदाने च वितानस्य तथा धारागृहस्य च॥ |
|||
दीपदाने किं फलं स्यात्पूजायां किं फलं भवेत्॥ १.८ ॥ |
|||
कानिकानि च पुण्यानि कथ्यतां शिवपूजने॥ |
|||
इतिहासपुराणानि वेदाध्ययनमेव च॥ १.९ ॥ |
|||
शिवस्याग्रे प्रकुर्वंति कारयन्त्यथवानराः॥ |
|||
किं फलं च नृणां तेषां कथ्यतां विस्तरेण हि॥ १.१० ॥ |
|||
शिवाख्यानपरोलोके त्वत्तो नान्योऽस्ति वै मुने॥ १.११ ॥ |
|||
इति श्रुत्वा वचस्तेषां मुनीनां भावितात्मनाम्॥ |
|||
उवाच व्यासशिष्योऽसौ शिवमाहात्म्यमुत्तमम्॥ १.१२ ॥ |
|||
॥लोमश उवाच॥ |
|||
अष्टादशपुराणेषु गीयते वै परःशिवः॥ |
|||
तस्माच्छिवस्य माहात्म्यं वक्तुं कोऽपि न पार्यते॥ १.१३ ॥ |
|||
शिवेति द्व्यक्षरं नाम व्याहरिइष्यंति ये जनाः॥ |
|||
तेषां स्वर्गश्च मोक्षश्च भविष्यति न चान्यथा॥ १.१४ ॥ |
|||
उदारो हि महादेवो देवानां पतिरिश्वरः॥ |
|||
येन सर्वं प्रदत्तं हि तस्मात्सर्व इति स्मृतः॥ १.१५ ॥ |
|||
ते धन्यास्ते महात्मानो ये भजंति सदा शिवम्॥ १.१६ ॥ |
|||
विना सदाशिवं योहि संसारं तर्तुमिच्छति॥ |
|||
स मूढो हि महापापः शिवद्वेषी न संशयः॥ १.१७ ॥ |
|||
भक्षितं हि गरं येन दक्षयज्ञो विनाशितः॥ |
|||
कालस्य दहनं येन कृतं राज्ञः प्रमोचनम्॥ १.१८ ॥ |
|||
॥ऋषय ऊचुः॥ |
|||
यथा गरं भक्षितं च यथा यज्ञो विनाशितः॥ |
|||
दक्षस्य च तथा ब्रूहि परं कौतूहलं हि नः॥ १.१९ ॥ |
|||
॥सूत उवाच॥ |
|||
दाक्षायणी पुरा दत्ता शंकराय महात्मने॥ |
|||
वचनाद्ब्रह्मणो विप्रा दक्षेण परमेष्ठिनः॥ १.२० ॥ |
|||
एकदा हि स दक्षो वै नैमिषारण्यमागतः॥ |
|||
यदृच्छावशमापन्न ऋषिभिः परिपूजितः॥ १.२१ ॥ |
|||
स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुरासुरैः॥ |
|||
तत्र स्थितो महादेवो नाभ्युत्थानाभिवादने॥ |
|||
चकारास्य ततः क्रुद्धो दक्षो वचनब्रवीत्॥ १.२२ ॥ |
|||
सर्वत्र सर्वे हि सुरासुरा भृशं नमंति मांविप्रवराः समुत्सुकाः॥ |
|||
कथं ह्यसौ दुर्जनवन्महात्मा भूतादिभिः प्रेतपिशाचयुक्तः॥ |
|||
श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना॥ १.२३ ॥ |
|||
पाखंडिनो दुर्जनाः पापशीला विप्रं दृष्ट्वा चोद्धता उन्मदाश्च॥ |
|||
वध्यास्त्याज्याः सद्भिरेवंविधा हि तस्मादेनं शापितुं चोद्यतोऽस्मि॥ १.२४ ॥ |
|||
इत्येवमुक्त्वा स महातपास्तदा रुषान्वितो रुद्रमिदं बभाषे॥ १.२५ ॥ |
|||
श्रृण्वं त्वमी विप्रतमा इदानीं वचो हि मे कर्तुमिहार्हथैतत्॥ |
|||
रुद्रो ह्ययं यज्ञबाह्यो वृतो मे वर्णातीतो वर्णपरो यतश्च॥ १.२६ ॥ |
|||
नंदी निशम्य तद्वाक्यं शैलादो हि रुषान्वितः॥ |
|||
अब्रवीत्त्वरितो दक्षं शापदं तं महाप्रभम्॥ १.२७ ॥ |
|||
॥नन्द्युवाच॥ |
|||
यज्ञबाह्यो हि मे स्वामी महेशोऽयं कृतः कथम्॥ |
|||
यस्य स्मरणमात्रेण यज्ञाश्च सफला ह्यमी॥ १.२८ ॥ |
|||
यज्ञो दानं तपश्चैव तीर्थानि विविधानि च॥ |
|||
यस्य नाम्ना पवित्राणि सोयं शप्तोऽधुना कथम्॥ १.२९ ॥ |
|||
वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते॥ |
|||
येनेदं पालितं विश्वं सर्वेण च महात्मना॥ |
|||
शप्तोऽयं स कथं पाप रुद्रोऽयं ब्राह्मणाधम॥ १.३० ॥ |
|||
एवं निर्भार्त्सितस्तेन नंदिना हि प्रजापतिः॥ |
|||
नंदिनं च शशापाथ दक्षो रोषसमन्वितः॥ १.३१ ॥ |
|||
यूयं सर्वे रुद्रवरा वेदबाह्याश्च वै भृशम्॥ |
|||
शप्ताहि वेदमार्गैश्च तथा त्यक्ता महर्षिभिः॥ १.३२ ॥ |
|||
पाषंडवादसंयुक्ताः शिष्टऽऽचारबहिष्कृताः॥ |
|||
कपालिनः पानरतास्तथा कालमुखा ह्यमी॥ १.३३ ॥ |
|||
इति शप्तास्तदा तेन दक्षेण शिवकिंकराः॥ |
|||
तदा प्रकुपितो नंदी दक्षं शप्तुं प्रचक्रमे॥ १.३४ ॥ |
|||
शप्ता वयं त्वया विप्र साधवः शिवकिंकराः॥ |
|||
वृथैव ब्रह्मचापल्यादहं शापं ददामि ते॥ १.३५ ॥ |
|||
वेदवादरता यूयं नान्यदस्तीतिवादिनः॥ |
|||
कामात्मानः स्वर्गपरा लोभमोहसमन्विताः॥ १.३६ ॥ |
|||
वैदिकं च पुरस्कृत्य ब्राह्मणाः शूद्रयाजकाः॥ |
|||
दरिद्रिणो भविष्यंति प्रतिग्रहरताः सदा॥ १.३७ ॥ |
|||
दक्ष केचिद्भविष्यन्ति ब्राह्मणा ब्रह्मराक्षसाः॥ |
|||
॥लोमश उवाच॥ |
|||
विप्रास्ते शपितास्तेन नंदिना कोपिना भृशम्॥ १.३८ ॥ |
|||
अथाकर्ण्येश्वरो वाक्यं नंदिनः प्रहसन्निव॥ |
|||
उवाच वाक्यं मधुरं बोधययुक्तं सदाशिवः॥ १.३९ ॥ |
|||
॥महादेव उवाच॥ |
|||
कोपं नार्हसि वै कर्तुं ब्राह्मणान्प्रति वै सदा॥ |
|||
ब्राह्मणागुरवो ह्येते वेदवादरताः सदा॥ १.४० ॥ |
|||
वेदो मंत्रमयः माक्षात्तथा सूक्तमयो भृशम्॥ |
|||
सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम्॥ १.४१ ॥ |
|||
तस्मान्नात्मविदो निन्द्या आत्मैवाहं न चेतरः॥ |
|||
कोऽयं कस्त्वं क्व चाहं वै कस्माच्छप्ता हि वै द्विजाः॥ १.४२ ॥ |
|||
प्रपंचरचनां हित्वा बुद्धो भव महामते॥ |
|||
तत्त्वज्ञानेन निर्वर्त्य स्वस्थः क्रोधादिवर्जितः॥ १.४३ ॥ |
|||
एवं प्रबोधितस्तेन शंभुना परमेष्ठिना॥ |
|||
विवेकपरमो भूत्वा शैलादो हि महातपाः॥ |
|||
शिवेन सह संगम्य परमानंदसंप्लुतः॥ १.४४ ॥ |
|||
दक्षोपि हि रुषाऽऽविष्टऋषिभिः परिवारितः॥ |
|||
ययौ स्थानं स्वकं तत्र प्रविवेश रुषाऽन्वितः॥ १.४५ ॥ |
|||
श्रद्धां विहाय परमां शिवपूजकानां निंदापरः स हि बभूव नराधमश्च॥ |
|||
सर्वैर्महर्षिभिरुपेत्य स तत्र शर्वं देवं निनिन्द न बभूव कदापि शान्तः॥ १.४६ ॥ |
|||
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पुराणप्रस्तावदक्षवृत्तान्तवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥ छ ॥ |
|||
{{navbox |
{{navbox |
०७:२८, ४ नवेम्बर् २०१३ इत्यस्य संस्करणं
स्कन्दपुराणम् | |
---|---|
सञ्चिका:स्कन्दपुराणम्.gif गीताप्रेसगोरखपुरस्य आवरणपृष्ठम् | |
लेखक | वेदव्यासः |
देश | भारतम् |
भाषा | संस्कृतम् |
शृंखला | पुराणम् |
विषय | शैवः, स्कन्द भक्तिः |
प्रकार | प्रमुखः शैवः तथा कार्तिकेयलीलाप्रधानग्रन्थः |
पृष्ठ | ८१,१०० श्लोकाः |
॥ अथ श्रीस्कान्दे महापुराणे प्रथमं माहेश्वरखण्डं प्रारभ्यते॥ ॥श्रीगणेशाय नमः॥ ॐनमो भगवते वासुदेवाय॥ ॐनारायणं नमस्कृत्य नरं चैव नरोत्तमम्॥ देवीं सरस्वती चैव ततो जयमुदीरयेत्॥ १.१ ॥
॥व्यास उवाच॥ यस्याज्ञया जगत्स्रष्टाविरिंचिः पालको हरिः॥ संहर्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने। १.१ ॥
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम्॥ तत्रैव नैमिषारण्ये सौनकाद्यास्तपोधनाः॥ दीर्घसत्रं प्रकुर्वंतः सत्रिणः कर्मचेतसः॥ १.२ ॥
तेषां सदर्शनौत्सुक्यादागतो हि महा तपाः॥ व्यासशिष्योमहाप्राज्ञो लोमशोनाम नामतः॥ १.३ ॥
तत्रागतं ते ददृशुर्मुनयो दीर्घसत्रिणः॥ उत्तस्थुर्युगपत्सर्वे सार्घ्यहस्ताः समुत्सुकाः॥ १.४ ॥
दत्त्वार्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः॥ तं पप्रच्छुर्महाभागाः शिवधर्मं सविस्तरम्॥ १.५ ॥
॥ऋषय ऊचुः॥ कथयस्व महाप्राज्ञ देवदेवस्य शूलिनः॥ महिमानं महाभाग ध्यानार्चनसमन्वितम्॥ १.६ ॥
संमार्जने किं फलं स्यात्तथा रंगावलीषुच॥ प्रदाने दर्पणस्याथ तथा वै चामरस्य च॥ १.७ ॥
प्रदाने च वितानस्य तथा धारागृहस्य च॥ दीपदाने किं फलं स्यात्पूजायां किं फलं भवेत्॥ १.८ ॥
कानिकानि च पुण्यानि कथ्यतां शिवपूजने॥ इतिहासपुराणानि वेदाध्ययनमेव च॥ १.९ ॥
शिवस्याग्रे प्रकुर्वंति कारयन्त्यथवानराः॥ किं फलं च नृणां तेषां कथ्यतां विस्तरेण हि॥ १.१० ॥
शिवाख्यानपरोलोके त्वत्तो नान्योऽस्ति वै मुने॥ १.११ ॥
इति श्रुत्वा वचस्तेषां मुनीनां भावितात्मनाम्॥ उवाच व्यासशिष्योऽसौ शिवमाहात्म्यमुत्तमम्॥ १.१२ ॥
॥लोमश उवाच॥ अष्टादशपुराणेषु गीयते वै परःशिवः॥ तस्माच्छिवस्य माहात्म्यं वक्तुं कोऽपि न पार्यते॥ १.१३ ॥
शिवेति द्व्यक्षरं नाम व्याहरिइष्यंति ये जनाः॥ तेषां स्वर्गश्च मोक्षश्च भविष्यति न चान्यथा॥ १.१४ ॥
उदारो हि महादेवो देवानां पतिरिश्वरः॥ येन सर्वं प्रदत्तं हि तस्मात्सर्व इति स्मृतः॥ १.१५ ॥
ते धन्यास्ते महात्मानो ये भजंति सदा शिवम्॥ १.१६ ॥
विना सदाशिवं योहि संसारं तर्तुमिच्छति॥ स मूढो हि महापापः शिवद्वेषी न संशयः॥ १.१७ ॥
भक्षितं हि गरं येन दक्षयज्ञो विनाशितः॥ कालस्य दहनं येन कृतं राज्ञः प्रमोचनम्॥ १.१८ ॥
॥ऋषय ऊचुः॥ यथा गरं भक्षितं च यथा यज्ञो विनाशितः॥ दक्षस्य च तथा ब्रूहि परं कौतूहलं हि नः॥ १.१९ ॥
॥सूत उवाच॥ दाक्षायणी पुरा दत्ता शंकराय महात्मने॥ वचनाद्ब्रह्मणो विप्रा दक्षेण परमेष्ठिनः॥ १.२० ॥
एकदा हि स दक्षो वै नैमिषारण्यमागतः॥ यदृच्छावशमापन्न ऋषिभिः परिपूजितः॥ १.२१ ॥
स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुरासुरैः॥ तत्र स्थितो महादेवो नाभ्युत्थानाभिवादने॥ चकारास्य ततः क्रुद्धो दक्षो वचनब्रवीत्॥ १.२२ ॥
सर्वत्र सर्वे हि सुरासुरा भृशं नमंति मांविप्रवराः समुत्सुकाः॥ कथं ह्यसौ दुर्जनवन्महात्मा भूतादिभिः प्रेतपिशाचयुक्तः॥ श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना॥ १.२३ ॥
पाखंडिनो दुर्जनाः पापशीला विप्रं दृष्ट्वा चोद्धता उन्मदाश्च॥ वध्यास्त्याज्याः सद्भिरेवंविधा हि तस्मादेनं शापितुं चोद्यतोऽस्मि॥ १.२४ ॥
इत्येवमुक्त्वा स महातपास्तदा रुषान्वितो रुद्रमिदं बभाषे॥ १.२५ ॥
श्रृण्वं त्वमी विप्रतमा इदानीं वचो हि मे कर्तुमिहार्हथैतत्॥ रुद्रो ह्ययं यज्ञबाह्यो वृतो मे वर्णातीतो वर्णपरो यतश्च॥ १.२६ ॥
नंदी निशम्य तद्वाक्यं शैलादो हि रुषान्वितः॥ अब्रवीत्त्वरितो दक्षं शापदं तं महाप्रभम्॥ १.२७ ॥
॥नन्द्युवाच॥ यज्ञबाह्यो हि मे स्वामी महेशोऽयं कृतः कथम्॥ यस्य स्मरणमात्रेण यज्ञाश्च सफला ह्यमी॥ १.२८ ॥
यज्ञो दानं तपश्चैव तीर्थानि विविधानि च॥ यस्य नाम्ना पवित्राणि सोयं शप्तोऽधुना कथम्॥ १.२९ ॥
वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते॥ येनेदं पालितं विश्वं सर्वेण च महात्मना॥ शप्तोऽयं स कथं पाप रुद्रोऽयं ब्राह्मणाधम॥ १.३० ॥
एवं निर्भार्त्सितस्तेन नंदिना हि प्रजापतिः॥ नंदिनं च शशापाथ दक्षो रोषसमन्वितः॥ १.३१ ॥
यूयं सर्वे रुद्रवरा वेदबाह्याश्च वै भृशम्॥ शप्ताहि वेदमार्गैश्च तथा त्यक्ता महर्षिभिः॥ १.३२ ॥
पाषंडवादसंयुक्ताः शिष्टऽऽचारबहिष्कृताः॥ कपालिनः पानरतास्तथा कालमुखा ह्यमी॥ १.३३ ॥
इति शप्तास्तदा तेन दक्षेण शिवकिंकराः॥ तदा प्रकुपितो नंदी दक्षं शप्तुं प्रचक्रमे॥ १.३४ ॥
शप्ता वयं त्वया विप्र साधवः शिवकिंकराः॥ वृथैव ब्रह्मचापल्यादहं शापं ददामि ते॥ १.३५ ॥
वेदवादरता यूयं नान्यदस्तीतिवादिनः॥ कामात्मानः स्वर्गपरा लोभमोहसमन्विताः॥ १.३६ ॥
वैदिकं च पुरस्कृत्य ब्राह्मणाः शूद्रयाजकाः॥ दरिद्रिणो भविष्यंति प्रतिग्रहरताः सदा॥ १.३७ ॥
दक्ष केचिद्भविष्यन्ति ब्राह्मणा ब्रह्मराक्षसाः॥ ॥लोमश उवाच॥ विप्रास्ते शपितास्तेन नंदिना कोपिना भृशम्॥ १.३८ ॥
अथाकर्ण्येश्वरो वाक्यं नंदिनः प्रहसन्निव॥ उवाच वाक्यं मधुरं बोधययुक्तं सदाशिवः॥ १.३९ ॥
॥महादेव उवाच॥ कोपं नार्हसि वै कर्तुं ब्राह्मणान्प्रति वै सदा॥ ब्राह्मणागुरवो ह्येते वेदवादरताः सदा॥ १.४० ॥
वेदो मंत्रमयः माक्षात्तथा सूक्तमयो भृशम्॥ सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम्॥ १.४१ ॥
तस्मान्नात्मविदो निन्द्या आत्मैवाहं न चेतरः॥ कोऽयं कस्त्वं क्व चाहं वै कस्माच्छप्ता हि वै द्विजाः॥ १.४२ ॥
प्रपंचरचनां हित्वा बुद्धो भव महामते॥ तत्त्वज्ञानेन निर्वर्त्य स्वस्थः क्रोधादिवर्जितः॥ १.४३ ॥
एवं प्रबोधितस्तेन शंभुना परमेष्ठिना॥ विवेकपरमो भूत्वा शैलादो हि महातपाः॥ शिवेन सह संगम्य परमानंदसंप्लुतः॥ १.४४ ॥
दक्षोपि हि रुषाऽऽविष्टऋषिभिः परिवारितः॥ ययौ स्थानं स्वकं तत्र प्रविवेश रुषाऽन्वितः॥ १.४५ ॥
श्रद्धां विहाय परमां शिवपूजकानां निंदापरः स हि बभूव नराधमश्च॥ सर्वैर्महर्षिभिरुपेत्य स तत्र शर्वं देवं निनिन्द न बभूव कदापि शान्तः॥ १.४६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पुराणप्रस्तावदक्षवृत्तान्तवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥ छ ॥
अष्टादषपुराणेष्वन्यतमम् इदं पुराणस्य पञ्चलक्षणमपि सन्ति।अत्र पद्मकल्पविषयकं निरूपितमस्ति।