"नामदेव" इत्यस्य संस्करणे भेदः

Jump to navigation Jump to search
(लघु)
clean up, added deadend tag using AWB
(लघु) (clean up, added deadend tag using AWB)
(लघु) (clean up, added deadend tag using AWB)
{{Dead end|date=जनुवरि २०१४}}
 
सधुः नामदेवः (१२७० - १३५०) महाराष्ट्रस्य हिन्ङ्गोलीमण्डलस्य नरसिबमनिग्रामे १२७० तमे वर्षे अक्टोबर्मासस्य २९ तमे दिनाङ्के जातः । तस्य पिता सौचिकः दाम्शेटः माता गोणाबाई । गृहस्थाश्रमस्य प्रामुख्यं सः बहु विवृणोत् स्वस्य उपदेशेषु । सः वदति वैवाहिकजीवनेन एव आत्मज्ञानं प्राप्तुं शक्यमिति सः वदति स्म ।
पुरा पुण्डरीकपुरनामके ग्रामे नामदेव इति कश्चन् पाण्डुरङ्गभक्तः आसीत्। आहारस्वीकारसमये वा भवतु निद्रायां वा भवतु सः पाण्डुरङ्गमेव स्मरति स्म । पाण्डुरङ्गनामस्मरणेन पापानि विनष्टानि भवन्ति इति तस्य विश्वासः । तस्य भक्तिं दृष्ट्वा पाण्डुरङ्गः तृप्तः अभवत् । तस्य् भूतदयां परीक्षितुकामः आसीत् पाण्डुरङ्गः । स: एव शुनकरूपं धृत्वा पुण्डरीकपुरे आहाराय सर्वेषु गृहेषु विचचार । परन्तु न कोऽपि तस्नै आहारं दत्तवान् , प्रत्युत सर्वे तं ताडितवन्तः । बुभुक्षया पीडितं शुनकं दृष्ट्वा नामदेवः दयापूर्णमानसः अभवत् । झटिति एव गृहं प्रविश्य एकम् अपूपम् आनीतवान् । अपूपं शुनकाय दर्शयन् आगच्छतु आगच्छ्तु इति प्रेम्णा आहूतवान् । शुनकः समीपमागत्य तम् अपूपं गृहीत्वा पलायितः । परन्तु अपूपं न भक्षितवान् ।
 
== बाल्यं शिक्षा च ==
तदा नामदेवः एवं चिन्तितवान् -शुनकः अपि पाण्डुरङ्गस्वरूप: एव । अस्मै रुचिकरम् अपूपं न द्त्तवान् अहम् । अत्र यदि घृतं योजितं स्यात् तर्हि रुचिकरं स्यात् इति मत्वा घृतपात्रं दर्शितवान् । शुनकः समीपम् अगच्छत तस्य मुखात् अपूपम् अपसार्य खण्डशः कृत्वा घृतम् आपूर्य दत्तवान् । शुनकः महता आनन्देन तम् अपूपम् अभक्षयत् । तदा नामदेवः आनन्दम् अनुभवन् पाण्डुरङ्गम् अस्मरत्। एतत् सर्वं दृष्ट्वा ग्रामीणाः सर्वे असौ उन्मत्तः इति उपहासं कृतवन्तः । कुक्कुरः नामदेवं प्रदाक्षिणीकृत्य अन्तर्दधौ । परन्तु नामदेवः भगवतः पाण्डुरङ्गस्य दर्शनमासीत् , सः मां त्यक्त्वा कुत्र गतः इति आक्रोशन् इतस्ततः अधावत् | जनाः कुक्कुरस्य अद्श्यतां दृष्ट्वा सः कुक्कुरः न, अपि तु पाण्डुरङ्गः एव। नामदेवः निश्चयेन पाण्डुरङ्गभक्तः । अस्माभिः तस्य विषये महान् अपराधः कृतः इति च मत्वा तस्य पादयोः अपतन् | एवं कृपालुः भगवान् भक्तान् रूपान्तरेणापि अनुगृह्णाति |
'''सन्त रामदेवः''' महाराष्ट्रस्य कश्चन धार्मिककविः । प्राचीनतमेषु मराठिलेखकेषु अयम् अन्यतमः । भगवद्धर्मस्य प्रचारे अग्रेसरः आसीत् । एतेन हिन्दीभाषया पञ्जाबिभाषया च तेन पद्यानि रचितानि । कीर्तनगाने तदीया भक्तिः तन्मयता च एतावान् आसीत् यत् स्वयं भगवान् पाण्डुरङ्गः उपस्थितः भवति स्म इति विश्वस्यते । धार्मिकैकतायाः साधने तदीयं योगदानं सदा तिष्ठति अनुपमम् । नामदेवस्य जन्मनः अनन्तरं तेषां कुटुम्बः पण्डरापुरं प्रति अगच्छत् यत्र भगवतः विठ्ठलस्य (विठोबस्य) प्रमुखं मन्दिरं वर्तते । तस्य पितरौ विठोबस्य भक्तौ आस्ताम् । नामदेवः अशीतिवर्षाणि यावत् पण्डरापुरे अवसत् ।कुलवृत्तौ नामदेवस्य आसक्तिः आसीत् अत्यल्पा । तदीया विठोबभक्तिः आसीत् अनन्या । आदिनम् आरात्रिः तस्य एकमेव कार्यं नाम देवध्यानम् । सः विठोबं स्वस्य भ्रातरं मित्रं वा मन्यते स्म । एवं किंवदन्ती काचित् श्रूयते यत् 'पञ्चवर्षीयः नामदेवः कदाचित् मात्रा दत्तम् आहारनैवेद्यं स्वीकृत्य विठोबाय समर्पयितुम् अगच्छत् । विठोबस्य पुरतः संस्थाप्य स्वीकर्तुं प्रार्थयत् । बहु समयं यावत् प्रतीक्षा कृता तेन । तथापि विठोबः नागतः इत्यतः खिन्नः नामदेवः अवदत् - 'भवान् यदि न स्वीकुर्यात् तर्हि अहम् आत्महत्यां कुर्याम्' इति । बालस्य नामदेवस्य भक्त्या सन्तुष्टः विठोबः प्रत्यक्षीभूय नैवेद्यं परिगृहीतवान्' इति ।
 
== विवाहः वैराग्यम् ==
स्वस्य एकादशे वयसि नामदेवः राजाई नामिकां परिणीतवान् । तयोः चत्वारः पुत्राः - नारा, विठा, गोन्दा, महादा । एका पुत्री - लिंबाई । तस्य ज्येष्ठा अग्रजा अपि तेषां गृहे एव वसति स्म । आहत्य एकादश जनाः गृहे आसन् । १२९१ तमे वर्षे २१ तमे वयसि तस्य जीवनस्य महत्त्वपूर्णं परिवर्तनं जातं यदा तेन सन्तः ध्यानेश्वरः अमिलत् । बहुत्र इयं घटना उल्लिखिता दृश्यते - कदाचित् ध्यानेश्वरः, निवृत्तिनाथः, सोपन्देवः, मुक्ताबाई, नामदेवः, चोखमेला, विशोबा खेचर इत्यादयः धार्मिकाः एकत्र अमिलन् । ध्यानेश्वरस्य सूचनानुसारं कुम्भकारः सन्तः गोरोबः एकैकस्य शिरसि ताडयन् अध्यात्मदृष्ट्या अयं प्रबुद्धः उत न इति ज्ञातुं प्रयतमानः आसीत् । नामदेवस्य परीक्षायाः अनन्तरं गोरोबः अवदत् यत् अयं अध्यात्मदृष्ट्या अप्रबुद्धः इति । मुक्ताबाई अपि इदम् अनुमोदितवती । नामदेवः देवसमीपमेव अनयत् इमं विषयम् । विशोबखेचारस्य मार्गदर्शनम् अङ्गीक्रियताम् इति देवः असूचयत् । नामदेवः विशोबखेचारं गुरुत्वेन अङ्गीकृतवान् । तस्मात् सः देवदर्शनं प्राप्तवान् । तस्य कीर्तनेषु बहूनां ग्रन्थानाम् उल्लेखः दृश्यते इत्यतः ज्ञायते यत् तेन बहवः ग्रन्थाः पठिताः स्युः, सः महान् पण्डितः स्यादिति । नामदेवः स्वस्य कीर्तनानि गायन् भारते बहुत्र अभ्रमत् । महाराष्ट्रजनानाम् अध्यात्मिकैकतायाः साधने अयं महत्त्वपूर्णं पात्रम् अवहत् । सः पञ्जाबमण्डलस्य गुरुदासपुरे घुमन्-ग्रामे अयं २० वर्षाणि यावत् अवसत् इति श्रूयते । पञ्जाबस्य सिक्खबान्धवाः एतं स्वीयं भावयन्तः नामदेवबाबा इति प्रीत्या आह्वयन्ति स्म । बहोर्दासः, लद्धः, विष्णुस्वामी, केशवकलाधारी च तत्रत्याः शिष्याः । अयं हिन्दीभाषया १२५ अभङ्गनामकानि कीर्तनानि अरचयत् । एतेषु ६१ कीर्तनानि सिक्खानां पवित्रग्रन्थे गुरुग्रन्थसाहिबग्रन्थे 'नामदेवस्य मुखबानि' इति नाम्ना योजितानि सन्ति । राजस्थाने सिक्खजनैः नामदेवस्य मन्दिराणि निर्मितानि सन्ति ।
 
== आत्मकथा ==
'नामदेववाची'नामके ग्रन्थे नामदेवस्य २५०० कीर्तनानि सङ्गृहीतानि सन्ति । अस्मिन् 'तीर्थावली' नामकं पद्यं सन्तध्यानेश्वरेण सह स्वस्य प्रवासानुभवं कथयति । मराठीसाहित्ये इदमेव प्रथमम् आत्मचरितम् अस्ति । 'आदि' 'समाधि' 'तीर्थावली' इत्येतेषां द्वारा सः ध्यानेश्वरस्य जीवनगाथां कथयति । अतः सः मराठीसाहित्यस्य प्रथमः जीवनचरितलेखकः इत्यपि वक्तुं शक्नुमः । ध्यानेश्वरस्य मरणस्य अनन्तरं ५० वर्षाणि यावत् नामदेवः भगवद्धर्मस्य प्रचारम् अकरोत् । सन्तः तुकारामः अपि अस्मात् नितरां प्रभावितः जातः इति श्रूयते । नामदेवः अशीतितमे वयसि १३५० तमे वर्षे पण्डरापुरे भगवतः पादारविन्दौ मरणं प्राप्तवान् । सः तस्य मन्दिरस्य सोपानशिला भवितुम् इष्टवान् यस्मात् असङ्ख्यानां सत्पुरुषाणां पादस्पर्षेण अनुगृहीतः स्याम् इति ।
 
== बाह्यनुबन्धाः ==
* [http://www.manase.org/en/maharashtra.php?mid=68&smid=23&pmid=2&id=370 Saint Namdev]
* [http://books.google.co.uk/books?id=SqUdRVOv9TUC&lpg=PA55&ots=AcTnz3Xs4N&dq=Namdev%20Maharashtra%20temple&pg=PA63#v=onepage&q=Namdev%20Maharashtra%20temple&f=false Religion and public memory By Christian Lee Novetzke]
* [http://www.hindupedia.com/en/Sant_Namdev Sant Namdev] on Hindupedia, the Hindu Encyclopedia
 
[http://namdeoshimpisamaj.org/Saint_Namdeo_Maharaj/ संत नामदेव महाराज]
 
[[वर्गः:भक्तिमार्गानुयायिनः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
४,७६०

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/262621" इत्यस्माद् प्रतिप्राप्तम्

सञ्चरणावलिः