"छान्दोग्योपनिषत्" इत्यस्य संस्करणे भेदः
No edit summary |
|||
पङ्क्तिः २०: | पङ्क्तिः २०: | ||
==विषयव्याप्तिः== |
==विषयव्याप्तिः== |
||
==१-५ अध्यायाः== |
==१-५ अध्यायाः== |
||
वागभिमानिनी सरस्वती मुख्यप्राणौ च दम्पती । ऋगभिमानिनी सरस्वती सामाभिमानी प्राणश्च नित्यदम्पती । एते ओङ्कारवाच्यं हृदयसन्निहितम् अक्षरनामकं भगवता सायुज्यं प्राप्नुवन्ति । |
वागभिमानिनी [[सरस्वती देवी| सरस्वती]] मुख्यप्राणौ च दम्पती । ऋगभिमानिनी सरस्वती सामाभिमानी प्राणश्च नित्यदम्पती । एते ओङ्कारवाच्यं हृदयसन्निहितम् अक्षरनामकं भगवता सायुज्यं प्राप्नुवन्ति । |
||
:तद्वा एतन्मिथुनं यद्वाक् च प्राणश्च ऋक् च साम च । |
:तद्वा एतन्मिथुनं यद्वाक् च प्राणश्च ऋक् च साम च । |
||
:तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ (छा उ अ-१-ख-१-म-४) |
:तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ (छा उ अ-१-ख-१-म-४) |
||
पङ्क्तिः ३५: | पङ्क्तिः ३५: | ||
:वैश्वानरविद्या (अ ५ - ख ११) इत्यादयः उपासनाविधयः अत्र विवृताः सन्ति । |
:वैश्वानरविद्या (अ ५ - ख ११) इत्यादयः उपासनाविधयः अत्र विवृताः सन्ति । |
||
==६,७,८ अध्यायाः== |
==६,७,८ अध्यायाः== |
||
एतेषु अध्यायेषु तत्त्वविचाराः उपदिष्टाः सन्ति । '''तत् त्वमसि''' इत्येतत् प्रसिद्धं वाक्यं षष्ठाध्याये निरूपितमस्ति । अस्मिन् प्रकरणे ९ दृष्टान्ताः प्रदत्ताः सन्ति - |
एतेषु अध्यायेषु तत्त्वविचाराः उपदिष्टाः सन्ति । '''तत् त्वमसि''' इत्येतत् प्रसिद्धं वाक्यं षष्ठाध्याये निरूपितमस्ति । अस्मिन् प्रकरणे ९ दृष्टान्ताः प्रदत्ताः सन्ति - |
||
:पक्षी बद्धा रज्जुश्च |
:पक्षी बद्धा रज्जुश्च |
||
:विविधाः पुष्परसाः |
:विविधाः पुष्परसाः |
||
पङ्क्तिः ४५: | पङ्क्तिः ४५: | ||
:रोगी तस्य प्राणनियन्त्रकदेवता च |
:रोगी तस्य प्राणनियन्त्रकदेवता च |
||
:चोरः तेन अपहृतं वस्तु च |
:चोरः तेन अपहृतं वस्तु च |
||
सप्तमोध्याये |
सप्तमोध्याये [[पृथ्वी|भूमो]]पासनं विवृतम् । अस्मिन् सनत्कुमार-[[नारदः|नारद]]योः संवादः वर्तते । देवता-तारतम्यपरिमाणम् अत्र विस्तृतरूपेण प्रदत्तमस्ति ।<br /> |
||
अष्टमोध्याये दहरविद्या वर्णिता अस्ति । हृदये विद्यमानः दहराकाशः (अल्पावकाशः) न परब्रह्म । दहराकाशे विद्यमानः महाकाशः एव परब्रह्म इति अत्र प्रतिपादितम् । |
अष्टमोध्याये दहरविद्या वर्णिता अस्ति । हृदये विद्यमानः दहराकाशः (अल्पावकाशः) न परब्रह्म । दहराकाशे विद्यमानः महाकाशः एव परब्रह्म इति अत्र प्रतिपादितम् । |
||
[[ब्रह्मचर्याश्रमः|ब्रह्मचर्य]]स्य विषये मनोहारकं विवरणम् अस्य अध्यायस्य ५ खण्डे उपलभ्यते । ब्रह्मचर्यं नाम कायेन वाचा मनसा परमात्मनः प्राप्त्यै अनुष्ठानम् ।<br /> |
|||
अस्मिन् अध्याये चतुर्मुखब्रह्मणा इन्द्र-विरोचनयोः कृते कृतः उपदेशः विद्यते । तत्त्वज्ञानस्य प्राप्त्यै समीपम् आगतवन्तौ तौ उभौ उद्दिश्य चतुर्मुखब्रह्मणा एकमेव वाक्यम् उपदिष्टम् - '''य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच''' इति । उभौ अपि स्वयोग्यतानुसारम् अवगतवन्तौ । <br /> |
अस्मिन् अध्याये चतुर्मुखब्रह्मणा इन्द्र-विरोचनयोः कृते कृतः उपदेशः विद्यते । तत्त्वज्ञानस्य प्राप्त्यै समीपम् आगतवन्तौ तौ उभौ उद्दिश्य चतुर्मुखब्रह्मणा एकमेव वाक्यम् उपदिष्टम् - '''य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच''' इति । उभौ अपि स्वयोग्यतानुसारम् अवगतवन्तौ । <br /> |
||
अष्टमाध्याये लभ्यमानानि उपनिष्द्वाक्यानि तत्त्वविचारस्य दृष्ट्या नितरां महत्त्वं प्राप्नोति । तेषु इदमेकं वाक्यम् - |
अष्टमाध्याये लभ्यमानानि उपनिष्द्वाक्यानि तत्त्वविचारस्य दृष्ट्या नितरां महत्त्वं प्राप्नोति । तेषु इदमेकं वाक्यम् - |
०६:२९, २५ मार्च् २०१५ इत्यस्य संस्करणं
परिचयः
छान्दोग्योपनिषत्, दशसु प्रमुखोपनिषत्सु अन्यतमा अस्ति । इयं हयग्रीवरूपीभगवतः मुखात् आविर्भूतानि पवित्रवाक्यानि । सर्वासाम् उपनिषदां मुख्याभिमानिनी लक्ष्मीदेवी स्वस्य पतिं श्रीहरिम् अत्र ओमित्यक्षरमुद्गीथमुपासीत इत्येवम्प्रकारेण स्तुतवती अस्ति इति आचार्याः उपोद्घाते उल्लिखितवन्तः सन्ति ।
- हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम् ।
- ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः ॥ इति महासंहितायाम् । (छा उ भाष्यम् १-१-१)
इयम् उपनिषत् सामवेदस्य छान्दोग्यब्राह्मणस्य कश्चन भागः वर्तते । इयं गद्यरूपेण वर्तते इत्यतः अत्र छन्दः नास्ति । अस्याः उपनिषदः प्रथमद्रष्टा हयग्रीवभगवान् अस्याः प्रधानऋषिः । रमादेवी द्वितीया ऋषिः । अनन्तगुणपरिपूर्णः, शेषशायी रमापतिः अस्याः प्रतिपाद्यदेवता ।
- हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम् ।
- अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ (छा उ भाष्यम् १-१-१)
दशसु प्रमुखोपनिषत्सु छान्दोग्योपनिषदः वैशिष्ट्यं वर्तते । अस्याः उपनिषदः भाष्यं श्रीशङ्कराचार्यैः श्रीमध्वाचारैश्च लिखितम् अस्ति ।
शान्तिमन्त्रः
- ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
- श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।
- सर्वम् ब्रह्मौपनिषदम् माऽहं ब्रह्म
- निराकुर्यां मा मा ब्रह्म
- निराकरोदनिराकरणमस्त्वनिराकरणम् मेऽस्तु।
- तदात्मनि निरते य उपनिषत्सु धर्मास्ते
- मयि सन्तु ते मयि सन्तु।
- ॐ शान्तिः शान्तिः शान्तिः॥
विषयव्याप्तिः
१-५ अध्यायाः
वागभिमानिनी सरस्वती मुख्यप्राणौ च दम्पती । ऋगभिमानिनी सरस्वती सामाभिमानी प्राणश्च नित्यदम्पती । एते ओङ्कारवाच्यं हृदयसन्निहितम् अक्षरनामकं भगवता सायुज्यं प्राप्नुवन्ति ।
- तद्वा एतन्मिथुनं यद्वाक् च प्राणश्च ऋक् च साम च ।
- तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ (छा उ अ-१-ख-१-म-४)
यदा एतौ दम्पती भगवतः सायुज्यं प्राप्तवन्तौ तदा तैः अभीष्टं सर्वं प्राप्तम् ।
उपासनापद्धतयः (१ - ५ अध्यायाः)
अस्याः उपनिषदः प्रथमतः पञ्चमोध्यायं यावत् उपासनापद्धतयः विवृताः सन्ति -
- उद्गीथोपासना (अ १ - ख १ - मं १)
- मुख्यप्राणे भगवदुपासना (अ १ - ख २)
- उद्गीथाक्षरोपासना (अ १ - ख ३)
- सामोपासना (अ १ - ख ७) (अ २ - ख २ - ६)
- मधुविद्या (अ ३ - ख १-९)
रैक्वेण उपदिष्टा संवर्गविद्या (अ ४ - ख ३)
- पञ्चाग्निविद्या (अ ५ - ख ४)
- वैश्वानरविद्या (अ ५ - ख ११) इत्यादयः उपासनाविधयः अत्र विवृताः सन्ति ।
६,७,८ अध्यायाः
एतेषु अध्यायेषु तत्त्वविचाराः उपदिष्टाः सन्ति । तत् त्वमसि इत्येतत् प्रसिद्धं वाक्यं षष्ठाध्याये निरूपितमस्ति । अस्मिन् प्रकरणे ९ दृष्टान्ताः प्रदत्ताः सन्ति -
- पक्षी बद्धा रज्जुश्च
- विविधाः पुष्परसाः
- नदी समुद्रश्च
- वृक्षः तस्य जीवचैतन्यश्च
- सूक्ष्मबीजं तदन्तर्गता शक्तिः
- जलं लवणञ्च
- यात्रिकः तेन गम्यमानः देशश्च
- रोगी तस्य प्राणनियन्त्रकदेवता च
- चोरः तेन अपहृतं वस्तु च
सप्तमोध्याये भूमोपासनं विवृतम् । अस्मिन् सनत्कुमार-नारदयोः संवादः वर्तते । देवता-तारतम्यपरिमाणम् अत्र विस्तृतरूपेण प्रदत्तमस्ति ।
अष्टमोध्याये दहरविद्या वर्णिता अस्ति । हृदये विद्यमानः दहराकाशः (अल्पावकाशः) न परब्रह्म । दहराकाशे विद्यमानः महाकाशः एव परब्रह्म इति अत्र प्रतिपादितम् ।
ब्रह्मचर्यस्य विषये मनोहारकं विवरणम् अस्य अध्यायस्य ५ खण्डे उपलभ्यते । ब्रह्मचर्यं नाम कायेन वाचा मनसा परमात्मनः प्राप्त्यै अनुष्ठानम् ।
अस्मिन् अध्याये चतुर्मुखब्रह्मणा इन्द्र-विरोचनयोः कृते कृतः उपदेशः विद्यते । तत्त्वज्ञानस्य प्राप्त्यै समीपम् आगतवन्तौ तौ उभौ उद्दिश्य चतुर्मुखब्रह्मणा एकमेव वाक्यम् उपदिष्टम् - य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच इति । उभौ अपि स्वयोग्यतानुसारम् अवगतवन्तौ ।
अष्टमाध्याये लभ्यमानानि उपनिष्द्वाक्यानि तत्त्वविचारस्य दृष्ट्या नितरां महत्त्वं प्राप्नोति । तेषु इदमेकं वाक्यम् -
आत्तो वै सशरीरः प्रियाप्रियाभ्याम् । न हवै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः । (अध्याय ८ खण्डः १२)
शरीराभिमानसहितः जीवः सुखदुःखयोः आक्रमणेन पीडितः भवति । देहाभिमानयुतेन जनेन सुखदुःखानि अनुभोक्तव्यानि एव । जीवेन सह परमात्मा शरीरे विद्यते चेदपि सः शरीराभिमानरहितः इत्यतः सः सुखदुःखाभ्यां दूरे तिष्ठति ।
मूलानि
- S. Radhakrishnan, The Principal Upanishads
- Sri Aurobindo, The Upanishads [१]. Sri Aurobindo Ashram, Pondicherry. 1972.
- Introduction by Sri Adidevananda: Chhandyogapanishads (Kannada translation)
बाह्यसम्पर्कतन्तुः
विकिस्रोतसि छान्दोग्योपनिषत्-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
विकिस्रोतसि छान्दोग्योपनिषत्-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
- Chhandogya Upanishad – A translation by swami Nikhilananda
- Chandogya Upanishad with Shankara Bhashya translated to English by Ganganath Jha (1942) at archive.org
- etext
- Translation of Chandogya Upanishad at Celextel's Online Spiritual Library
- Swami Krishnananda Speaks on The Chhandogya Upanishad – Contains audios