"तत्त्वशास्त्रम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ४: पङ्क्तिः ४:


[[वर्गः:तत्त्वज्ञानम्]]
[[वर्गः:तत्त्वज्ञानम्]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]

०६:३९, ११ आगस्ट् २०१५ इत्यस्य संस्करणं

किं नाम तत्त्वशास्त्रम्?

तत्त्वशास्त्रम् नाम ,तत्त्वम्, अधिकृत्य लक्ष्य-लक्षणानि विवृण्वत्, पूर्वपक्षनिरासयुक्तिकम् उत्तरपक्षसिद्धान्तपरम्, श्रुत्युक्तधर्मविवृतिरूपम् शिष्यशिक्षायै निबद्धम् सत् शिशिक्षूणां जिज्ञासाम् उपशमयति । तत्त्वम् नाम किम्? । तत्त्वमसीत्यादिवाक्येषु ’तत्” पदेन व्यपदिश्यमानम् अन्यथाऽनिर्वचनीयम्, " यतॊ वाचॊ निवर्तन्ते । अप्राप्य मनसा सह ।" इत्युपनिषत्सूपवर्णितम्, "अरूपमगुणमद्रव्यमनिन्द्रियगोचरमनूह्यमचरमनाद्यनन्तमविशेष्यममविशिष्ट्मज्ञेयमद्वयम्" "नेति नेति" इति ज्ञानिभिः नञैव व्यादिष्टं ब्रह्मवस्तु तत्पदेन विना केनान्येन निर्वाच्यम्? । तस्य ब्रह्मवस्तुनः महिमानं विशदयितुं प्रवृत्तं ब्रह्मसूत्रादि वेदभाष्यादि शास्त्रम् तत्त्वशास्त्रमिति प्रोच्यते । यथा अद्वैतवेदान्तॆ अशेषविशेषप्रत्यनीकं चिन्मात्रम् ब्रह्मैकमेव तत्वमिति सर्वं खल्विदं ब्रह्म । इति । एवमन्येष्वपि दर्शनशास्त्रेषु स्वस्वमतान्यनूद्य नानातत्वानि निरूपितानि । भौतिकैः प्रमाणैः विवेक्तुं प्रमापयितुं च यन्न शक्यं तत् जगतः सारभूतम् वस्तु किञ्चित् तत्त्वमित्युच्यते । अमरकोशानुसारं तत्वम्, तत्त्वम् इति द्विप्रकारेणापि प्रयोगॆ विद्यमानं पदं विलम्बिताख्ये नाट्यप्रकारे अर्थद्योतकं भवति ।

"https://sa.wikipedia.org/w/index.php?title=तत्त्वशास्त्रम्&oldid=310539" इत्यस्माद् प्रतिप्राप्तम्