"लभन्ते ब्रह्मनिर्वाणम्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तुः: श्रीमद्भगवद्गीतायाः श्लोकाः using AWB
→‎शब्दार्थः: शब्दार्थः, replaced: ==पदार्थः== → == शब्दार्थः == using AWB
पङ्क्तिः १३: पङ्क्तिः १३:
क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।
क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।


== शब्दार्थः ==
==पदार्थः==
:क्षीणकल्मषाः = नष्टपापाः
:क्षीणकल्मषाः = नष्टपापाः
:छिन्नद्वैधाः = अपगतसंशयाः
:छिन्नद्वैधाः = अपगतसंशयाः

११:५७, ८ अक्टोबर् २०१५ इत्यस्य संस्करणं

गीतोपदेशः
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चविंशतितमः (२५) श्लोकः ।

पदच्छेदः

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥'

अन्वयः

क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।

शब्दार्थः

क्षीणकल्मषाः = नष्टपापाः
छिन्नद्वैधाः = अपगतसंशयाः
यतात्मानः = जितेन्द्रियाः
सर्वभूतहिते = सर्वभूतसुखे
रताः = आसक्ताः
ऋषयः = मुनयः
ब्रह्मनिर्वाणम् = मोक्षम्
लभन्ते = प्राप्नुवन्ति ।

तात्पर्यम्

येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति ।

शाङ्करदर्शनम्

किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।।

बाह्यसम्पर्कतन्तुः