"विकिपीडिया:अङ्कपरिवर्तकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ५१: पङ्क्तिः ५१:
--->
--->


[[वर्गः:विकिपीडिया सहायता]]
[[वर्गः:विकिपीडिया-साहाय्यम्]]

१०:३४, ५ मार्च् २०१६ इत्यस्य संस्करणं

अङ्कपरिवर्तकं जावा-लिप्याधारितं किञ्चन उपकरणम् । यस्य प्रयोगेण अङ्काः देवनागरीलिप्या, अरबीलिप्या च परस्परं परिवर्तयितुं शक्यम् । उपकरणमिदं सक्रियं भवति चेत्, पञ्जीकृताः सदस्याः योजकपृष्ठस्य आदौ अङ्कपरिवर्तनगवाक्षः दृश्यते । सदस्यः यदि न प्रविष्टः तर्हि 'सदस्यता प्राप्यताम्' इत्यस्य पूर्वमेव अयं गवाक्षः दृश्यते ।

विकल्पाः

एतस्मिन् त्रयः विकल्पाः सन्ति...

उत्सर्गः : अङ्कपरिवर्तकस्य एषः विकल्पः यदि चितः अस्ति, तर्हि मूलपाठेषु यथा अङ्काः लिखिताः स्युः, तथैव दरीदृश्यन्ते । अर्थात् पृष्ठे देवनागर्याम् अङ्काः लिखिताः सन्ति चेत्, तस्मिन् पृष्ठे देवनागर्याः अङ्काः एव दृश्यन्ते । तथैव पृष्ठे अरबी-लिप्याम् अङ्काः लिखिताः सन्ति चेत्, तस्मिन् पृष्ठे अरबी-अङ्काः एव दृश्यन्ते । उत्सर्गस्य चयने सति मूलपाठे किमपि परिवर्तनं न भवति । यथा अस्ति, तथैव दृश्यते ।

देवनागरी : अङ्कपरिवर्तकस्य एषः विकल्पः यदि चितः अस्ति, तर्हि पृष्ठेषु सर्वे अङ्काः देवनागर्यां दरीदृश्यन्ते । अर्थात् ० १ २ ३ ४ ५ ६ ७ ८ ९ । अस्य विकल्पस्य समर्थनार्थं १२३ इत्यस्य चयनं कर्तव्यम् ।

अरबी : अङ्कपरिवर्तकस्य एषः विकल्पः यदि चितः अस्ति, तर्हि पृष्ठेषु सर्वे अङ्काः अरबी-लिप्यां दरीदृश्यन्ते । अर्थात 0 1 2 3 4 5 6 7 8 9 । अस्य विकल्पस्य समर्थनार्थं 123 इत्यस्य चयनं कर्तव्यम् ।

कार्यक्षेत्रम्

पृष्ठेषु दृश्यमानेभ्यः अङ्केभ्यः एव एतत् उपकरणं कार्यं करोति । टङ्कन-करणे अस्य उपयोगः न भवति । टङ्कन-समये अङ्कपरिवर्तनार्थं अत्र पश्यतु । चित्रस्य नामान्तरस्योपरि (alt), शीर्षकस्योपरि च एतस्य प्रभावः न भवति ।

अन्यपरिसन्धयः

मिडीयाविकी:Gadgets-definition : उपकरणस्यास्य विवरणम् ।

मिडीयाविकी:Gadget-Numeral converter.css : उपकरणस्यीस्य जावा-लिप्याः कूटः (code) ।

मिडीयाविकी:Gadget-Numeral converter.js : उपकरणस्यीस्य सी॰एस॰एस-कूटः (code) ।