"नीमचमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ४: पङ्क्तिः ४:
| native_name = Neemuch District
| native_name = Neemuch District
| other_name =
| other_name =
| image_map = Madhya Pradesh district location map Neemuch.svg
| map_caption = मध्यप्रदेश राज्यस्य मानचित्रे नीमचमण्डलम्
| settlement_type = नीमच जिला
| settlement_type = नीमच जिला
| image_skyline = नीमचमण्डलम्.jpg
| image_skyline = नीमचमण्डलम्.jpg

०८:१५, ३० आगस्ट् २०१६ इत्यस्य संस्करणं

नीमचमण्डलम्

Neemuch District
नीमच जिला
नीमचमण्डलम्
नीमचमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे नीमचमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे नीमचमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि नीमच, जीरन, जावद, सिङ्गोली
विस्तारः ४,२५६ च. कि. मी.
जनसङ्ख्या (२०११) ८,२६,०६७
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७.८०%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४७.५%
Website http://neemuch.nic.in/

नीमचमण्डलम् ( /ˈnməxməndələm/) (हिन्दी: नीमच जिला, आङ्ग्ल: Nimach district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नीमच इति नगरम् ।

भौगोलिकम्

नीमचमण्डलस्य विस्तारः ४,२५६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे मन्दसौरमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे मन्दसौरमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं नीमचमण्डलस्य जनसङ्ख्या ८,२६,०६७ अस्ति । अत्र ४,२२,६५३ पुरुषाः, ४,०३,४१४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.७७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ७०.८०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- नीमच, जीरन, जावद, सिङ्गोली ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले पुलोमही (अफीम) इत्यस्य व्यापारः विश्वस्तरे भवति ।

वीक्षणीयस्थलानि

नीलकण्ठमहादेव-मन्दिरम्

नीलकण्ठमहादेव-मन्दिरं बोरखेडी-ग्रामात् १ कि. मी. दूरे स्थितमस्ति । स्थलमिदं कस्याश्चित् नद्याः तटे स्थितमस्ति । मन्दिरे सुन्दरं शिवलिङ्गम् अस्ति । इदं मन्दिरं परितः रमणीयस्थलानि सन्ति ।

भादवामाता-मन्दिरम्

भादवामाता-मन्दिरं नीमच-नगरात् २० कि. मी. दूरे अस्ति । इदं मन्दिरं नीमचमण्डलस्य बृहत्तमं धार्मिकस्थलम् अस्ति । इदं मन्दिरं चमत्कारिकम् अस्ति । ये जनाः सुप्तिरोगात् (paralysis) पीडीताः सन्ति ते तत्र गच्छन्ति चेत् तेषां रोगस्य निवारणं भवति इति चमत्कारः । मन्दिरे एकः कुण्डः अस्ति । कुण्डस्य जलेन ये स्नानं कुर्वन्ति तेषां रोगस्य निवारणं भवति ।

रामपुरा

रामपुरा इति इदं क्षेत्रं पुरातनकाले रामाभील इत्यस्य शासने आसीत् । किन्तु तत्पश्चात् दुर्गभाण चन्द्रावत इत्यनेन सः पराजितः । दुर्गभाण चन्द्रावत इत्यनेन तत्र बहूनि निर्माणकार्याणि कारितानि । उच्यते यत् – “रामपुरा दुर्गभाण को, देखत भागे भूत । घर घर पारी पद्मनी, चौरे चम्पा रुख” ॥ रामपुरा इत्यत्र कल्याणराव-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, जगदीश-मन्दिरं, ’जामा मस्जिद’ इत्यादीनि दर्शनीयस्थलानि अपि सन्ति ।

अठाना

अठाना मेवाडसाम्राज्यस्य राज्ञः महाराणालाखा इत्यस्य ज्येष्ठपुत्रस्य आधिपत्ये आसीत् । तत्र एकं विशालं भवनमस्ति । तद्भवनं कलात्मकम् अस्ति । तस्य भागद्वयमस्ति, ’बादल महल’ ’शीश महल’ च । बादल महल इत्यस्मिन् कलात्मकानि १० वातायनानि सन्ति । शीश महल इत्यस्मिन् काचस्य नयनमनोहराणि कलात्मककार्याणि कृतानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://neemuch.nic.in/
http://www.census2011.co.in/census/district/299-neemuch.html

"https://sa.wikipedia.org/w/index.php?title=नीमचमण्डलम्&oldid=398675" इत्यस्माद् प्रतिप्राप्तम्