"कुरुः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
 
पङ्क्तिः ३४: पङ्क्तिः ३४:
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]


[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:छात्रेण सारमञ्जूषानुवादः]]

वर्तमाना आवृत्तिः ०५:३०, ६ सेप्टेम्बर् २०१६ इति समये

कुरुः
१६ जनपदान् दर्शयत् मानचित्रम्
१६ जनपदान् दर्शयत् मानचित्रम्
Etymology: c. 1200 BCE–c. 500 BCE
देश भरतः
राजधानिका असन्दिवत , हास्तिनपुर
भाषा संस्कृत

पुराणानाम् अनुसारं "पुरुभारतम्" कुरुजनानाम् उगमस्थानम् । ऐतरेयब्राह्मणाः मध्यप्रदेशस्थाः कुरुजनाः । हिमालयस्य उत्तरभागे उत्तरकुरुजनाः वसन्ति स्म । कुरुक्षेत्रे विद्यमानाः कुरुजनाः उत्तरकुरुवंशस्थाः आसन् इति वदति बौद्धग्रन्थः "सुमङ्गविलासिनि"नामकः । पुरुवंशस्य राज्ञः संवरसस्य पुत्रः कुरुः एव कुरुवंशस्य कुरुराष्ट्रस्य च संस्थापकः इति वदति वायुपुराणम् । कुरुदेशः इदानीन्तनदेहलीराज्यस्य थानेसरं परितः तथा च इदानीन्तन-उत्तरप्रदेशस्य मीरत्जनपदं परितः च व्याप्तः आसीत् । कुरुराज्यस्य राजधानी आसीत् इदानीन्तनदेहलीसमीपस्थम् "इन्द्रप्रस्थ"नगरम्बुद्धस्य अवधौ कुरुराज्यस्य शासनं राजा "कोरैव्यः" करोति स्म । सः नाममात्रं राजा आसीत् । वेदकाले कुरुवंशेन समाजे उत्तमं स्थानं प्राप्तम् आसीत् । किन्तु बुद्धस्य अवधौ तादृशं स्थानं न प्राप्तम् आसीत् तैः । तथापि तेषां गभीरज्ञानस्य, तीक्ष्णबुद्धेः, उत्तम-आरोग्यस्य च कारणतः तदवधौ ते प्रख्याताः एव आसन् । कुरुवंशीयाणां यादवैः, भोजैः, पाञ्चालैः सह च वैवाहिकसम्बन्धः आसीत् । तदानीन्तनकाले यद्यपि राजानां शासनम् आसीत् तथापि कुरुजनानां (क्रिस्तपूर्व ५ शतके) प्रजातन्त्रसदृशं शासनम् आसीत् । क्रिस्तपूर्वस्य ४ शतकस्य कौटिल्यस्य अर्थशास्त्रम् अपि कुरुवंशीयाः राजशब्दोपजीवनाख्यस्य संविधानस्य (राजप्रभुत्वम्) अनुसरणं कुर्वन्ति स्म इति वदति ।

"https://sa.wikipedia.org/w/index.php?title=कुरुः&oldid=400160" इत्यस्माद् प्रतिप्राप्तम्