परिवर्तनानि

Jump to navigation Jump to search
 
===मोक्षस्वरूपम्===
चतुर्विधपुरुषार्थेषु मोक्षाख्यः अन्यतमः । [[मोक्षः]] आत्मनः सहजस्वरूपम् । स्वाभाविकतया जीवः नित्यशुद्धबुद्धमुक्तः । मोक्षः प्राप्यः उत्पाद्यः वा न । बृहदारण्यकोपनिषदः [[शाङ्करभाष्यम्|शाङ्करभाष्यस्य]] [[सुरेश्वराचार्यः]] व्याख्यानं कृतवान् । तस्मिन् मुक्तेः स्वरूपम् निरूपितवान् अस्ति<ref>राजसूनोः स्मृतिप्राप्ता व्याधभावो निवर्तते ।<br> कथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः ॥ (बृहदारण्यकोपनिषद्-भाष्यम्, सुरेश्वराचार्यस्यवार्तिका २.१.२०)</ref>, कश्चित् राजकुमारः बाल्ये व्याधकुले प्रवृद्धः। कालान्तरे नाहं व्याधः राजकुमारोऽहम् इति ज्ञातवान् । तथैव, जीविः '''तत्त्वमसि''' इत्यादिभिः महावाक्यैः अज्ञाननिवृत्तिं सम्प्राप्य, जीवब्रह्मणोः अभेदं ज्ञात्वा च स्वस्वरूपभवनम् मोक्षः । सहजस्वरूपस्य अज्ञानावरणनिवृत्तिः एव वेदान्तस्य लक्ष्यम् इति शङ्कराचार्यः प्रतिपादितवान् अस्ति ।<ref>अस्य अनर्थहेतोः प्रहाणाये आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ॥ "ब्रह्मसूत्र-शाङ्कराभाष्यम्", उपोद्घातः (अध्यासप्रकरणम्)</ref> ब्रह्मणः अपरोक्षज्ञानमेव मोक्षसाधनम् । ब्रह्मज्ञानं श्रवणात् अनुभवे पर्यवसतं भवति<ref>अनुभवावसानत्वात् भूतविषयेत्वाच्छ ब्रह्मज्ञानस्य । "ब्रह्मसूत्र-शाङ्कराभाष्यम्" १.१.२</ref>। ब्रह्मणः विषये श्रुत्याद्याः, अनुभवाः च प्रमणभूताः । ब्रह्मज्ञानं मोक्षसाधनम् न तु शाब्दज्ञानम् इति [[शङ्कराचार्यः]] उल्लिखति । तत् एवम्, <br>
:न गच्छति विनापानं व्याधिताषधिशब्दतः ।
::विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥<ref>विवेकचूडामणिः, श्लोकसंख्या-६२</ref>
२६

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/429466" इत्यस्माद् पुनः प्राप्तिः

सञ्चरणावलिः