"रायचूरुमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) wikidata interwiki
(लघु) wikidata interwiki
पङ्क्तिः १२२: पङ्क्तिः १२२:
[[वर्गः:रायचूरुमण्डलम्|रायचूरुमण्डलम्]]
[[वर्गः:रायचूरुमण्डलम्|रायचूरुमण्डलम्]]
[[वर्गः:कर्णाटकस्य मण्डलानि]]
[[वर्गः:कर्णाटकस्य मण्डलानि]]



{{Interwiki conflict}}

०९:००, २९ मार्च् २०१८ इत्यस्य संस्करणं

रायचूरुमण्डलम्

ರಾಯಚೂರು ಜಿಲ್ಲೆ
मण्डलम्
Located in the northeast part of the state
कर्णाटकराज्ये रायचूरुमण्डलम्
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
विभागः गुल्बर्गाविभागः
केन्द्रम् रायचूरुनगरम्
उपमण्डलानि रायचूरु, सिन्धनूरु, लिङ्गसगूरु, मान्वि, देदगुर्गः
Government
 • District collector अन्बुकुमार वि, IAS
Area
 • Total ८,३८६ km
Elevation
४००.० m
Population
 (2001)
 • Total १६,६९,७६२
 • Density २००/km
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
584101,584102,584103
दूरवाणिसंज्ञा 08532
ISO 3166 code IN-KA-RA
Vehicle registration KA-36
लिङ्गानुपातम् 0.983 पु/स्त्री
साक्षरतापरिमाणम् 48.8%
Precipitation 680.6 मिलीमीटर (26.80 इंच)
Website raichur.nic.in
Raichur district at a glance

रायचूरुमण्डलम् (Raichur district) कर्णाटकराज्यस्य उत्तरभागस्य मण्डलेषु अन्यतमम् । मण्डलस्य नाम एव मण्डलकेन्द्रस्यापि नाम अस्ति । एतत् बेङ्गळूरुतः ४०९ कि.मी दूरे अस्ति । भारतस्य स्वातन्त्रसङ्ग्रामे हैदराबाद्विमोचनान्दोलने अस्य मण्डलस्य योगदानं महत् वर्तते । राचूर रायपुर् इति च प्रसिद्धः अयं प्रदेशः पूर्वं हैदराबाद् संस्थानाधीनः आसीत् । शिवशरणानां विजयदासः जगन्नाथदासः गोपालदासः, तिम्मण्णदासः, आनन्ददासः इत्यादीनां जन्मभूमिः ।

भौगोलिकता

गिरिशिखराणि अतीव अल्पानि सानुप्रदेशाः एव अधिकाः भवन्ति ।

खनिजाः

”’हट्टी”’ इत्यत्र सुवर्णनिक्षेपः अस्ति । सामान्यप्रमाणेन वर्षा पतति ।

रायचूरुनगरे स्थितं तापविद्युतुत्पादना केन्द्रम्

वातावरणम्

सामन्यतः शुष्कवायुः सञ्चरति । ग्रीष्मकाले ४५ डिग्रिपर्यन्तं (सेलेशियस्) औष्ण्यं बाधते ।

दर्शानीयानि स्थानानि

क्रि.श. १२९४ तमे वर्षे निर्मितं रायचूरुदुर्गं नगरस्य सांस्कृतिकाकर्षणम् अस्ति।शक्तिनगरस्य शाखोत्पन्नविद्युत्स्थावरः, लिङ्गसूरु हट्टिसुवर्णनिक्षेपः, सिन्धनूरुशालिक्षेत्राणि, मुद्गल् दुर्गम्, जलदुर्गम् इत्यादीनि सुन्दराणि स्थलानि सन्ति ।

उपमण्डलानि

रायचूरु, मान्वी, देवदुर्गम्, सिन्धनूरु, लिङ्गसूरु

नद्यः

कृष्णा तुङ्गभद्रा भीमा

क्षेत्राणि

रायचूरु, मान्वी, मुद्गल्, बणलवाड, कल्लूरु सिन्धनूरु छायाभगवती, अमरेश्वरः गाणदाळु कुरवगड्डे, नारदगड्डे, गब्बुरु, सन्नती,कोप्पर, लिङ्गसूरु

१)सन्नती

अत्र (८०० वर्ष प्राचीनः) चन्द्रलापरमेश्वरी देवालयः पूर्वाभिमुखः विशालः अस्ति । देवीं चन्द्रलाम्बां सन्तिहोन्नम्म इति च कथयन्ति । सीतादेव्याः अवताररुपा प्रसन्नवदना इति देवीं कथयन्ति । चालुक्यवंशीयानाम् अधिदेवता चन्द्रलाम्बा भीमानदीतीरे स्थितवती अस्ति । शङ्कराचार्यः अत्र एकस्य श्रीचक्रस्य निर्माणं कृतवान् । सन्नती बैध्दानामपि पवित्रं क्षेत्रमास्ति । अत्र |बौध्दधर्मस्य अवशेषाः, नागायिबौद्धविश्वविद्यानिलयः विद्याकेन्द्राणि च (१२२ शतकीयानि) अत्र आसन् ।

मार्गः

२) कोप्पर

कृष्णानदीतीरे स्थितं महाक्षेत्रम् एतत् । पूर्वं कर्परमहर्षिः अत्र स्थितवान् । कार्परक्षेत्रमिति च क्षेत्रस्य नाम आसीत् । अत्र देवः श्रीनरासिंहः अश्वत्थवृक्षे सालिग्रामरुपेण अस्ति । मूलवृक्षस्य स्फोटानन्तरं षोडशबाहुः श्रीनरसिंहः आयुधसहितः आविर्भूतः अभवत् ।श्रीविजयदासः स्वसुळादिपद्ये क्षेत्रमहिमां स्वयं दृष्टवानिव वर्णितवान् अस्ति । अत्र नदीस्नानं देवपूजादिकं सर्वार्थसाधकं भवति । नवरात्रिसमये अत्र वैभवेण उत्सवः प्रचलति ।

मार्गः

  • देवदुर्गतः १२ कि.मी ।
  • रायचूरुतः ४८ कि.मी ।

बाह्यसम्पर्कतन्तुः


"https://sa.wikipedia.org/w/index.php?title=रायचूरुमण्डलम्&oldid=433188" इत्यस्माद् प्रतिप्राप्तम्