"विकिपीडिया:उल्लेख्यता" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः १: पङ्क्तिः १:
{{subcat guideline|notability guideline|Notability}}
{{subcat guideline|notability guideline|Notability}}
{{nutshell|}}
न खलु विकिपीडिया नाम विश्वकोशः अविवेकतया संगृहीता सूचना अस्ति। कानिचित् विषयस्थानानि विकिपीडियायां भवितुं नार्हन्त्येव। ते विषयास्तु प्रायेण नैजजालस्थलेषु अथवा ब्लाग् इति जालपुटेषु भवितुमर्हन्ति।
न खलु विकिपीडिया नाम विश्वकोशः अविवेकतया संगृहीता सूचना अस्ति। कानिचित् विषयस्थानानि विकिपीडियायां भवितुं नार्हन्त्येव। ते विषयास्तु प्रायेण नैजजालस्थलेषु अथवा ब्लाग् इति जालपुटेषु भवितुमर्हन्ति।



वर्तमाना आवृत्तिः ०६:३७, ७ मे २०१८ इति समये

न खलु विकिपीडिया नाम विश्वकोशः अविवेकतया संगृहीता सूचना अस्ति। कानिचित् विषयस्थानानि विकिपीडियायां भवितुं नार्हन्त्येव। ते विषयास्तु प्रायेण नैजजालस्थलेषु अथवा ब्लाग् इति जालपुटेषु भवितुमर्हन्ति।

अत्र उल्लेख्यतानिर्देशैः ज्ञायते यत् विषयः कश्चित् विकिपीडियायां लेखनार्थम् अनुकूलः स्यात् न वेति।

उल्लेख्यतामधिकृत्य सामान्यनिर्देशाः[सम्पादयतु]

यदि विषयमेकम् अधिकृत्य स्वतन्त्राः विश्वासार्हाश्च स्रोतांसि (ग्रन्थाः, पुस्तकानि, पत्रिकाः इत्यादीनि) उपलभ्यन्ते यत्र सः विषयः महत्त्वं भजते, तदा सः विषयः लेखरचनायै अथवा तालिकायां भवितुम् अर्हति।


  • तद्विषयमधिकृत्य विश्वासार्हाः ते सन्दर्भाः तृतीयपाक्षिकाः स्युः (अर्थात् न आत्मविकत्थनं सन्दर्भो भवति), नोचेत् स विषयः विकिदृष्ट्या उल्लेख्यः न स्यात्।
  • "यत्र सः विषयः महत्त्वं भजते" अर्थात् तेषु सूत्रेषु विषयस्य विस्तरशः चर्चा स्यात्। सः उल्लेखः न तुच्छ उल्लेखः भवेत्, नापि अत्र मुख्यविषयत्वेन सः विषयः एव स्यादिति प्रतिज्ञा।
  • विश्वासार्हेषु स्रोतःसु सम्पादकीय अखण्डता वर्तते। तच्च स्रोतः प्रेक्षितुं शक्यते।
  • स्रोतांसि: स्रोतांसि स्वतन्त्राणि भवेयुः। स्रोतसां प्रकृतिं/गुणवत्तां तथा च उल्लेखस्य गहनताम् अवलम्ब्य एतदपि निश्चीयते यत् स्रोतसां कियती सङ्ख्यां समीचीना। प्रायेण एकाधिकानि स्रोतांसि अपेक्ष्यन्ते। एकस्मादेव लेखकाद् अथवा एकस्यैव संघटनस्य विभिन्नप्रकाशनेभ्यः प्राप्ताः उल्लेखाः अत्र आहत्य एकं स्रोतः इत्येव मन्यते।
  • स्वतन्त्राणि नाम तानि स्रोतांसि ये विषयसम्बन्धिजनेभ्यः नोत्पादितानि। न हि आत्मप्रचारः, विज्ञापनानि वा स्वतन्त्रस्रोतांसि उच्यन्ते।

स्वयंसिद्धा उल्लेख्यता[सम्पादयतु]

केचित् विषयानाम् उल्लेख्यतायै प्रमाणं न इष्यते, यथा:

  • सर्वकाराः, देशाः, राज्यानि, नगराणि, तहसील् इत्येतानि, ग्रामाः इत्येतानि स्थानानि
  • तारकाणि, ग्रहाः, नक्षत्राणि चेत्यादीनि
  • जीवानां प्रजातयः यथा- कवकशैवालाः इत्यादयः।

अनुल्लेख्याः विषयाः[सम्पादयतु]

एषः प्रभागः हिन्दीविकिपीडियायां स्थितात् नीतिपृष्ठात् उद्ध्रियते। परन्तु संस्कृतविकिपीडियायाः भिन्नां प्रकृतिमालक्ष्य कानिचित् परिवर्तनान्यपि विहितानि।
एतादृशाः विषयाः विकिपीडियायाम् अनुल्लेख्याः-

  • "मम सारमेयः लम्बकर्णो नाम": यथा हि लम्बकर्णो नाम भवतः सारमेयो भवेत्। येन द्वित्राः स्थानिकाः कुक्कुरस्पर्धाः जिताः स्युः। एकधा द्विधा वा तस्य सचित्रोल्लेखः नागरे समाचारपत्रेऽपि आगतः स्यात्। भवतः सम्बन्धिनः प्रतिवासिनश्च तं बहु मन्यन्ते नूनं, परन्तु नायं शेषलोके ज्ञायते। अर्थात् नास्मै लम्बकर्णाय एतादृशानि स्रोतांसि (स्वतन्त्राणि विश्वासार्हाणि च) उपलभ्यन्ते यत्रायं विषयः महत्त्वं भजेत। अतो विकिपीडियायै अनुल्लेख्यो लम्बकर्णः। कामं भवतु तस्य लेखनं भवतः ब्लागपुटे अथवा फेस्बुक्-पृष्ठे।
  • "कविः वीथिवीरः": यथा हि वीथिवीरो नाम कश्चित् लघुः स्थानीयः कविः स्यात्, येन द्वित्राः स्थानीयाः पुरस्कारा अपि जिताः स्युः (यथा नेशनल कालेज् इत्यत्र सर्वोत्तम-कवि-अवार्ड् 2006 इति, तथा च कालोनीरत्नसम्मानम् इति)। परन्तु नायं अधुनावधि यावत् अधिको विख्यातः। स्ववीथ्यां सः ख्यातनामा। द्वित्राणां पत्रिकानां पाठका अपि तस्य नाम ज्ञातवन्तः सन्ति। तस्य ब्लागे जनाः तस्य काव्यं प्रशंसितवन्तश्च। परन्तु तस्मात् सीम्नः पश्चात् कदाचित् न तं कोऽपि जानाति। एकं तस्य पुस्तकमपि रामूश्यामू-प्रकाशनेन प्रकाशिताऽस्ति। पुस्तकस्य च पृष्ठावरणे अङ्कितं यत्- "कविवीथिवीरः भारतस्य कविषु प्रसिद्धः" इति। स्रोतोऽयं न विषयात् स्वतन्त्रः वर्तते- एतानि खलु वीथिवीरमहोदयस्यैव पुस्तकस्य वाक्यानि। यदि राष्ट्रियस्तरीयेषु द्वित्रेषु पत्रिकापत्रेषु तदुल्लेखः स्यात् तदा भिन्ना वार्त्ता। अधुनावधि न वीथिवीरकविः विकिपीडियायै उल्लेख्यविषयः। आशास्महे यत् कालेन सः कञ्चित् महान्तं पुरस्कारं जयेत्, बहुख्यातिं च प्राप्नुयात्, तदैव वयं विकिपीडियायां तमधिकृत्य लेखिष्यामः इति।

परन्तु न अनेन एतत् तर्कितव्यं यत् स्वल्पज्ञातं कश्चित् विषयः तेनैव न्यायेन न विकिपीडियायां भवितुम् अर्हति। भवन्ति बहवः विषयाः संस्कृतसंसारे ये नाधुनावधि यावत् बहु प्रचारिताः। तेषां च प्रचारः आवश्यकः। तदा तस्य विषयस्य उल्लेख्यता स्वयंसिद्धा-उल्लेख्यता-न्यायेन सिध्यति। यथा हि कस्यचित् प्राचीनपाण्डुलिपिविषये कदाचित् न बहवः जनाः जानन्ति, परन्तु सा प्राचीनत्वात् एव कदाचित् महत्त्वं भजते। एषा नाम स्वयंसिद्धा उल्लेख्यता।