"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भारतस्य राज्यानि
पृष्ठं रिक्तीकृतम्
अङ्कनम् : रिक्त
पङ्क्तिः १: पङ्क्तिः १:
{{तलं गच्छतु}}

{{Infobox state
<!-- See Template:Infobox settlement for additional fields and descriptions -->
| name = Rajasthan<br>राजस्थानराज्यम्
| native_name =
| native_name_lang =
| type = [[भारतस्य राज्यानि|राज्यम्]]
| image_skyline =
| image_alt = win!
Editing Meghalaya
| image_caption = मुद्रा
| image_seal =
| seal_alt =
| image_map = India Rajasthan locator map.svg
| map_alt =
| map_caption = '''भारते राजस्थानराज्यम्'''
| image_map1 = Rajasthan locator map.svg
| map_caption1 = '''राजस्थानराज्यस्य भूपटः'''
| latd = 26.58
| longd = 92.00
| coor_pinpoint = [[जयपुर]]
| coordinates_type = region:IN-ML_type:adm1st
| coordinates_display = inline,title
| coordinates_footnotes =
| coordinates_region = IN-ML
| subdivision_type = राष्ट्रम्
| subdivision_name = {{flag|भारतम्}}
| established_title = उद्घोषणम्
| established_date = १ नवम्बर १९५६
| parts_type =मण्डलम्
| parts_style = para
| p1 = ३३
| seat_type =राजधानि
| seat = [[जयपुर]]
| seat1_type =
| seat1 =
| government_footnotes =
| leader_title = राज्यपालः
| leader_name = मार्गरेट आल्वा
| leader_title1 = मुख्यमन्त्री
| leader_name1 = अशोकः घेलोट
| leader_title2 =
| leader_name2 =
| leader_title3 =
| leader_name3 =
| leader_title4 =
| leader_name4 =
| unit_pref = Metric<!-- or US or UK -->
| area_footnotes =
| area_total_km2 = ३४२२३९
| area_note =
| area_rank = १म
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = ६८६२१०११२
| population_as_of = २०११
| population_rank = ८म
| population_density_km2 = auto
| population_note =
| timezone1 = भारतीय कालगणनम्
| utc_offset1 = +05:30
| iso_code =
| blank_name_sec2 = साक्षरतापरिमाणम्
| blank_info_sec2 = ६८% (१५तम)
| blank1_name_sec2 = भाषा
| blank1_info_sec2 = [[हिन्दीभाषा]], [[राजस्थानी]], मारवाडी
| website = http://rajasthan.gov.in
| footnotes =
}}

'''राजस्थानराज्यं''' ({{lang-hi|राजस्थान}}, {{lang-en|Rajasthan}}) [[भारतम्|भारतस्‍य]] विशालतमं राज्यम् अस्ति । इदं [[भारतम्|भारतस्य]] पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं {{formatnum:३४२२३९}} वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव [[मौण्ट् अबु]], [[दिल्वारा]] इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । [[रणथम्बोर]], [[सारिस्का मृगधाम]], [[भरतपुरपक्षिधाम]] इत्यादीनि राज्यस्यास्य प्रसिद्धानि वीक्षणीयस्थलानि । राज्येऽस्मिन् बहूनि पक्षिसंरक्षणाकेन्द्राणि सन्ति । तेषु संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।

==प्राचीनेतिहासः==
राजस्थानस्य प्रमुखभागेषु प्राक् मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन् । [[गुजरातराज्यम्|गुजरातराज्यं]] तथा राजस्थानस्य अधिकभागः 'गुर्जरात्र/गुज्जर'-नामकैः गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि यावत् गुर्जरशासकाः उत्तरभारतं यवनशासकेभ्यः रक्षितवन्तः आसन् । तदनन्तरं रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनम् आरब्धवन्तः । वंशस्य अथवा प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । भूगोलस्य दृष्ट्याऽपि प्रदेशानां नामानि स्थापयन्ति स्म रजपूताः । [[उदयपुरम्|उदयपुरं]], डुङ्गरपुर, बांसवाडा, प्रतापगढ, [[जोधपुरम्|जोधपुरं]], [[बीकानेर]], किशनगढ, सिरोही, [[कोटा]], बून्दी, [[जयपुरम्]], [[अलवर]], [[भरतपुरम्|भरतपुरं]], करौली, झालावाड, टोङ्क च तेषां संस्थानानि आसन् । 'ब्रिटिष्' शासनकाले राजस्थानस्य 'राजपूताना' इति नाम आसीत् । वंशभूषणः, असाधारणः देशभक्तः '''[[महाराणा प्रतापसिंहः]]''' स्वपराक्रमेण विश्वेऽस्मिन् प्रसिद्धः अभूत् । राजस्थानराज्यं [[भारतम्|भारतस्य]] महत्वपूर्णं राज्यमित्यत्र न कश्चन संशयः । अधीनराजानां शासने विद्यमानानां प्रान्तानां विलीनेन ३० मार्च १९४९ तमे संवत्सरे [[भारतम्|भारतस्य]] राज्यत्वेन अस्य राज्यस्य उद्घोषणं कृतम् । राजस्थानपदस्य राज्ञां स्थानम् इति विग्रहः, कुतश्चेत् अस्मिन् राज्ये 'गुर्जरात्र/गुज्जर, राजपूत, मौर्य तथा झाट'-वंशीयाः राजानः राज्यभारं कृतवन्तः आसन् ।

==भूगोलम्==
राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति । अस्य राज्यस्य उत्तरे [[पाकिस्तानम्|पाकिस्तानदेशः]], [[पञ्जाबराज्यम्|पञ्जाबराज्यं]], [[हरियाणाराज्यम्|हरियाणाराज्यञ्च]] अस्ति । दक्षिणे [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]], [[गुजरातराज्यम्|गुजरातराज्यञ्च]] अस्ति । पूर्वे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशः]], [[मध्यप्रदेशराज्यम्|मध्यप्रदेशश्च]] अस्ति । पश्चिमे [[पाकिस्तानम्|पाकिस्तानदेशः]] अस्ति । सिरोही-तः आलवार गमनमार्गे ४८० कि. मी. विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकृतिकदृष्ट्या एतत् राज्यं विभाजति । पूर्वस्मिन् भागे रसवद्भूमिः विद्यते । अस्मिन् भागे प्रायः ५० से. मी. तः ९० से. मी. वृष्टिः भवति । माहीनद्याः चम्बल-जलबन्धस्य निर्माणानन्तरं विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते । कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति । अस्मिन् भागे ताम्रं, सतु, 'मैका', फेनकशिला, अन्ये च खनिजाः लभ्यन्ते । राज्यस्य पश्चिमभागे विद्यमाना 'थार' मरुभूमिः समग्रे [[भारतम्|भारते]] विशालतमा मरुभूमिः अस्ति । अस्मिन् भागे १२ से. मी. तः ३० से. मी. वृष्टिः भवति । अस्मिन् भागे लूनी, बाण्ड्यादिनद्यः प्रवहन्ति । राज्येऽस्मिन् ३.४२ लक्षवर्ग कि. मी. परिमिता भूमिः अस्ति । [[भारतम्|भारतस्य]] बृहत्तमं राज्यम् इदम् ।

==मण्डलनि==
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।
* [[अजमेरमण्डलम्]]
* [[अलवरमण्डलम्]]
* [[उदयपुरमण्डलम्]]
* [[करौलीमण्डलम्]]
* [[कोटामण्डलम्]]
* [[चित्तौडगढमण्डलम्]]
* [[चुरूमण्डलम्]]
* [[जयपुरमण्डलम्]]
* [[जालौरमण्डलम्]]
* [[जैसलमेरमण्डलम्]]
* [[जोधपुरमण्डलम्]]
* [[झालावाडमण्डलम्]]
* [[झुञ्झुनुमण्डलम्]]
* [[टोङ्कमण्डलम्]]
* [[डुङ्गरपुरमण्डलम्]]
* [[दौसामण्डलम्]]
* [[धौलपुरमण्डलम्]]
* [[नागौरमण्डलम्]]
* [[पालीमण्डलम्]]
* [[प्रतापगढमण्डलम् (राजस्थानम्)]]
* [[बाडमेरमण्डलम्]]
* [[बारामण्डलम्]]
* [[बांसवाडामण्डलम्]]
* [[बीकानेरमण्डलम्]]
* [[बून्दीमण्डलम्]]
* [[भरतपुरमण्डलम्]]
* [[भीलवाडामण्डलम्]]
* [[राजसमन्दमण्डलम्]]
* [[श्रीगङ्गानगरमण्डलम्]]
* [[सवाई माधोपुरमण्डलम्]]
* [[सीकरमण्डलम्]]
* [[सिरोहीमण्डलम्]]
* [[हनुमानगढमण्डलम्]]

==प्रसिद्धानि नगराणि==

===[[जयपुर]]===
[[चित्रम्:Hawa Mahal 2011.jpg|thumb|'''हवा महल्''']]
* राजस्थानराज्यस्य राजधानी ।
* पाटलनगरम् (Pink city) इत्येव प्रसिद्धम् ।
* नगरेऽस्मिन् सुन्दराः प्रासादाः, दुर्गाः, सरोवराश्च सन्ति ।
* नगरस्य प्रासादः 'मोघल' तथा राजस्थानयोः वास्तुशैल्या निर्मितोऽस्ति ।
* '''हवामहल्''' सा.श. १७९९ तमे संवत्सरे 'सवायी प्रतापसिंह'नामकस्य नृपस्य शासनकाले निर्मतम् आसीत् । वास्तुशिल्पकारस्तु 'लाल चन्द उस्व' ।
* '''अम्बर'''-दुर्गे अनेकानि सुन्दराणि मन्दिराणि सन्ति, एकं विशालं सुन्दरोद्यानञ्च वर्तते ।
* अस्मिन्नेव नगरे सा.श. १८७६ तमे संवत्सरे सर्वकारस्य वस्तुसङ्ग्रहालयः संस्थापितः । आभरणानि, काष्ठैः निर्मितानि वस्तूनि, शस्त्राणि, चित्राणि, वस्त्राणि च सङ्ग्रहालयेऽस्मिन् सन्ति ।
* '''जलमहल्''' इत्येतत् एकस्य सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः ।
* कनकवृन्दावनं जनप्रियं विहारस्थानमस्ति ।

===[[भरतपुर]]===
* राजस्थानस्य पूर्वदिशः प्रवेशमार्गः अस्ति [[भरतपुरम्]] ।
* '''[[केवलदेवराष्ट्रियोद्यानम्]]''' अस्ति अत्र । इदम् उद्यानं सुप्रसिद्धं पक्षिधाम अपि ।
* '''लोहदुर्गः''' (लोहगढ) [[भरतपुरम्|भरतपुरस्य]] सुप्रसिद्धः दुर्गः अस्ति । 'ऐरन् फोर्ट्' इति आङ्ग्लभाषायाम् अस्य प्रसिद्धिः ।
* [[भरतपुरम्|भरतपुरस्य]] वस्तुसङ्ग्रहालयः स्वप्रदेशीयवीराणां शौर्यं स्फुटीकरोति ।
* [[भरतपुरम्|भरतपुरस्य]] वस्तुसङ्ग्रहालयस्य समीपे सुन्दरं '''नेहरू उद्यानम्''' अस्ति ।
* 'डीग'प्रासादः सुन्दरः, बृहत्तमः च अस्ति । प्रागिदं राज्ञां ग्रीष्मकालीनम् आवासस्थलम् आसीत् ।

===[[जोधपुर]]===
* राजस्थानस्य पश्चिमभागे विद्यमानम् इदं नगरं राज्ये द्वितीयं बृहत्तमं नगरमस्ति । नगरस्थसुन्दरदुर्गः, मन्दिराणि च यात्रिकान् मोहयन्ति ।
* सुप्रसिद्धेषु भारतीयदुर्गेषु '''मेहरानगढ'''-दुर्गः अन्यतमः । अस्य दुर्गस्य अन्तः '''मोतीमहल्''', '''फूलमहल्''', '''शीशमहल्''' च सन्ति । अस्मिन्नेव दुर्गे कश्चन वस्तुसङ्ग्रहालयोऽपि अस्ति । अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानि च सन्ति ।
* '''उम्मेदभवन'''-प्रासादः प्रसिद्धः, सुन्दरश्च विद्यते ।
* 'बालसमन्द सरोवरः' विहाराय उत्तमं स्थलमस्ति ।
* 'मारवाड' इति कश्चन प्रमुखः उत्सवः भवति । 'अक्टोबर'-मासे अयम् उत्सवः आचर्यते ।
* 'अक्टोबर'-मासादारभ्य 'मार्च'-मासाभ्यान्तरं राज्येऽस्मिन् पर्यटनार्थं योग्यः कालः ।

==अन्‍यानि नगराणि==

* [[उदयपुर]]

* [[बीकानेर]]

* [[कोटा]]

* [[चित्तौड]]

* [[जोधपुर]]

* [[जैसलमेर]]

* राजधानी - [[जयपुर]]

==शिक्षणसंस्थाः==
* राजस्थानविश्वविद्यालयः
* राजस्थानतान्त्रिकविश्वविद्यालयः
* राजस्थानकेन्द्रीयविश्वविद्यालयः
* राष्ट्रियसंस्कृतसंस्थानम्, जयपुर
* मोदी प्रौद्योगिकी तथा विज्ञानसंस्थानम्, लक्ष्मणगढ (मानितविश्वविद्यालयः)
* वनस्थलीविद्यापीठम् (मानितविश्विविद्यालयः)
* बिरला प्रौद्योगिकी एवं विज्ञानसंस्थानम्, पिलानी (मानितविश्वविद्यालयः)
* जैन विश्वभारती विश्ववविद्यालयः (मानितविश्वाविद्यालयः)
* एल. एन. एम. सूचना प्रौद्योगिकी संस्थानम् (मानितविश्ववविद्यालयः)
* मालवीयराष्ट्रियप्रौद्योगिकीसंस्थानम् (मानितविश्ववविद्यालयः)
* मोहनलाल सुखाडिया विश्वपविद्यालयः
* राष्ट्रियविधिविश्वविद्यालयः
* राजस्थानकृषिविश्वविद्यालयः
* राजस्थान आयुर्वेदविश्वविद्यालयः
* जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः
* बीकानेर विश्वविद्यालयः
* कोटा विश्वविद्यालयः

{{राजस्थानराज्यस्य मुख्यमन्त्रिणः}}
{{राजस्थानराज्यस्य राज्यपालाः}}
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
==वीथिका==
<gallery>
चित्रम्:Chittorgarh Fort.jpg
चित्रम्:Mehrangarh Fort.jpg
चित्रम्:Maharaja Hemu Bhargava - Victor of Twenty Two Pitched Battles, 1910s.jpg
चित्रम्:Désert-du-Thar.jpg
चित्रम्:Aravalli.jpg
चित्रम्:View from Jaigarh Fort, Rajasthan, India - 20061001.jpg
चित्रम्:Lake_of_Pushkar_Ajmer.jpg
चित्रम्:UmaidBhawan Exterior 1.jpg
चित्रम्:Worshippers leaving the temple in Ranakpur.jpg
चित्रम्:Thar Khuri.jpg
</gallery>

==बाह्यसम्पर्कतन्तुः==
*[http://www.marwadis.com/rajasthan Rajasthan on Marwadis.com]
* {{dmoz|Regional/Asia/India/Rajasthan/}}
* {{wikivoyage|Rajasthan}}
[[वर्गः:भारतस्य राज्यानि]]

{{शिखरं गच्छतु}}

११:१४, २ आगस्ट् २०२० इत्यस्य संस्करणं

"https://sa.wikipedia.org/w/index.php?title=राजस्थानराज्यम्&oldid=453651" इत्यस्माद् प्रतिप्राप्तम्