"जगद्धात्रीपूजा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
==जगद्धात्री== जगत् धरति इति जगद्धात्री । एषा दे... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ४: पङ्क्तिः ४:
==कथा==
==कथा==


दुर्गादेव्याः सृष्टेः अनन्तरं इन्द्रवरुणवायुदेवाः स्वयं महत्शक्तियुक्ताः इति चिन्तितवन्तः । सर्वशक्तिवन्तः वयं यत्किमपि कर्तुं शक्नुयाम इति तेषां मनसि भावः उत्पन्नः । एवं ते सर्वेषां शक्तिप्रदायिनीं शक्तिं विस्मृतवन्तः । अतः आदिशक्तिः पार्वतीदेवी तेषां परीक्षणार्थं मायारूपं धृत्वा तेषां पुरतः एकं कुशं सृष्ट्वा उक्तवती – हे देवाः ! एतं कुशं स्वीक्रियन्ताम् । एतत् वाक्यं श्रुत्वा सर्वे देवाः हसितवन्तः । इन्द्रः कुशं आनयतु इति वायुम् आदिष्टवान् । महतः परिश्रमस्य अनन्तरमपि सः विफलः जातः । एवं सर्वे अपि विफलाः । तदा पार्वतीदेवी प्रत्यक्षीभूय अवदत् – “अस्य जगतः प्रत्येकशक्तिः अहमस्मि । सम्पर्णजगतः शक्तिः अहमेव ।“ इति । सर्वे देवाः स्वस्य दोषान् अवगतवन्तः । तदा देवी तेषां पुरतः उमादेवी भूत्वा सिंहस्य उपरि आगतवती । देवानाम् अहङ्कारः गजरूपं गृहीतम् । अतः गजस्य उपरि सिंहासनस्था जगद्धात्री पूज्यते ।
दुर्गादेव्याः सृष्टेः अनन्तरं इन्द्रवरुणवायुदेवाः स्वयं महत्शक्तियुक्ताः इति चिन्तितवन्तः । सर्वशक्तिवन्तः वयं यत्किमपि कर्तुं शक्नुयाम इति तेषां मनसि भावः उत्पन्नः । एवं ते सर्वेषां शक्तिप्रदायिनीं शक्तिं विस्मृतवन्तः । अतः आदिशक्तिः पार्वतीदेवी तेषां परीक्षणार्थं मायारूपं धृत्वा तेषां पुरतः एकं कुशं सृष्ट्वा उक्तवती – "हे देवाः ! एतं कुशं स्वीक्रियन्ताम् ।" एतत् वाक्यं श्रुत्वा सर्वे देवाः हसितवन्तः । इन्द्रः कुशं आनयतु इति वायुम् आदिष्टवान् । महतः परिश्रमस्य अनन्तरमपि सः विफलः जातः । एवं सर्वे अपि विफलाः । तदा पार्वतीदेवी प्रत्यक्षीभूय अवदत् – "अस्य जगतः प्रत्येकशक्तिः अहमस्मि । सम्पर्णजगतः शक्तिः अहमेव ।" इति । सर्वे देवाः स्वस्य दोषान् अवगतवन्तः । तदा देवी तेषां पुरतः उमादेवी भूत्वा सिंहस्य उपरि आगतवती । देवानाम् अहङ्कारः गजरूपं गृहीतम् । अतः गजस्य उपरि सिंहासनस्था जगद्धात्री पूज्यते ।


==जगद्धात्रीपूजा==
==जगद्धात्रीपूजा==

०९:४८, ६ डिसेम्बर् २०२० इत्यस्य संस्करणं

जगद्धात्री

जगत् धरति इति जगद्धात्री । एषा देवता हिन्दूदेवतायाः पार्वत्याः अंशः इति परिगण्यते । इयं देवता भारतदेशस्य पश्चिमवङ्गे ओडिशायां च पूज्यते । एतस्याः आराधना पूजाविधयः च तन्त्रशास्त्रस्य अनुगुणं वर्तते यतोहि एषा सत्त्वगुणस्य प्रतीका इति अनुमन्यते । एवमेव दुर्गा रजोगुणस्य काली तमोगुणस्य प्रतीके स्तः ।

कथा

दुर्गादेव्याः सृष्टेः अनन्तरं इन्द्रवरुणवायुदेवाः स्वयं महत्शक्तियुक्ताः इति चिन्तितवन्तः । सर्वशक्तिवन्तः वयं यत्किमपि कर्तुं शक्नुयाम इति तेषां मनसि भावः उत्पन्नः । एवं ते सर्वेषां शक्तिप्रदायिनीं शक्तिं विस्मृतवन्तः । अतः आदिशक्तिः पार्वतीदेवी तेषां परीक्षणार्थं मायारूपं धृत्वा तेषां पुरतः एकं कुशं सृष्ट्वा उक्तवती – "हे देवाः ! एतं कुशं स्वीक्रियन्ताम् ।" एतत् वाक्यं श्रुत्वा सर्वे देवाः हसितवन्तः । इन्द्रः कुशं आनयतु इति वायुम् आदिष्टवान् । महतः परिश्रमस्य अनन्तरमपि सः विफलः जातः । एवं सर्वे अपि विफलाः । तदा पार्वतीदेवी प्रत्यक्षीभूय अवदत् – "अस्य जगतः प्रत्येकशक्तिः अहमस्मि । सम्पर्णजगतः शक्तिः अहमेव ।" इति । सर्वे देवाः स्वस्य दोषान् अवगतवन्तः । तदा देवी तेषां पुरतः उमादेवी भूत्वा सिंहस्य उपरि आगतवती । देवानाम् अहङ्कारः गजरूपं गृहीतम् । अतः गजस्य उपरि सिंहासनस्था जगद्धात्री पूज्यते ।

जगद्धात्रीपूजा

भारतदेशे प्रथमतया जगद्धात्री पूजायाः अनुष्ठानं वङ्गराज्यस्य राजा कृष्णचन्द्रेण कृतम् । सः नादिया जिल्लायाः कृष्णनगरस्य राजा आसीत् । जगद्धात्री पूजा बहुषु स्थानेषु प्रसिद्धा अस्ति । नादियायाः कृष्णनगरस्य राजराजेश्वरीजगद्धात्री पूजा वङ्गराज्यस्य एव अतीवपुरातनी पूजा वर्तते । पुरातनकाले यदा नवाब् शासनमासीत् तदा करं न दत्तवान् इति कारणात् नवाब् सिराज्-उद्-दुल्लाहस्य आदेशेन कृष्णचन्द्रः कारागारे बद्धः अभवत् । विजयदशमी दिने कारागारात् तस्य विमोचनम् अभवत् । अतः एतस्य आचरणार्थम् एषा पूजा पुनः आरब्धा ।

"https://sa.wikipedia.org/w/index.php?title=जगद्धात्रीपूजा&oldid=456757" इत्यस्माद् प्रतिप्राप्तम्