"आदिशङ्कराचार्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) robot Adding: en, mr, ne, th Modifying: hi
(लघु) r2.7.1) (robot Removing: hu:Sankara
पङ्क्तिः ३९: पङ्क्तिः ३९:
[[he:שנקרה]]
[[he:שנקרה]]
[[hi:आदि शङ्कराचार्य]]
[[hi:आदि शङ्कराचार्य]]
[[hu:Sankara]]
[[it:Adi Shankara]]
[[it:Adi Shankara]]
[[ja:シャンカラ]]
[[ja:シャンカラ]]

१२:०९, १५ जनवरी २०११ इत्यस्य संस्करणं

Shankaracharya with disciples, Painting by Raja Ravi Varma.

शङ्कराचार्यः (मलयाळम्: ശങ്കരാചാര്യൻ,शङ्कराचार्यन्) (क्रिस्त्वब्दम् 788 - क्रिस्त्वब्दम् 820), यस्यान्ये अभिधाने शङ्कर भगवत्पादाचार्यः तथा च आदि शङ्कराचार्यः इति, एकः भारतीयः दार्शनिकः आसीत्, येन अद्वैतवेदांतस्य सिद्धांतः दृढतया स्थापितमासीत् । अद्वैतवेदांतस्तु वेदांतस्य प्रभावकारितमः उपसंप्रदायः वर्तते । तस्य शिक्षाः जीवस्यब्रह्मणः च एकतायां आधृताः सन्ति । तस्मन्नपि ब्रह्म तु निर्गुणं ब्रह्म इति ।

शङ्करः समग्रभारतवर्षस्य यात्रां कृतवान्, स्वकीयं दर्शनं प्रवचनेभ्यः अपि शास्त्रार्थेभ्यः प्रसारितवाँश्च । सः दशनामी इति अद्वैतसंप्रदायस्य संघटनकर्ता मन्यते, तथा च षण्मत इति पूजनपरंपरायाः संस्थापकः मन्यते ।

संस्कृतेन रचिताः तस्य कृतयः, याः सर्वाः अपि अद्यापि प्राप्याः, अद्वैतवेदांतसिद्धांतस्थापनाविषयकाः सन्ति । सः उपनिषद्ब्रह्मसूत्रसम्मतस्य संन्यासस्य महत्तामपि स्थापितवान्, यस्मिन् काले मीमांसा संप्रदायेन दृढं कर्मकांडं स्थापितमासीत् संन्यासं च निंदितमासीत् । शंकरः ब्रह्मविषये संदर्भार्थं पूर्णतया उपनिषदः प्रमाणत्वेन अमन्यत्, तथा च ब्रह्मसूत्रे, उपनिषत्सु, भगवद्गीतायां च दीर्घाणि भाष्यणि रचितवान् स्वमतं च पुष्टीकृतवान् । तस्य कृतीषु प्रमुखः प्रतिद्वंद्वी मीमांसासंप्रदायः वर्तते, यद्यपि तेन अन्यान् संप्रदायान् विरूध्य अपि काश्चित् तर्काः प्रस्तुताः यथा सांख्यम्, बौद्धवादस्य केचित् संप्रदायाश्च ।

चरितम्

केरळेषु चूर्णीनद्यास्तीरे विद्यमाने कालटि ग्रामे स जज्ञे । सस्य शैशवे एव पिता महाभागवतः शिवगुरुः दिवं प्रपेदे । अतः माता आर्यादेवी रक्षाधुरं वहन्ती शिशुं पोष्यामास । असाधारणया मेधाशक्त्या स बालः सर्वान् अत्यवर्तत । पञ्चमे वयसि उपनीतः साङ्गान् वेदान् अधीते स्म । संन्यासी स्यामिति शिशोरपि तस्य उत्कटः अभिलाषः उद्भूत् । परन्तु, माता नान्वमोदत ॥

एकस्मिन् दिने मात्रा सह चूर्णि प्राप्य स्नानाय अवतीर्णं कोऽपि ग्राहः पदे जग्राह । निनाय च नदीमध्यम् । तदवलोक्य तारं क्रन्दन्ती मातरं स ऊचे । "यदि सन्यासानुज्ञां मे दास्यसि तर्हि नूनं ग्राहो मोक्ष्यति" इति । पुत्रं जीवन्तमिच्छन्ति सा कथञ्चित् अनुमेने । अहो! झतिति ग्राहशिशुं तीरोपकण्ठमानीय अमुञ्चत् । शङ्करस्य संन्यासः ईश्वराभिमत इति अनेन आश्च्हर्यवृत्तेन माता निश्चिनोति स्म ॥

अथ विळम्बं विनैव स प्रव्रजितुं निरणौषीत् । "यदा मां स्मरिष्यसि, तदा त्वामुपास्थास्यामि" इति प्रतिश्रुत्य मातरं समाश्वासयन् गृहान्निरगाच्च ॥

स देशद्देशं परिक्रममाणः नर्मदारोधसि स्थितं गौडपादाशिष्यं गोविन्दगुरुं प्रपेदे । परावरज्ञात् तस्मात् सकलाः विद्याः संन्यसञ्च जग्राह । तदनु तस्य गुरोः आज्ञया उपनिषदां ब्रह्मसूत्राणां गीतायाश्च भाष्याणि निर्ममे । अन्यानपि बगून् ग्रन्थान् निबबन्ध । तदनु गुरुणा अनुज्ञातः गौडपादेन चानुमोदितः केश्चन कुतार्किकैः कदर्थितं श्रौतं मतं सुप्रतिष्ठां नेतुं प्रायतत । देशे देशे पर्यटन् तेषां विपक्षाणाम् वादान् तिलशः खण्डयअमास । वैदिकमद्वैतमतं सुदृढं समर्थयामास च । तत्र तत्रानेके शिष्याश्च तस्याभूवन् ॥

अनन्तरं स्वेन समर्थितं मतं प्रचारयन् शिष्यैः सह कण्चन कालं श्रीकाशीमध्युवास । तस्य यशः दिक्षु विदिक्षु च विससार । अस्मिन् अवसरे गयायामासन्नमृत्योः कुमारिलभट्टस्य च्होदनाय अयमाचार्यः माहिष्मतीमेत्य मीमेआंसकानामग्रगण्यं मण्डनमिश्रं वादभिक्षामयाचत । याच्हनामौसृत्य मिश्रः वादाय सज्जः अभवत् । तेन सह दीर्घदीर्घाः वादाः प्रावर्तन्त । अन्ते आच्हार्यः मिश्रं जिगाय । निर्जतो मिश्रः सबगुमानं सभक्तिकञ्च आचार्यस्य सिष्यतां वव्रे । स एव सुरेश्वराचार्य इति प्रख्यायते ॥

एवमद्वैतमते जगति सुप्रतिष्ठां नीते आचार्यः बदरिकाश्रमम् गत्वा नारायणं समाराध्य तत्र कञ्चन मठं स्थापयामास । तथैव पश्चिमतः द्वारकायां, पूर्वतः जगन्नाथेम दक्षिणतः शृङ्गगिरौ तुङ्गायास्तीरे च । तेषु चतुर्षु मठेषु यथाक्रमम् स्वशिष्यान् तोटकं, हस्ताकलकं, पद्मपादम्, सुरेश्वरञ्च अदिपतीयवास्थापयत् । उपनिषदां सम्मतस्य अद्वैतमतस्य रक्षणे पोषणे च तानादिदेश च ॥

अत्रान्तरे आतुरया मात्रा स्मृतः योगप्रभावात् तस्याः पुरस्तादाविरासीत् । उचिताभिः परिच्हर्याभिस्तां प्रातोषयत् । प्रत्यासन्नायां तस्याः प्राणानामुत्क्रान्तौ नूतनाभिः नूतिभिः प्रसादितदैवतेस्तामनुगृहीतां सुगतिञ्च वितेने । पारत्रिकाणिकृत्यानि च यथाविधि वितेने ॥

अथ स्वकृत्यं सर्वं कृतं मन्यमानः स काश्मीरदेशं प्रययौ । तत्र महाजनानां मनोरथं मानयन् सर्वज्ञपीठमधिष्ठानेन भूषयामास । तदनु हिमालयस्थां दत्तत्रेयगृगां जगाहे । ततस्सत्ये शिवे शश्वते पदे तिरोदधे च ॥


आदि शङ्कराचार्य

फलकम्:हिन्दू धर्म

"https://sa.wikipedia.org/w/index.php?title=आदिशङ्कराचार्यः&oldid=99592" इत्यस्माद् प्रतिप्राप्तम्