विश्पला
विश्पला ( ( शृणु) /ˈvɪʃpəlɑː/) (हिन्दी: विश्पला,आङ्ग्ल: Vishpala) वैदिककालीना वीराङ्गना आसीत् । ऋग्वेदे विश्पलायाः वर्णनं प्राप्यते । “विशः पालयतीति विश्पला” अर्थात् या प्रजायाः रक्षणम् करोति पालयति च सा विश्पला इति कथ्यते [१]। यतः सा युद्धनीतिं श्रेष्ठतया जानाति स्म । अतः युद्धेषु सा पत्युः साहाय्यं करोति स्म ।
परिचयः
[सम्पादयतु]विश्पला वैदिककालस्य वीराङ्गना आसीत् । सा सुन्दरी, बुद्धिमतिः च आसीत् । तस्य विवाहः खेल-नामकेन राज्ञा सह अभवत् ।
खेल-इत्याख्यस्य राज्यं लघुः असीत् । किन्तु अन्येषां राज्यानाम् अपेक्षया धनसम्पन्नम् आसीत् । सर्वदा समीपस्थैः राज्यैः सह तस्य युद्धं भवति स्म । राज्यस्य समीपे शतद्रु-नामिका नदी आसीत् । तस्याः नद्याः जलेन एव सर्वेषु राज्येषु कृषिः क्रियते स्म । अतः सर्वे तस्याः नद्याः जलस्य अधिकाधिकम् उपयोगं कुर्वन्ति स्म । तेन कारणेन युद्धानि भवन्ति स्म । यतः यदि केनचिद् राज्येन कस्यचित् राज्यस्य जलम् अवरुद्ध्यते स्म, तर्हि तस्मिन् राज्ये जलस्याभावे समस्याः समुद्भवन्ति स्म । अतः जलाय परस्परं युद्धं भवति स्म । शनैः शनैः इदं युद्धं तीव्रं जातम् [२]।
विश्पलायाः अपमानम्
[सम्पादयतु]यदा खेल-इत्याख्यस्य विवाहः विश्पलया सह अभवत्, तदा सः जलापूर्तेः समस्यां विस्मृतवान् आसीत् । अतः प्रतिवेशिभिः राजभिः जलम् अवरोधितम् । येन कारणेन जलस्य अन्तिमसिंचनस्य अभावेन कृषिः जर्जरी जाता । प्रजाजनाः दुःखिनः आसन् । जनाः राज्ञे, राज्ञ्यै च क्षुभिताः अभवन् । खेल-राज्ञा प्रतिवेशिनः राज्ञः अवबोधयितुं महत्प्रयासाः कृताः । किन्तु तैः राजभिः खेल-राज्ञः अपमानः कृतः आसीत् । राजा अपि दुःखी आसीत् । अन्ते राज्ञा प्रतिवेशिषु राजसु आक्रमणं कृतम् आसीत् । किन्तु खेल-इत्याख्यस्य दौर्भाग्यम् आसीत् यत् – “द्वौ प्रतिवेशिनौ राजानौ मित्रे अभवताम्” । तेन कारणेन राजा पराजितः जातः ।
खेल-राज्ञः राज्ये सर्वत्र निराशाजनकं वातावरणम् अभवत् । सर्वे मनसि विचारयन्ति स्म यत् – “यावत् विश्पला राज्ञी आगतवती, तावदेव राज्ये समस्याः उद्भवन्त्यः सन्ति । दरिद्रमयं राज्यम् अभवत् । राजा युद्धे पराजितः अभवत् । जनाः बुभुक्षया पीडिताः सन्ति” इति । सर्वे प्रजाजनाः विश्पलां कुलक्षिणी इति कथ्यन्ते स्म । सर्वत्र विश्पलायाः अपमानः भवति स्म । अनेन अपमानेन त्रस्ता राज्ञी विश्पला मानसिकरोगेण पीडिता अभवत् । तदपमानं राज्ञ्यै विश्पलायै असह्यम् आसीत् । “एतेषु कारणेषु विश्पलायाः को दोषः वर्तते ” इति सा स्वयम् अपि न जानाति स्म [३]।
अगस्त्यविश्पलयोः संवादः
[सम्पादयतु]अगस्त्यर्षिः खेल-राज्ञः गुरुः आसीत् । अतः विश्पलया स्वस्याः व्यथाम् अगस्त्यर्षिः श्रावितः । तया विस्तारपूर्वकं स्वस्याः असह्यवेदना श्राविता । विश्पलया अगस्त्याय युद्धविषयकाः प्रश्नाः पृष्टाः । युद्धनीतेः ज्ञानं दृष्ट्वा अगस्त्यर्षिः आश्चर्यचकितः जातः । अगस्त्यर्षेः मनसि विश्पलायै सम्माननं, सहानुभूतिश्च अभवत् । अतः अगस्त्यर्षिणा विश्पलायै सान्त्वना प्रदत्ता यत् – “भवती खेल-राज्ञः पराजयस्य कारणं नास्ति । यतः भवती कुलक्षिणी नास्ति । शकुनम् , अपशकुनं, कुलक्षिणी, सुलक्षिणी इत्यादयः जनानां मानसिकिकल्पनाः भवन्ति । मनुष्यः स्वस्य दोषान् आच्छादयितुम् एतासां कल्पनानाम् उपयोगं करोति” ।
अगस्त्यर्षिः विश्पलायाः युद्धशास्त्रज्ञानेन अत्यन्तः प्रभावितः आसीत् । अतः तेन विश्पला पृष्टा यत् – “भवती युद्धशास्त्रं कुत्र अधीतवती” । तदा विश्पलया स्वाभिमानेन उक्तं यत् – मम पिता एव शस्त्रं शास्त्रं च पाठितवान् । मम सर्वाः भगिन्यः अपि युद्धशास्त्रं जानन्ति” । अनन्तरं पत्युः उचितमार्गदर्शनाय अगस्त्यर्षिं सम्प्रार्थ्य विश्पला ततः प्रस्थितवती [३]।
समाधानाय प्रयासः
[सम्पादयतु]जलाद् अन्नसम्भवम् इति निश्चितम् अस्ति । विश्पलायाः युद्धशास्त्रज्ञानेन प्रभावितः अगस्त्यमुनिः खेल-राजानम् अवबोधितवान् यत् – “प्रतिवेशिभिः राजभिः सह समाधानं करोतु” इति । अगस्त्यर्षिः अपि स्वयं खेल-राज्ञा सह समाधानं कर्तुं गतवान् आसीत् । सर्वत्र अगस्त्यमुनेः क्रोधः व्यापितः आसीत् । अगस्त्यमुनेः वैयक्तिकी सेना अपि आसीत् । यदा खेल-अगस्त्यौ समाधानं कुर्वन् गतवन्तौ आस्ताम्, तदा उन्मत्तप्रतिवेशिभिः समाधानम् अस्वीकृतम् । तैः अभिमानवशात् अगस्त्यस्य कथनम् अपि अस्वीकृतम् ।
नकारात्मकप्रत्युत्तरेण अगस्त्यः क्रुद्धः अभवत्, उक्तवान् च – “मम सेना भवतां सर्वनाशं कर्तुं समर्था अस्ति इति भवन्तः सर्वे जानन्ति । खेल-राज्ञा सह भवन्तः शत्रुता अस्ति । प्रजाजनाः दोषहीनाः सन्ति । नदीनां जले सर्वेषाम् अधिकारः समानः एव भवति” इति । अगस्त्यर्षेः वर्चांसि श्रुत्वा सर्वे राजानः शान्ताः अभवन् । अनन्तरं प्रतिवेशिनः सर्वे राजानः अगस्त्यमुनेः सम्माननं कृर्वन्तः आसन् । यतः ते भयभीताः आसन् ।
राजभिः अवरुद्धं जलं मुक्तं कृतम् । ततः परं खेल-राज्ञः राज्ये जनाः जलं प्राप्तवन्तः । किन्तु खेल-राजा विचारयति स्म यत् – “तज्जलेन क्षुधायाः, अन्नस्य च समाधानं भवितुं न शक्नोति । तेन जलेन केवलम् अग्रिमवर्षस्य सस्यानां कृषिः भवितुं शक्यते । यावत् पर्यन्तं तानि सस्यानि उद्भविष्यन्ति, तावत् पर्यन्तं जनाः किं खादिष्यन्ति ? इति । राजा चिन्ताग्रस्तः अभवत् [४]।
विश्पलाबलेः विचारः
[सम्पादयतु]राजा चिन्ताग्रस्तः आसीत् । अतः तस्य मनसि विचारः आगतः यत् – “कदाचित् ग्राम्यदेवाः रुष्टाः भवेयुः” । अतः खेल-राज्ञा राजमातृभिः सह विचारणां कृत्वा तान्त्रिकाः आवाहिताः । तान्त्रिकैः उक्तं यत् – ग्राम्यदेवाः रुष्टाः सन्ति । अतः कस्यचिदपि मनुष्यस्य बलिः दातव्या । नूतनायाः राज्ञ्याः विश्पलायाः बलिः दातव्या” इति ।
राज्ये सर्वत्र बलिविषयिणी चर्चा भवन्ती आसीत् । जनाः विश्पलायाः बलिं दातुं तत्पराः आसन् । अतः प्रजाजनाः विश्पलायाः बलेः याचनां चक्रुः । किन्तु तदा अपि विश्पला चिन्तामुक्ता आसीत् । यतः सा निर्भीका आसीत् । सा पुनः अगस्त्याश्रमं गत्वा अगस्त्याय प्रार्थनां चकार । तया उक्तं यत् – “प्रजाजनाः तान्त्रिकाणां कथनानुसारेण मम बलिः दातुम् उत्सुकाः सन्ति । मम बलेः अन्नस्य अभावस्य पूर्तिः कथं भविष्यति” इति ।
विश्पलायाः विचारणीयां समस्यां श्रुत्वा अगस्त्येन उक्तं यत् – “यदा कस्यचिदपि मनुष्यस्य मनसि भ्रामकधारणा उद्भवति, तदा तस्य निवारणं सरलं नास्ति । यदा विनाशकालः आगच्छति, तदा मनुष्यः पशुः इव व्यवहारं करोति” ।
“अन्नसमस्यायाः निवारणार्थं प्रतिवेशिभ्यः राज्येभ्यः अन्नं याचनीयम् । यदि ते न दास्यन्ति, तर्हि लुण्ठितव्यम् । किन्तु अयम् उपायः असङ्गतः अस्ति । इदं दायित्वं तु खेल-राज्ञः अस्ति” इति अगस्त्येन विचारितम् । राजा खेल इत्याख्यः अपि स्वस्य कर्त्तव्यहीनताम् अनुभवति स्म । किन्तु खेल-राज्ञः अपि उपायम् एव विचारयन् आसीत् । अन्ते खेल-राज्ञा प्रतिवेशिभ्यः राज्येभ्यः अन्नं याचितम् । किन्तु प्रतिवेशिनः राजानः मदान्धाः आसन् । अतः प्रतिवेशिनः राजानः खेल-राज्ञः याचनाम् अस्वीकृतवन्तः ।
तदनन्तरं प्रजा विश्पलायाः बलेः याचनां कुर्वती आसीत् । तस्मिन् समये विश्पला स्वस्याः दासिभिः सह राज्यात् निर्गता । प्रजाजनाः राज्ञः विरोधं कुर्वन्तः आसन् । राजा भयभीतः जातः । “मृत्युः निश्चितम् अस्ति” इति राज्ञा मनसि विचारितम् । तस्मिन् समये एव केनचित् प्रजाजनाः आवाहिताः यत् – “तिष्ठत, इमम् अन्नभाण्डागारं पश्यन्तु । खेल-राज्ञा एव अन्नाभावे अयम् अन्नभाण्डागारः आनीतः अस्ति । अतः राजानं त्यजत । अत्र आगच्छन्तु” इति ।
अन्नभाण्डागारैः परिपूर्णानि वाहनानि दृष्ट्वा जनाः प्रसन्नाः अभवन् । सर्वेषां मनसि प्रश्नाः उद्भूताः यत् – “कः अन्नभाण्डारम् आनीतवान् , कुतः आनीतवान् च ? अस्माकं प्राणदः देवः कः ?” यदा जनैः दृष्टं तदा ज्ञातवन्तः यत् - “सा राज्ञी विश्पला आसीत् । विश्पलया अगस्त्यर्षेः शस्त्रास्त्राणि प्राप्य स्त्रीसेनानां रचना कृता । तदनन्तरं विश्पलया स्त्रीसेनया सह प्रतिवेशिषु राज्येषु आक्रमणं कृत्वा अन्नभाण्डागाराः लुण्ठिताः, आनीताः च [५]।
युद्धे विश्पला
[सम्पादयतु]यदा विश्पला राज्यानाम् अन्नभाण्डागारान् नीत्वा स्वराज्यं गच्छन्ती आसीत्, तदा प्रतिवेशिराजानः अपि स्वसेनया सह विश्पलायाः सेनाम् अन्वधावन् । खेल-राज्ञः सीमायाम् एव भयङ्करयुद्धम् आरब्धम् । विश्पला शस्त्रशास्त्रयोः कुशलिनी आसीत् । तया शत्रुः प्रायः पराजितः जातः । किन्तु अन्ते कश्चित् दुष्टः विश्पलायाः पृष्ठतः प्रहारं कृतवान् । तथापि विश्पला तत्प्रहारम् असहत् । किन्तु तस्याः पादभङ्गः जातः। सा एकपादेन एव युद्धं कुर्वती आसीत् । विश्पलायाः वीरतां, साहसं च दृष्ट्वा सर्वे चकिताः अभवन् । तस्याः स्थितिं दृष्ट्वा अगस्त्यर्षिणा विश्पलायाः उपचारं कर्तुम् अश्विनीकुमारौ प्रार्थितौ । अश्विनीकुमारौ शल्यचिकित्सकौ आस्ताम् । अगस्त्यर्षेः प्रार्थनां स्वीकृत्य अश्विनीकुमाराभ्यां युद्धस्थलं प्राप्य युद्धे एव लोहस्य पादं रचितम्। तेन उपचारेण विश्पला पुनः युद्धं कर्तुं सज्जा अभवत् ।
विश्पला पुनः रौद्रस्वरूपेण युद्धं कर्तुं गतवती । विश्पला दासीः, राज्यस्य अन्यमहिलाः च युद्धनीतिं पाठितवती । अतः स्त्रीसेना विश्पलायाः नेतृत्वे युद्धं कुर्वती आसीत् । अन्ते विश्पलया शत्रवः पराजिताः । विश्पलायाः पराक्रमं दृष्ट्वा खेल-राजा, राजमातरः च चकिताः, लज्जिताः च अभवन् । स्त्रीभिः पुरुषः इव शौर्यस्य कार्यं कृतम् अस्ति ।
प्रजानां प्राणस्य, राज्स्य सम्मानस्य च रक्षणं विश्पलया कृतम् । समाजेन विश्पलायाः कृतज्ञतापूर्वकं सम्माननं कृतम् आसीत् । स्त्रीपुरुषयोः समानतायाः अधिकाराय नूतनयुगस्य निर्माणम् अभवत् । समाजः अपि तादृशीनां स्त्रीणां सम्माननं करोति स्म । “विश् अर्थात् सामान्यजनः, सामान्यजनान् पालयति या सा विश्पला” इति । अनेन प्रकारेण विश्पलया स्वनाम्नः सार्थकत्वं प्रतिपादितम् आसीत् ।
प्रजाजनाः तस्याः आदेशानां सश्रद्धं पालनं कुर्वन्ति स्म । यतः प्रजाजनः ज्ञातवन्तः यत् – “स्वस्य प्राणानां रक्षार्थं विश्पलायाः बलिः दातुम् उत्सुकाः आस्म । तान्त्रिकाः पाषण्डाः, असत्यवादिनः च भवन्ति । आत्मबलं, मानवता चैव सत्यम् । तेन एव युद्धे विजयं प्राप्तुं शक्यते” इति । विश्पला तस्याः पत्युः खेल-राज्ञः सर्वेषां युद्धेषु साहाय्यं करोति स्म । वैदिककाले सा असामान्या स्त्री, विराङ्गना च आसीत् , यया स्वराज्यस्य प्रजाजनेभ्यः युद्धः कृतः [१]।
विश्पला वैदिककालीना वीराङ्गना आसीत् । अतः ऋग्वेदे विश्पलायाः उल्लेखः प्राप्यते । अश्विनीकुमाराभ्यां विश्पलायाः लोहपादः निर्मितः आसीत् । अतः ऋग्वेदस्य प्रथममण्डले अश्विनीकुमारयोः स्तुतिः, आवाहनं च प्राप्यते । देवाः सर्वान् देवान् सोमरसपानाय आवाहयन्ति । तत्र चतुर्षुस्थानेषु विश्पलायाः उल्लेखाः प्राप्यन्ते । तद्यथा –
- ऋग्वेदस्य प्रथममण्डलस्य द्वादशोत्तरशततमस्य सूक्तस्य दशमे मन्त्रे देवाः अश्विनीकुमाराणाम् आवाहनं कुर्वन्ति यत् –
“ | याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम्[६] ॥१०॥ | ” |
“यथा भवन्तौ समरक्षेत्रे युद्धकर्त्र्याः अथर्ववंशीयायाः विश्पलायाः सहयोगं कृतवान्, तत्सामर्थ्येण सह भवन्तौ आगच्छताम् ।
- ऋग्वेदस्य प्रथममण्डलस्य षोडशोत्तरशततमस्य सूक्तस्य पञ्चदशे मन्त्रे देवाः अश्विनीकुमाराणां स्तुतिं चक्रुः यत् –
“ | चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् । सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम्[७] ॥१५॥ |
” |
यथा कश्चन विहङ्गः आकाशात् पतति तथैव खेल-राज्ञः पत्न्याः विश्पलायाः युद्धे पादभग्नः जातः आसीत् । तस्यां स्थितौ भवद्भ्याम् (अश्विनीकुमाराभ्याम्) एव एकस्यां रात्रौ उपचारं कृत्वा विश्पलायै लोहपादः प्रदत्तः आसीत् । अनन्तरं सा युद्धाय सज्जा अभवत् ।
- ऋग्वेदस्य प्रथममण्डलस्य अष्टादशोत्तरशततमस्य सूक्तस्य अष्टमे मन्त्रे देवाः अश्विनीकुमारौ प्रार्थयन्ति यत् -
“ | अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम्[८] ॥८॥ | ” |
भवन्तौ एव विश्पलायाः भग्नपादस्य स्थाने शल्यचिकित्सया लोहपादं निर्मितवन्तौ ।
- ऋग्वेदस्य प्रथममण्डलस्य अष्टाविंशत्युत्तरशततमस्य सूक्तस्य प्रथमे मन्त्रे देवैः ऋषयः उक्ताः यत् -
“ | धियञ्जिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता[९] ॥१॥ | ” |
यौ (अश्विनीकुमारौ) सत्कर्मकर्तृभ्यः सुबुद्धिदौ स्तः, याभ्यां विश्पलायाः कीर्तिः वर्धिता च, तयोः रथः यज्ञस्थलस्य समीपम् एव अस्ति ।
बाह्यानुबन्धाः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये विश्पला सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भाः
[सम्पादयतु]- ↑ १.० १.१ वेदकालीन स्त्रियाँ, डॉ. मधुकर आष्टीकर, पृ. – ४८
- ↑ वेदकालीन स्त्रियाँ, डॉ. मधुकर आष्टीकर, पृ. – ४३
- ↑ ३.० ३.१ वेदकालीन स्त्रियाँ, डॉ. मधुकर आष्टीकर, पृ. – ४४
- ↑ वेदकालीन स्त्रियाँ, डॉ. मधुकर आष्टीकर, पृ. – ४५-४६
- ↑ वेदकालीन स्त्रियाँ, डॉ. मधुकर आष्टीकर, पृ. – ४७-४८
- ↑ https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१.११२
- ↑ https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१.११६
- ↑ https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१.११८
- ↑ https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१.१८२