विश्वनाथन् वेङ्कटाचलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विश्वनाथन् वेङ्कडाचलम्

विश्वनाथन् वेङ्कडाचलम् (७ जुलायि १९२५ तः ७ जून् २००२) महान् संस्कृतविद्वान् आसीत्। सः वाराणस्यां स्थितौ सम्पूर्णानन्द-संस्कृतविश्वविद्यालये उपकुलपतिपदे द्विवारं कार्यम् अकरोत्। संस्कृतसंशोधनक्षेत्रे शिक्षणक्षेत्रे च एतस्य अमूल्ययोगदानं परिगण्य भारतकेंद्रीयशासनेन १९८९ तमे संवत्सरे एषः पद्मश्री इति नाम्ना राष्ट्रीयगौरवेण सम्मानितः।