विश्वेश्वरी (राजमण्ड्री)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विश्वेश्वरी/माणिक्याम्बा (राजमण्ड्री) इत्यस्मात् पुनर्निर्दिष्टम्)


भारतस्य आन्ध्रप्रदेशराज्ये अस्ति राजमण्ड्री । एतस्य अपरं नाम राजमहेन्द्री अस्ति । इतः नातिदूरे द्राक्षारामम् इत्यत्र अस्ति एतत् शक्तिपीठम् ।

सम्पर्कः[सम्पादयतु]

देशस्य सर्वेभ्यः भागेभ्यः कर्नूलप्रति रेलयानस्य सौकर्यम् अस्ति । आन्ध्रप्रदेशस्य प्रमुखनगरेभ्यः बस् यानानि अपि सन्ति । विजयवाडातः २०० की.मी.दूरे, काकीनाडातः ३० की.मी.दूरे च अस्ति । समीपस्थं रेलनिस्थानकं समालकोट् पीठतः ५० की.मी.दूरे अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

अत्रत्या देवी मानिक्याम्बा राकिणी विश्वेश्वरी इत्यादिभिः नामभिः, अत्रत्यः शिवः वत्सनाभः अथवा दण्डपाणिः इति नाम्ना च पूज्यते । ऐतिह्यानुसारं तारकासुरस्य संहारार्थं प्रस्थितः कुमारस्वामी तारकासुरस्य मारणानन्तरं तस्य कण्ठे विद्यमानम् अमृतलिङ्गं पृथक्कर्तुं प्रयत्तवान्। तदा तत् लिङ्गं पञ्चधा विभक्तं भूत्वा पञ्चस्थानेषु पतितम् । तानि स्थानानि पञ्चरामलिङ्गानि इति प्रसिद्धानि। एतानि सर्वाणि पूर्वगोदावरीमण्डले सन्ति । इदानीं राजमण्ड्र्यां कोटिलिङ्गेश्वदेवालयः अस्ति ।