वृत्तिसारूप्यमितरत्र (योगसूत्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सूत्रसारः[सम्पादयतु]

व्यासभाष्यम्[सम्पादयतु]

व्युत्थाने याश्चित्तवृत्तयस्तदवशिष्टवृत्तिः पुरुषः । तथा च सूत्रं—एकमेव दर्शनं, ख्यातिरेव दर्शनमिति । चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः सम्बन्धो हेतुः ॥४॥

ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य—

भावार्थः[सम्पादयतु]

यदि पुरुषः समाधि-अवस्थां न भवति, तर्हि सः कीदृशः भवति। सः तु सर्वदा स्वरूपे एव स्थितः भवति, परन्तु स्वरूपे न अनुभूयते। कथं पुरुषः स्वरूपे स्थितः न दरीदृश्यते, तर्हि उत्तरं भवति यत्, दर्शितविषयत्वात्। यतः पुरुषः नित्यः शुद्धः अस्ति, परन्तु प्रदर्शतस्य जगतः सुखं, दुःखं च सः आत्मनि आरोप्य नित्यावस्थायां स्थितोऽपि तथा प्रतीतो न भवति। बाह्ये जगति यदि दुःखम् उत्पद्यते, तर्हि सः आत्मानम् एव दुःखितं स्वीकरोति। एतस्य एव वर्णनम् अत्र क्रियते।

अन्यदशाासु अर्थात् व्युत्थानकाले चित्तस्य वृत्तीनां यत् स्वरूपं भवति, तत्समानं स्वरूपं प्रतीयते।

व्युत्थाने याश्चित्तवृत्तयः तद्+अविशिष्टवत्तिः पुरुषः । तथा च सूत्रम् - 'एकमेव दर्शनं, ख्यातिरेव दर्शनम्' इति । चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः सम्बन्धो हेतुः॥४॥

व्युत्थानकाले यादृश्यः चित्तवृत्तयः भवन्ति, तथैव पुरुषः अपि (तस्मिन् समये) तत्प्रकारक्यां स्थित्याम् अस्ति इति प्रतीतिः भवति । एतस्मिन्नेव सन्दर्भे पञ्चशिखाचार्यः एकं सूत्रम् अयच्छत् -

(पुरुषस्य, बुद्धेः च उभयोः) दर्शनम् एकस्य रूपस्य एव भवति, एतद्दर्शनं बुद्धिवृत्तीनां रूपस्य एव भवति।

चित्तम् (अर्थात् बुद्धिः) चुम्बकवत् सन्निहित-मात्रं भूत्वा उपकारं करोति अर्थात्, ( अर्थात् पुरुषे प्रतिबिम्बितः भूत्वा ) पुरुषरूपिणः स्वामिनः दृश्यं सदपि तस्य स्वम् अर्थात् धनं भवति। अत एव पुरुषः यत् चित्तवृत्तिज्ञानं (उत बुद्धिप्रतिसंवेदनं) प्राप्नोति, तत्र पुरुषस्य (बुद्धेः) अनादि-सम्बन्धः एव कारणभूतः अस्ति।।। ४ ॥

दर्शितविषयत्वात् - दर्शिताः ( बुद्ध्या ) विषयाः यस्यै सा दर्शितविषया (चितिः), तस्याः भावः दर्शितविषयत्वम्, तस्मात् तथोक्तात्, बुद्धिद्वारा प्रदर्शितानां विषयाणां ( प्रतिसंवेदनकर्त्री ) अस्ति, अतः चितेः ( अर्थात् पुरुषस्य )

वृत्तिसारूप्यम् (भवतीति शेषः)- (बुद्धेः) वृत्तिभिः (सह) सारूप्यम् ( समानरूपत्वम् ) इति वृत्तिसारूप्यम्।

चित्तवृत्तिभिः सह समानरूपता भवति अर्थात् (विषयाणाम् अनुसारं) वृत्तयः यत्-यत् रूपं धरते, तद्रूपयुक्ता एव चितिशक्तिः अपि प्रतीयते। अत्र एतत् स्मरणीयम् अस्ति यत्, चितिशक्तेः प्रतीतिः एव तत्तद्रूपेण भवति, वस्तुतः चितिशक्तेः रूपपरिवर्तनं किञ्चिदपि न भवति।

बुद्धिवृत्तयः विषयाकाराकारिताः भवन्ति, अतः विषयभेदेन विषयाकाराकारितायाः बुद्धिवृत्तेः रूपम् अपि परिवर्तितं भवति। अत्र बुद्धिवृत्तेः यत् रूपं भवति, तस्य-तस्य वृत्तिरूपस्य अभिमानिनी उत प्रतिसंवेदिनी कूटस्था नित्या चितिशक्तिः अप तस्मिन्-तस्मिन् परिवर्तितरूपे प्रकाशिता भवति। यथा - घटस्य ज्ञानकारयित्री बुद्धिवृतिः घटाकाराकारिता भवति, पटस्य ज्ञानकारयित्री पटाकाराकारिता च भवति।

अधुना घटरूपायाः वृत्तेः अभिमानयुक्ता ( उत उपरागयुक्ता ) एषा चितिशक्तिः अपि 'घटज्ञानवती ( अहम्' ), 'पटज्ञानवती ( अहम्' ) - एवं प्रकारेण परिवर्तनशील-रूपयुक्ता प्रतीता भवति। एतत्प्रकारकं वृत्त्यभिमानम् उत वृत्त्युपरागः एव चितिशक्तौ बुद्धिवृत्तेः प्रतिबिम्बनम् इत्युच्यते। एतदेव चितिशक्तिेः प्रतिसंवेदनम् उच्यते।

इतरत्र - अन्यत्र, व्युत्थानकाले (निरुद्धभिन्नासु अवस्थासु) ।

'बुद्ध्या निवेदितविषयत्वादित्यर्थः, निवेदनञ्च स्वारूढविषयस्य प्रतिबिम्बरूपेण चित्याधानम्।[१]

विशेषार्थः[सम्पादयतु]

तदविशिष्टवृत्तिः पुरुषः — अत्र 'तत्' शब्देन बुद्धिवृत्तेः परामर्शः ज्ञातव्यः भवति। अतः (बुद्धिवृत्तिभिः) ताभिः अविशिष्टा (अभिन्ना, समाना वा) वृत्तिर्यस्य तादृशः तदविशिष्टवृत्तिः पुरुषः अर्थात् पुरुषः बुद्धिवृत्तेः समानवृत्तियुक्तः ( प्रतीयमानस्थितियुक्तः )प्रतीयते।

'ताभिरविशिष्टा अविलक्षणवृत्तयो यस्य पुरुषस्य स तथा'।[२]

तथा च सूत्रम् — एतस्य अर्थस्य प्रदर्शकं ‘पञ्चशिखाचार्य'स्य एतत् सूत्रमपि अस्ति -

'एकमेव दर्शनं ख्यातिरेव दर्शनम् ।' — (व्युत्थानकाले) पुरुषस्य, बुद्धेः च समानं दर्शनम् उत प्रकाशनं भवति, अर्थात् उभयोः प्रतीतिः एकेन एव रूपेण भवति। तच्च प्रकाशनं बुद्धिवृत्तेः रूपस्य एव भवति। एवं प्रकारेण उभयमपि तत्त्वं समानरूपं प्रतीयते। एतत् प्रतीयमानं रूपं बुद्धिवृत्तीनां रूपं भवति किम्? अथवा पुरुषस्य ? अथवा अन्यस्य कस्याऽपि ? इत्येतेषाम् उत्तरम् एतस्य सूत्रस्य अन्तिमे भागे प्रदत्तम् अस्ति यत् एषः रूपः ख्यातियुक्तः एव रूपः अस्ति, अर्थात् एषः रूपः बुद्धिवृत्तीनाम् एव रूपम् अस्ति।

सूत्राभिप्रायः[सम्पादयतु]

व्युत्थानकाले पुरुषबुद्धिवृत्त्योः प्रकाशनं समानाकारमेकाकारमेव भवति । भवत्यत्र विचिकित्सा - कथं पुरुषाकारेण बुद्धिप्रकाशनं भवति ? किं वा बुद्धिवृत्त्याकारेण पुरुषस्य प्रकाशनम् आहोस्विदुभयोरपि प्रकाशनमन्यस्य कस्यचिद्वस्तुनः रूपेण भवतीत्यत्र सूत्रस्योत्तरार्द्धः । यथा-तच्च प्रकाशनं बुद्धिवृत्तिरूपेण ख्यात्याख्येनैव भवति ।


पातञ्जलयोगसूत्राणि
Orange animated left arrow.gif पूर्वतनः
----
वृत्तिसारूप्यमितरत्र (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
Orange animated right arrow.gif
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः


सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. द्रष्टव्य; यो० वा० पृ० २०
  2. द्रष्टव्य; यो० वा० पृ०२०

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम्

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः