वेदाङ्गानाम् इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वेदाङ्गानाम् इतिहासः वेदविस्तारस्य इतिहासम् एव प्रदर्शयति। यतः वेदेभ्यः प्राप्तस्य ज्ञानस्य वेदानाम् अवगमने एव कथम् उपयोगः जातः इति वेदाङ्गस्य अध्ययनेन एव अवगम्यते। वेदाङ्गेषु शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः, ज्योतिषं च अन्तर्भवन्ति।

महनीयेऽस्मिन् जगतीतले पुरुषार्थचतुष्टयस्य साधको मानवो भवति । मानवानां देहे यथा हस्तपादादयो विविधान्यङ्गानि भवन्ति तद्वत् धर्मार्थकाममोक्षाख्यचतुर्विध पुरुषार्थस्य प्रतिपादका वेदास्सन्ति । वेदा अपि अङ्रेव व्याक्रियन्ते । अत एव चतुर्दश विद्यास्वङ्गानां चर्चा विद्यते।

अङ्गशब्दस्य व्युत्पत्तिलभ्योऽर्थो भवति उपकारक इति। तथा चाह काव्यप्रकाशे साहित्यदर्पणे च -

'उपकुर्वन्ति तं सन्तो [न्तं ] येऽङ्गद्वारेण जातुचित् ।

हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः'॥ (काव्य.)

'शब्दार्थयोरस्थिरा ये धर्माः शोभासिशायिनः ।

रसादीनुपकुर्वन्तोऽलहारास्तेम्भवाषियत' ॥(दश. १०१)

तद्यथा-'अङ्ग्यन्ते ज्ञायन्ते अमीभिरिति अङ्गानि"। अत्रायमाशयः-यैरुपकरणः कस्यापि वस्तुनः स्वरूपपरिज्ञाने साहाय्यं प्राप्नोति तान्यङ्गानि भवन्ति । वेदः स्वयमेव दुर्बोधः दुरूहश्च विषयः-भाषा-भावयो_योरपि दृष्टया। निष्कर्षश्चात्रायं विद्यते यद् वेदार्थज्ञाने तत्कर्मकाण्डस्य च प्रतिपादने, तथाविधसाहाय्यप्रदाने च सक्षमं सार्थकञ्च यच्छास्त्रं तमेव विद्वांसो 'वेदाङ्ग' इति नाम्ना कथयन्ति व्यवहरन्ति च । तथा च वेदस्य वेदार्थस्य च यथार्थज्ञानाय शिक्षादि षड्विषयान् सम्यगध्ययनस्य नितान्तं प्रयोजनं विद्यते।

वेदमन्त्राणां समुचितरूपेणोच्चारणं प्रथमः कल्पः ।, अत एव शाब्दिकमन्त्राणां यथार्थरूपेणोच्चारणस्थापने प्रमुखं महत्त्वं दीयते । एतदर्थं प्रवर्तमाना व्यवह्रियमाणा च पद्धतिः-वेदाङ्गस्य 'शिक्षा' इति कथ्यते । वेदस्य मुख्य प्रयोजनं वैदिकं कर्म काण्डम्, यज्ञयागादेः यथार्थमनुष्ठानमस्ति । एतत्प्रयोजनाय प्रवृत्तमङ्गं 'कल्प' इति कथ्यते । अस्य व्युत्पत्तिलभ्योऽर्थो भवति-यज्ञ-यागस्य प्रयोगाणां समर्थकं शास्त्र मिति । तद्यथा-कल्प्यते समर्थ्यते यागप्रयोगोऽत्र इति कल्पः ।

व्याकरणस्य वेदाङ्गत्वप्रयोजनं यथा-पदानां प्रकृतेः प्रत्ययस्य च विवरणं प्रदाय पदस्वरूपं परिचाययति-अर्थविश्लेषणञ्च करोति । अस्मै प्रयोजनाय व्याकरण शास्त्रस्योपयोगित्वात् तस्मिन्नपि शास्त्रे वेदाङ्गत्वं विद्यते।

निरुक्तस्य कार्यमस्ति-पदानां निरुक्तिकथनं व्युत्पत्तिप्रदर्शनञ्च । निरुक्तेविभिन्न त्वात् अर्थेऽपि भिन्नता भवति । अतो वेदस्यार्थनिरुक्तस्य वेदाङ्गता सिद्धयति । अपि च वेदः छन्दोमय्यां वाण्यां विद्यते, तत्परिचयं विना कथं वेदार्थावगमो भवेत् । प्राप्ते परिचये सत्येव मन्त्राणामुच्चारणस्य पाठस्य च सम्यग् ज्ञानं भविष्यति ।

उदाहरणमुखेन जानन्ति भवन्तः । तद्यथा-वरुणविषये शुनःशेपऋषेः बहचिनी मन्त्रः -

निषसाद धृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः । [१]

अस्मिन् मन्त्रे त्रिपदा गायत्री छन्दोऽस्ति, यस्य प्रत्येकस्मिन् पादे अष्टावाला क्षराणि भवन्ति, छन्दसः एतद् विज्ञापनं मन्त्राणामुच्चारणाय अत्यावश्यकमस्ति द्वितीये तृतीये च पादे आपाततः सप्तवाक्षराणि सन्ति । अतः एनमष्टपदा विरचना 'पस्त्याश्वा' इत्यस्योच्चारणं चतुरक्षरसमन्वितं भाव्यम् । तद्यथा-'पस्त्या-रामा 'साम्राज्य' इत्यस्याप्युच्चारणे पूर्वोक्तपद्धत्या 'साम्राजि आय' इति भविष्यति । अनेनैव प्रकारेण छन्दसः ज्ञानं मन्त्राणामुच्चारणायातीवावश्यकं भवति । छन्दको वेदाङ्गतायामेतदेव कारणमस्ति।

ज्यौतिषशास्त्रं प्रत्यक्षमस्ति । तथा चोक्तं- 'प्रत्यक्षं ज्यौतिष शास्त्रं चन्द्राको यत्र साक्षिणाविति' । एतच्छास्त्रं यज्ञ-यागस्य समुचितसमयस्य निर्देशं करोति ।

श्रौतयागस्यानुष्ठानं विशिष्टतौं कस्मिन्नपि विशिष्टे नक्षत्रे च भाव्यम् । विवाहादि गृह्यकर्मणे नक्षत्रज्ञानं ज्यौतिषशास्त्रादेव वयं लभामहे । अपरञ्च दीक्षाया विधान कर्मकाण्डस्य महत्त्वपूर्णो विषयः । अस्मिन् विषये कतिपयोदाहरणानि प्रस्तूयन्ते। यथा

तैत्तिरीयब्राह्मणस्य [२] कथनमस्ति यत् - 'कृत्तिकास्वग्निमादधीत', फाल्गुनीपूर्णिमायां दीक्षायाः विधानमस्ति । कथनस्याभिप्रायोऽयमस्ति यत्-कर्म काण्डीये प्रत्येकस्मिन् विधाने-नक्षत्रस्य, तिथेः, मासस्य संवत्सरस्य च ज्ञानमावश्यक कर्तव्यकोटिकञ्च भवति । एभिरुपयुक्तः कारणज्योतिषशास्त्रस्य वेदाङ्गत्वं सिद्धयति ।

अत्र सङ्क्षपेणतत्कथनं समुचितं प्रतिभाति यत्-मन्त्राणां यथोचितोच्चारणाय शिक्षायाः, कर्मकाण्डीय-यज्ञीययोरनुष्ठानाय विधिना कल्पस्य, शब्दस्वरूपव्युत्पत्त्यादीनां ज्ञानाय व्याकरणस्य, समुचितार्थज्ञानाय शब्दानां स्फोटनपूर्वक निर्वचनानिरुक्त्यै निरुक्तस्य, वैदिकछन्दसां सम्यग् ज्ञानाय छन्दसः, विविधानुष्ठानानां कालज्ञानाय ज्योतिषस्य, एतेषामङ्गानां यथार्थरूपेणोपयोगित्वात् 'वेदाङ्ग' इति कथयन्ति सार्व देशिकपण्डिताः ।

वेदाङ्गसाहित्यस्य प्रयोजनम्[सम्पादयतु]

वेदोऽस्माकं भारतीयानां धर्मस्याधारभूतः स्तम्भः। अतः सामाजिकाः जनाः एनमतिशयेनादरेण, सम्मानेन पावनेन दृष्टया चावलोकयन्ति । एतस्य महन्महत्त्वं को न विजानाति । यदा तर्ककुशलाः नयायिका अनुमानादीनामपि साहातान कत पारयन्ति यागादिना स्वर्गप्राप्तिविषये, तदा तेषां वेद एव शारी चोक्तम्

भूमिका 'प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते ।

एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता' ।

अस्यैतादृशी विपुला प्रतिष्ठा तदुदयकालानन्तरमेव समस्ते विश्वे प्रसृता बभूव । वेदस्यकमप्यक्षरं पूतं ज्ञानवर्द्ध कञ्च मन्यते । तत्र परिवर्तनं स्वरूपतश्च्युतिर्वा महतेऽ पकाराय मन्यते स्म । एतादृश्यामवस्थायां वेदस्वरूपसंरक्षणायव वेदाङ्गस्योदयो बभूव । ऋते वेदाङ्गात् शब्दानामर्थानाञ्च संरक्षणमसम्भवमेवास्ति । अस्य सहयोगिनः साहित्यस्योदयः समुत्पत्तिर्वा-उपनिषत्काले एव सजाता। अस्मिन् विषये मुण्ड कोपनिषदेव प्रमाणम् । अवलोकयन्तु वेदविद्विद्वांसः [३]--

'शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति । तस्मै स होवाच । द्वे विधे वेदितव्ये इति ह स्म यद् ब्रह्म विदो वदन्ति परा चैवापरा च। तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति' ।

अपरञ्च–अपरा विद्यायां वेदचतुष्टयानन्तरं तेषां षडङ्गानां शिक्षा-कल्प व्याकरण-निरुक्त-छन्दो-ज्योतिषादीनां गणना विद्यते । एषु प्रत्येकस्य विपुलं वैशिष्टयं विद्यत इति न तिरोहितमस्ति विद्वन्मण्डले। अत एतेषामुपयोगिता सुतरामेव सिद्धा भवति । अस्य महतीमुपयोगितामवलोक्य महर्षिणा पाणिनिना पतञ्जलिना च स्वपाणिनीयशिक्षायां महाभाष्ये पस्पशाह्नि के च सत्यमेवोक्तं यत् -

'छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।

ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥

शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।

तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते' ॥ [४]

'ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च'।[५]

इत्येताभ्यां सूच्यते यद् ब्रह्मलोकस्य प्राप्तिः षडङ्गानामध्ययनेनैव भवतीति पार लौकिकी स्थितिः, लोके तु सर्वविदितमेव महत्त्वम् । अतः कारणेन विनाप्यध्ययनस्या स्यैव वेदाङ्गस्य महनीयता वर्तते न त्वन्येषां लौकिकशास्त्राणाम् । एतेन वेदाङ्गस्य लौकिकी पारलौकिकी च स्थितिः सुस्पष्टा भवति ।

वेदाङ्गानां सन्दर्भाः[सम्पादयतु]

वेदाङ्गेषु व्याकरणं प्रमुखमस्ति । अस्य विवेचनं नारदपुराणस्य पूर्वभागस्य द्वितीयपादस्यकपञ्चाशत्तमेऽध्याये संक्षेपतया रमणीयतया चाभूत् । नारदपुराणस्य व्याकरणं कातन्त्रव्याकरणस्य सारभूतमस्ति, यं माहेश्वरमथवा कौमारं व्याकरणं कथयन्ति विद्वज्जनाः । अपि चाग्निपुराणस्य ३४९तमादध्यायात् ३५९तम-अध्याय-पर्यन्तं दशाधिकेष्वध्यायेषु व्याकरणशास्त्रस्य वर्णनं विद्यते। छन्दःशास्त्रस्याथवा पिङ्गलशास्त्रस्य वर्णनं गरुडपुराणस्य २०७तम-अध्यायात् २१२तमाध्यायपर्यन्तं, नारदपुराणस्य पूर्वभागस्य द्वितीयपादस्य सप्तपञ्चाशत्तमेऽध्याये वैदिकानां लौकिकानां च छन्दसां वर्णनमस्ति । अनेनैव प्रकारेण-अग्निपुराणस्य २२८तमाध्यायात् ३३५ तमाध्यायपर्यन्तं छन्दःशास्त्रस्य विशदं निरूपणं प्राप्यते । ज्योतिषशास्त्रस्याध्ययनाय नारदपुराणस्य विष्णुधर्मोत्तरस्य च विवेचनमतीव महत्त्वपूर्णमस्ति । नारदपुराणस्य त्रिष्वध्यायेषु ( १।२।५४-५६ ) त्रिस्कन्धज्योतिषस्य ( सिद्धान्तस्य संहितायाः होरायाश्च ) कमनीयं निरूपणमस्ति-यत् नारदीयं ज्यौतिषमिति नाम्ना विख्यात मस्ति । निरुक्तसम्बन्धिताः सामग्रयः पुराणेषु अत्यल्पाः सन्ति । नारदपुराणस्य पूर्वभागस्य द्वितीयपादस्य त्रिपञ्चाशत्तमेऽध्याये निरुक्तसम्बद्धाः कतिपयश्लोकाः प्राप्यन्ते, ये मुख्यतया व्याकरणशास्त्रस्य स्वरवैदिकप्रक्रियातो धातुप्रकरणाच्चाभिन्नाः प्रतीयन्ते ।

वेदादीनां पाठविधानस्य, स्वराणामुच्चारणविधेः, सामवेदस्य गान-प्रक्रियायाः वर्णानां स्पष्टोच्चारणस्य विधिर्यस्मिन् शास्त्रे वणिताः स्युः तच्छास्त्रं 'शिक्षाशास्त्रम्' कथ्यते । अस्य वर्णनं नारदपुराणस्य पूर्वभागस्य द्वितीयपादस्य पञ्चाशत्तमेऽध्याये प्रायः शतत्रयश्लोकेषु तथा चाग्निपुराणस्य ३३६तमेऽध्याये विद्यते। कल्पानां वर्णनन्तु प्रायः पुराणेषु विद्यमानं विद्यते । कल्पे वैदिकानां लौकिकानाञ्च कर्मकाण्डानां समन्व योऽस्ति, येषु श्रौतसूत्र-गृह्यसूत्र-स्मार्तसूत्र-शुल्वसूत्राणि चेमानि चत्वारि गृहीतानि भवन्ति । एषां वर्णनं भविष्यपुराणे सर्वाधिकमस्ति । येषु यज्ञस्य, इष्टापूर्तेः, संस्का रस्य च विधयो वणिताः सन्ति । तद्यथा च कल्पानां पञ्चभेदाः भवन्ति । तद्यथा –

(१) नक्षत्रकल्पः,

(२) वैतानकल्पः,

(३) संहिताविधानकल्पः,

( ४ ) आङ्गि रसकल्पः,

(५) शान्तिकल्पश्चेति ।

तत्र नक्षत्रकल्पे- यज्ञ-संस्कारादीनां कर्मणां मुहूर्तानाञ्च निर्णयो भवति । वैतानकल्पे यज्ञानां ( हविर्यज्ञ-सोमयज्ञ-पाकयज्ञानाम् ) साङ्गोपाङ्गविधिनिरूपिता विद्यते । संहिताकल्पे-विशेषतो वेदनिर्दिष्टानामश्वमेध राजसूयादियज्ञानां तद्भिन्नानाञ्चापि सर्वविधीनां सम्पादनप्रक्रिया प्राप्ता भवति । आङ्गिरसकल्पे शत्रुराष्ट्रेभ्यो मारणस्य, मोहनस्य, वशीकरणस्य उच्चाटनादि अभि चारकर्मणाञ्च निर्देशोऽस्ति । शान्तिकल्पे-दैव-अन्तरिक्ष-अद्भुतादि उत्पातानामीति भीत्यादिभयानां निवारणस्य; एवञ्च शत्रुराष्ट्रः कृत-मारणमोहनादिप्रयोगाणां शान्तिविधीनां वर्णनं विद्यते । इमे सर्वेऽपि विषयाः पुराणेषु विशेषतो भविष्ये, अग्नि पुराणे विष्णुधर्मोत्तरे च विस्तरेण प्राप्ता भवन्ति।

शिक्षाशास्त्रस्य इतिहासः[सम्पादयतु]

शिक्षाशास्त्रस्य इतिहासः प्रातिशाख्यात् आरभ्य अतीव विशालः दरीदृश्यते। अतः 'शिक्षा घ्राणं तु वेदस्य' योग्यम् एव उक्तम्। [शिक्ष भाव अ+टाप् = आ = शिक्षा ] वेदानां प्राणभूतेषु वेदाङ्गेषु शिक्षायाः प्राथमिकमेकं महत्त्वपूर्ण विशिष्टञ्च स्थानमस्ति । शिक्षेयं वेद-पुरुषस्य घ्राणमिति कथिताऽस्ति (शिक्षा घ्राणं तु वेदस्य)। येन प्रकारेण पुरुषः सर्वेषामङ्गानां यथाविधि विनिवेशितेऽपि मुखसौन्दर्यादिभिः परिपूष्टेऽपि घ्राणेन विना चमत्कृति न दधाति, गर्हणीयतामेव भजते तथैव वेद पुरुषस्य स्वरूपं वेदाङ्गेन शिक्षारूपघ्राणेन विना नितान्तमशोभनं विकृताकारं वा परिलक्ष्यते।

शिक्षाया व्युत्पत्तिलभ्यमर्थं व्युत्पादयन् वेदभाष्यकारा: सायणाचार्याः कथयन्ति यत्— 'स्वरवर्णाधुच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा' इति । एतेनेद मायातं यत्-वेदाङ्गेषु तच्छास्त्रं शिक्षा नाम येन ऋग्वेदादि वेदमन्त्राणामविकलं यथास्थित्युच्चारणं विशुद्धञ्च स्यादिति । अस्मात्कारणादेव सुविज्ञा विद्वांसः कथयन्ति यत्-शिक्षाशास्त्रमिदं वेदाङ्गमिति ।

कल्पशास्त्रस्य इतिहासः[सम्पादयतु]

कल्पशास्त्रस्य इतिहासः कल्पसूत्राणां विस्तारेण ज्ञानं प्रयच्छति। हस्तौ कल्पोऽथ पठ्यते विपूले वेदाङ्गसाहित्ये कल्पस्य द्वितीयं स्थानमस्ति । क्वचिच्चेतिहासे तीन स्थाने कल्पितोऽयं कल्पः । एष शब्दः कमपि विशिष्टमर्थं व्यनक्ति प्रतिपादयति वात अत एव कल्पस्य वैदिकसाहित्येऽतिशयं महत्त्वपूर्ण स्थानमस्ति । कल्पप्रयोजनीयताया आवश्यकता तदा अनुभूता, यदा शतपथादिब्राह्मणग्रन्थेषु यज्ञ-यागादीनां कर्मकाण्डीय. व्यवस्थायां विस्तृततया तद्व्यवहारे काठिन्यस्यानुभूतिर्जायते स्म। तत्पूत्यै च | कल्पसूत्राणां प्रतिशाखायां रचना सुसम्पन्ना। तद्युगस्य प्रवर्तितं पद्धत्यनुरूपं तद्रचना सूत्रात्मिकाऽभूत् । ऋग्वेदप्रातिशाख्ये वर्गद्वयवृत्तौ कल्पविषये कथितमस्ति यत् 'कल्पो वेदविहितानां कर्मणामानुपूर्वेण कल्पना शास्त्रम्' । अत्रायं निष्कर्षो विद्यते यत् येषां यज्ञयागादिविहितानां विवाहोपनयनादिकर्मणाञ्च महत्त्वपूर्ण प्रतिपादनं वैदिक ग्रन्थेषु कृतमस्ति तेषां सूत्रग्रन्थानामभिधानमस्ति कल्पः ।

व्याकरणशास्त्रस्य इतिहासः[सम्पादयतु]

व्याकरणशास्त्रस्य इतिहासः अष्ठाध्याय्याः अपि पुरातनः अस्ति। ( मुखं व्याकरणं स्मृतम्) विदन्ति विद्वांसो यद्वेदाश्चत्वारो भवन्ति । यथा कस्यापि शरीरधारिणः पुरुषस्य विभिन्नान्यङ्गानि भवन्ति तद्वत् वेदपुरुषस्याप्यङ्गानि सन्ति । अङ्गानि संयोज्यव पुरुषाकृतिनिर्मीयते । तद्वत् वेदस्य वेदानां वा षडङ्गानि मुख्यानि भवन्ति । तेषु षडङ्गेषु व्याकरणं तृतीयमङ्गमस्ति । तच्च वेदपुरुषस्य प्रधानतममङ्गं मुखमस्ति 'मुखं व्याकरणं स्मृतमिति निर्देशात् । मुखरूपत्वादस्य शास्त्रस्य मुख्यत्वं स्वयमेव सिद्धं भवति ।

निरुक्तशास्त्रस्य इतिहासः[सम्पादयतु]

निरुक्तशास्त्रं व्याकरणस्य सहायकं शास्त्रं भवति। (निरुक्तं श्रोत्रमुच्यते) षट्सु वेदाङ्गेषु निरुक्तं चतुर्थस्थानं भजते । तच्च वेदपुरुषस्य श्रोत्रमुच्यते । निरुक्तं श्रोत्रमुच्यते' इति पाणिनीय शिक्षायांस पष्टमुद्घोपितम् । अस्मिन् विपये वेदभाष्यकाराः सायणाचार्याः स्वचतुर्वेदभाष्यभूमिकायां कथयन्ति यत्- 'अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्' इति । निरुक्तस्य शाब्दिकीनिरुक्तिरेव भविष्यति--नि:शेपादुक्तमिति निरुक्तम् । अतो यदि शिक्षादीनि वेदाङ्गानि वेदस्य बाह्यानि तत्त्वानि निरूपयन्ति तदा निरुक्तं वेदविज्ञानस्यान्तरिक स्वरूपं स्पष्टतः उद्घाटयति । एतदपि अस्य वैशिष्टयं विद्यते यदन्यानि वेदाङ्गानि प्रायो विभिन्नेषु सूत्रेषु लिखितानि सन्ति, इदञ्च निरुक्तं गद्यशैली भजते ।

छन्दश्शास्त्रस्य इतिहासः[सम्पादयतु]

छन्दश्शास्त्रस्य इतिहासः वेदानाम् ऋचाभ्यः आरभ्य अनन्तं यावत् गच्छति। (छन्दः पादौ तु वेदस्य) छन्दो वेदस्य पञ्चममङ्गमस्ति । पाणिनीयशिक्षायां कथितमस्ति यत् 'छन्दः । तु वेदस्य' यथा कोऽपि मनुष्य: पादाभ्यां प्रचलति तद्वत् वेदपुरुषस्य पादौ छन्दांकि पादेन हीनो जनः खञ्जः कथ्यते तथैव छन्दोभ्यो हीनो वेदपुरुषः खञ्ज एव । अर वेदाध्ययने छन्दसां ज्ञानमावश्यकं भवति ।

ज्यौतिषशास्त्रस्य विकासक्रमः[सम्पादयतु]

ज्योतिषशास्त्रस्य विकासक्रमः ग्रहाणां विज्ञानिकतायाः इतिहासः एव। (ज्योतिषामयनं चक्षुः) शास्त्रमर्मज्ञाः विद्वांसो विदन्ति यत् पड् वेदाङ्गेषु ज्योतिषं चरमं वेदाङ्गमस्ति । यथा वेदपुरुषस्य व्याकरणं मुखमस्ति तद्वत् ज्योतिपं नयनं स्मृतम । नेवाश्यांना यथा कोऽपि मानवः स्वयमेव पदात्पदमपि चलितुं न शक्नोति तद्वत ज्योतिषशा विना वेदपूरुषस्यान्धता समापतिष्यति । वेदस्य प्रवृत्तिविशेपेण यज्ञसम्पादनाय भवति । यज्ञस्य च विधानं विशिष्ट कालानामपेक्षां स्थापयति ।

उद्धरणानि[सम्पादयतु]

  1. ऋग्वेदः० १।५।१०
  2. तैत्तिरीयब्राह्मणम् १।१।२।१
  3. मुण्डकोपनिषद् ( १।११३-५ )
  4. पा० शि० ४१-४२
  5. पस्पशाह्निकम्
"https://sa.wikipedia.org/w/index.php?title=वेदाङ्गानाम्_इतिहासः&oldid=470580" इत्यस्माद् प्रतिप्राप्तम्