वेङ्कटमखी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(व्यङ्कटमखी इत्यस्मात् पुनर्निर्दिष्टम्)


वेङ्कटमखी (Venkatamakhin) कर्णाटकसङ्गीतस्य प्रसिद्धः गायकः आसीत् । एतस्य मूलं नाम वेङ्कटेशः । पितुः नाम गोविन्ददीक्षितः । मातुः नाम नागमाम्बा । पिता तञ्जावुरुनगरे सचिवः आसीत् । तत्र एव वेङ्कटेश: गायकरूपेण नियुक्त:। तत्र तेन चतुर्दण्डिप्रकाशिका नाम ग्रन्थ: रचित:। दाक्षिणात्यसङ्गीतपद्धतौ एष: सर्वमान्य: तथा उत्कृष्ट: ग्रन्थ:। अस्मिन् ग्रन्थे स एवं प्रत्यपादयत् यत् एकस्मात् स्वरमेलनात् ७२मेलानाम् उत्पत्ति: शक्या । परं स तेषु केवलम् १९मेलान् अनुमन्यते । तेभ्य: मेलेभ्य: ५५रागाणामुत्पतति: भवति। वेङ्कटेशस्य निधनं १७शतकस्य अन्तेऽभवत् ।

"https://sa.wikipedia.org/w/index.php?title=वेङ्कटमखी&oldid=368079" इत्यस्माद् प्रतिप्राप्तम्