श्रीरङ्गपट्टणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(श्रीरंगपट्टणम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
श्रीरङ्गपट्नम्

ಶ್ರೀರಂಗಪಟ್ಟಣ
नगरम्
श्री रङ्गनाथ मन्दिरम्
श्री रङ्गनाथ मन्दिरम्
India Karnataka location map.svg
राष्ट्रम्  India
राज्यानि कर्णाटकराज्यम्
मण्डलम् मण्ड्यमण्डलम्
Area
 • Total १३
Elevation
६७९
Population
 (2001)
 • Total २३,४४८
 • Density १,८०३.६९
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (IST)
पत्रालयकूतटसंख्या
571 438
दूरवाणीसंख्या 08236
Vehicle registration KA-11
Website www.srirangapatnatown.gov.in

श्रीरङ्गपट्नम् (Shrirangapatna) कर्णाटकराज्ये मण्ड्यमण्डले विद्यमानं किञ्चन क्षेत्रम् अस्ति । एतत् कावेरीनद्या निर्मितः द्वीपः अस्ति । अस्मिन् क्षेत्रे श्रीरङ्गनाथदेवालयः अस्ति । मैसूरुरुतः १९ कि.मी दूरे एतदस्ति ।

श्रीरङ्गनाथस्वामी देवालयः क्रिस्ताब्दे ८९४ तमे वर्षे निर्मितः । हैदराली-टिप्पुसुल्तानयोः राजधानी आसीत् श्रीरङ्गपट्टणम् । टिप्पुसुल्तानः मैसूरुहूलि (मैसूरुव्याघ्रः) इति ख्यातः आसीत् । दरियादौलत् राजगृहम्, हैदरालिटिप्पुसुलतानपरिवारस्य स्मारकाणि अत्र सन्ति । राजगृहस्य भित्तिचित्राणि राजगृहवस्तूनि आकर्षकाणि सन्ति । सुन्दरं वास्तुशिल्पम् अत्र द्रष्टुं शक्यते ।

रङ्गनाथस्वामी देवालयः

रङ्गनाथस्वामी देवालयः[सम्पादयतु]

एषः पुरातनप्रदेशः माण्डव्यमुनेः तपसः स्थानम् । माण्डव्यमुनिः एव अत्र श्रीजनार्दनं प्रतिष्ठापितवान् । बेङ्गलूरु-मैसूरु नगरयोः मध्ये मण्डयनगरम् अस्ति । मण्ड्यमण्डलं कृषिप्रधानम् अस्ति । एतत् क्रिस्ताब्दे १९३९ तमे वर्षे अस्तित्वे आगतम् अस्ति ।

पौराणिकरीत्या एतत् आदिरङ्गक्षेत्रम् अस्ति । गौतमक्षेत्रं श्रीरङ्गपुरी इति अपि नामनी स्तः । आंग्लाः एतत् नगरं श्रीरङ्गपटाम् इति उक्तवन्तः । अधुना श्रीरङ्गपट्टणम् इति ख्यातम् अस्ति । गौतमऋषिः अत्र श्रीरङ्गनाथम् आराधितवान् । कावेरी मातुः अपेक्षानुसारं श्रीकावेरी स्वस्य कृते एतत् स्थलं स्वीकृतवती । अत्र कावेरी श्रीरङ्गनाथस्य पादयोः समीपे उपविष्टा अस्ति इत्येषः अंशः अत्र साक्ष्यं वदति (सि हयवदन राव –मैसूरु गेजेट)।

श्रीरङ्गपट्टणस्य प्रमुखः आकर्षणीयः विषयः श्रीरङ्गनाथदेवालयः अस्ति । उत्तमं महाद्वारम् उन्नतं शिखरञ्च अस्य स्तः । गर्भगृहे श्रीरङ्गनाथस्वामी शयानः १५ पादपरिमितः विस्तारवान् च अस्ति । अत्र आदिशेषः स्वयं रक्षणं करोति । लक्ष्मीदेवी गौतममुनिश्च पादयोः समीपे सेवां कुर्वन्तौ तिष्ठतः । श्रीरङ्गनायकी एव श्रीरङ्गनाथस्य पत्नी । तस्याः निमित्तम् एकं पृथक् गर्भगृहम् अस्ति । अत्र रथसप्तमीपर्वणि ब्रह्मरथोत्सवः प्रचलति ।

एतत् एकं द्वीपम् अस्ति ५ कि.मीटर* २ कि.मी विस्तारितम् अस्ति । कावेरीनदी परितः प्रवहति । अस्य स्थलस्य १२ शतकपर्यन्तस्य चारित्रिकीप्राचीनता अस्ति । गङ्गराजानाम् अधिकारी तिरुमलः क्रिस्ताब्दे ८९४ तमे वर्षे एतं द्वीपम् अन्विष्य वने श्रीरङ्गनाथं प्रतिष्ठापितवान् ।

’श्रीरङ्गनाथमूर्तिः स्वयं व्यक्ता आसीत् । अधिकारी अन्विष्य मन्दिरं निर्माय पूजितवान्’ इत्यपि अन्यः आधारः सूचयति।

अनन्तरं चोळराजाः होय्सलराजाः स्वल्पकालं यावत् अत्र शासनम् कृतवन्तः । विजयनगरराजानां समये परितः दुर्गस्य निर्माणं कृतवन्तः । मैसूरुराजानां प्रशासनकाले (१५६५-१६१०) श्रीरङ्गपट्टणं मैसूरराजानाम् आधीन्ये आगतम् । टिप्पु सुल्तान् हैदर अलि प्रशासनकाले (१७९९तमे वर्षे) चतुर्थमैसूरुयुद्धस्य अनन्तरम् एतत् द्वीपम् आंग्लानां वशे आसीत् । तदनन्तरं मैसूरुराजानां प्रशासने योजितम् अभवत् ।

अत्र श्रीलक्ष्मीनरसिंहदेवालयः श्री विजयनरसिंहदेवालयः (१७ शतकीयः) आञ्जनेयदेवालयः, अम्बेगालुकृष्णः, गङ्गाधरेश्वरः अन्ये वैष्णवमठाः च दर्शनीयाः सन्ति ।

मार्गसूची[सम्पादयतु]

मैसूरुतः १४ कि.मी ।
बेङ्गळूरुतः १२५ कि.मी रेलयानस्य बसयानस्य च सौलभ्यम् अस्ति ।

वसतिः -मैसूरुमण्डयप्रदेशे उत्तमा ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=श्रीरङ्गपट्टणम्&oldid=440534" इत्यस्माद् पुनः प्राप्तिः