संस्कृतगीतानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

मम माता देवता

मम माता देवता ॥

अतिसरला, मयि मृदुला गृह कुशला, सा अतुला ॥१॥

पाययति दुग्धं, भोजयति भक्तं लालयति नित्यं, तोषयति चित्तम् ॥२॥

सायङ्काले नीराजयति पाठयति च मां शुभङ्करोति

शुभं कुरु त्वं कल्याणम् आरोग्यं धनसम्पद: ।

दुष्टबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तु ते ॥

पाठयति च मां शुभङ्ककरोति ॥३॥

रात्रौ अङ्के मां स्वापयति मधु मधु मधुरं गीतं गायति

आ आ आ आ आऽऽ ॥४॥

चटका चटका रे चटका

चटका, चटका, रे चटका चिँव्, चिँव् कूजसि त्वं विहगा ||

नीडे निवससि सुखेन डयसे खादसि फलानि मधुराणि ।

विहरसि विमले विपुले गगने नास्ति जनः खलु वारयिता ॥

चटका, चटका, रे चटका चिँव्, चिँव् कूजसि त्वं विहगा ||

मातापिरौ इह मम न स्तः एकाकी खलु खिन्नोऽहम् ।

एहि समीपं चिँव् चिँव् मित्र ददामि तुभ्यं बहु धान्यम् ॥

चटका, चटका, रे चटका चिँव्, चिँव् कूजसि त्वं विहगा ||

चणकं स्वीकुरु पिब रे नीरं त्वं पुनरपि रट चिँव् चिँव् चिँव् ।

तोषय मां कुरु मधुरालापं पाठय मामपि तव भाषाम् ॥

चटका, चटका, रे चटका चिँव्, चिँव् कूजसि त्वं विहगा ||

मार्जाल! रे मार्जाल!

मार्जाल! रे मार्जाल!

कुत्र गतोऽसि त्वम् ? अत्रैवास्मि आगतोऽस्मि राजगृहादेवम् ।

मार्जाल! रे मार्जाल!

किं दृष्टं तत्र एतावद्दीर्घः मूषकपुत्रः नहि दृष्टोऽन्यत्र ।

मार्जाल! रे मार्जाल!

कुत्र गतोऽसि त्वम् ? अत्रैवास्मि आगतोऽस्मि राजगृहादेवम् ।

मातश्चन्दिर एकाकी

मातश्चन्दिर एकाकी, कस्माद् गगने सञ्चरति ?

मातरं पितरं गृहं विहाय रात्रौ सततं सञ्चरति ।

वायुः वेगेन तं नयति सूर्यः किरणैः तापयति ।

मेघो जलेन आर्द्रयति न कोऽपि तं परिपालयति ।

मातश्चन्दिर एकाकी

अम्ब चन्दिरम् आनयतु अस्मद्गेहे स्थापयतु ।

तेन सहाहं क्रीडामि खादामि पिबामि नन्दामि ।

मातश्चन्दिर एकाकी

"https://sa.wikipedia.org/w/index.php?title=संस्कृतगीतानि&oldid=437471" इत्यस्माद् पुनः प्राप्तिः