सामग्री पर जाएँ

संस्कृताध्ययनस्य प्रसक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृता भाषा

[सम्पादयतु]
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥

इत्यतः शब्दसमूहः एव भाषा इति लभ्यते । आशयविनिमयार्थं यः उपायः सा भाषा । अङ्ग्यभाषा, भाषितभाषा, लेखनभाषा चेत् त्रिधा अस्ति । भाषाजगति विराजमानासु सर्वासु भाषासु संस्कृतं नाम अमरवाणी घटनाविशेषे शदसम्पतौ च प्रथमस्थानीया सुप्रसिद्धा इतरभिन्ना च वर्तते । सं पूर्वक कृ धातोः क्तप्रत्यये कृते संस्कृतपदनिष्पत्तिः । संस्करणं यस्य कृतम् इत्यर्थः । एषा भाषा संस्कारस्य प्रत्यक्षप्रमाणं प्रतिबिम्बं च भवति । अत एव इयमुक्तिः "संस्कृतिः संस्कृताश्रिता" इति । तेन अस्माकं संस्कृतिमधिकृत्य चिन्तनेऽपि संस्कृताध्ययनस्य अवश्यकता बोध्या भवति ।

संस्कृतविषये आक्षेपाः

[सम्पादयतु]

अस्य प्रसिद्धस्य प्रसक्तस्य च संस्कृतस्य का अधुना स्थितिरिति चिन्तितम् एव । सम्प्रति सर्वत्र संस्कृतस्य त्रयः आक्षेपाः श्रूयन्ते ।

प्रथमः आक्षेपः

[सम्पादयतु]

प्रथमस्तावत् एषा भाषा निर्जीवा इति । पश्य, एषा मर्तुं योग्या चेत् यवन-आङ्गलप्रभृतीनां वैदेशिकानां शासनानन्तरं शकलमपि द्रष्टुं भवति वा ? ते वदन्ति यत् "भाष्यते इति भाषा" । संस्कृतं व्यावहारिकतले नास्ति । अतः अभाष्यमाणा एषा निर्जीवा एव इति । साहित्यतलेऽपि कापि पुरोगतिः नास्ति इति च । ते नेत्रे निमील्य लोके सर्वत्र अन्धकारः इति वदन्तः सन्ति । कारणं कर्णाटके मत्तूरुनामकः संस्कृतग्रामः कश्चन अस्ति इति न ज्ञातवन्तः स्युः । हिमवत्पार्श्चे विद्यमानानां गिरिवर्गीयाणां संस्कृतसम्भाषणां न श्रुतवन्त । नूतनतया रचितान् शतशः संस्कृतग्रन्थान् न दृष्टवन्तः । एतादृशः लेखः अपि एषा न निर्जीवा इति स्पष्टं करोति किल ? एवं चेदपि यावत्पर्यन्तं मार्गे गच्छतां बालानां मुख्यतः संस्कृतं न श्रूयते, यावत्पर्यन्तं मातरः स्तन्यं दत्त्वा संस्कृतेन शिशून् न लालयन्ति तावत्पर्यन्तम् एषा भाषा जीवन्ती भाषा इति सर्वे जनाः नाङ्गीकुर्वन्ति । अतः एतदाक्षेपं निश्शोषं नाशयितुं संस्कृताध्ययनमेव अभिकाम्यम् ।

द्वितीयः आक्षेपः

[सम्पादयतु]

द्वितीयस्तु एषा भाषा कठिना इति । सर्वस्याः अपि भाषायाः मुखद्वयम् अस्ति-सरलं प्रौढं चेति । किन्तु अद्य लोके प्रौढा इत्येतस्य शब्दस्य स्थाने कठिना इत्येतस्य पदस्य प्रयोगं कुर्वन्ति । तत् न समीचीनम् । लोके कापि भाषा कठिना न । मुदृत्वं कठिनत्वम् इत्यादि विशेषणं पुष्पशिलाखण्डादिपदार्थेष्वेव युज्यते, न तु भाषाविषये । एकमीटर् क्षीरं एकलीटर् शाटिका इत्यादि व्यवहारः इव अयोग्यः अस्ति कठिना भाषा इति प्रयोगश्च । अतः सरलभाषा प्रौढभाषा इत्यादयः प्रयोगाः व्यावहारिकदृष्ट्या साधवः । सर्वस्याः अपि भाषयाः भाषितमुखं सरलं साहित्यमुखं प्रौढं च भवतः । भाषितभाषायाः सारल्यं नित्यप्रयोगादेव लभ्येत । अभ्यासाभावात् अपरं प्रौढं च शोभते । अत एव संस्कृतविषये विद्यमानः कठिनम् इत्याक्षेपः निरर्थकः दुरुद्देशपरश्चेति अवगतं किल ? तथापि जनमानसतः एतां कठिनमितिभावनां दूरीकर्तुं सरळसंस्कृतप्रयोगः अनिवार्यः साहित्ये व्यवहारे च । तदर्थमपि संस्कृताध्ययनं प्रसक्तं भवति ।

तृतीयः आक्षेपः

[सम्पादयतु]

तृतीयः आक्षेपः एषा एकस्य वर्गस्य -ब्राह्मणवर्गस्य -भाषा इति । भवन्तः चिन्तयन्तु, अत्र केवलं ब्राह्मणाः एव वा संस्कृतज्ञाः इति शोभिताः ? आदिकविः वाल्मीकिः वेदेतिहासपुराणकर्ता भगवान् व्यासः, कविकुलगुरुः कालिदासः तुञ्चत्ताचार्य -श्रीनारायणगुरु-कुमारनाशान् प्रभृतयः एतादृशाः सर्वे अब्राह्मणाः । अपि च उत्तरकेरळे " पूरक्कळी" नाम सांस्कारिकशास्त्रकार्यक्रमे "मरक्तुकळी" इति सस्कृतवाक्यार्थसद इव वादप्रतिवादरुपः कार्यक्र्मः कथम् अभवत् ? आयुर्वेदशास्त्रं ज्योतिषम् इत्यादिविषये क्स्य समुदायस्य् प्राधानयम् अस्ति । ब्राह्मणस्य नास्ति खलु ? एवं चिन्त्यते चेत् आक्षेपस्य अत्रापि नास्ति मूल्यमिति ज्ञातुं शक्यते । किन्तु अधिकतया ब्राह्मणाः एव संस्कृतज्ञाः इति कारणेन एतन्मतस्य उन्मूलनार्थं स्वैः संस्कृतं पठनीयं प्रसारणीयं च ।

अध्ययनस्य महत्त्वम्

[सम्पादयतु]

संस्कृतमधिकृत्य स्वामिना विवेकानन्देन उक्तमस्ति यत् संस्कृतशब्दानां प्रौढिः मधुरता अर्थसम्पुष्टिः च अन्यभाषाशब्दानां न सन्त्येव इति । बुद्धमतस्य अधःपतनस्य एकं कारणम् अपि तेषां संस्कृतावगणनम् एवेति च । राष्ट्रपुरोगतये भरणसारथ्यं कर्तुं संस्कृतज्ञाः एव शक्ताः इति । चिन्मयानन्द-अमृतानन्दमयी इत्यादिभिः अनेकैः आचार्यैः अनेकैः वाक्यैः अनेकेषु सन्दर्भेषु संस्कृताध्ययनस्य प्रसक्तिः प्रस्तुता । डा. माक्स्मुल्लर-गेथे प्रभृतयः पाशचात्यविपश्चितः अपि संस्कृताध्ययनस्य प्रसक्तिं प्रतिपादितवन्तः । अतः एव सिविल्सर्वीसित्यादिषु परीक्षासु संस्कृतम् अनिवार्यविषयत्वेन स्थापयितुं प्रयत्नः करणीयः ।

एतां भाषां विना अथर्ववेदतः आरब्धस्य आयुर्वेदस्य सुष्ठु अध्ययनम् असाध्यम् । ज्यौतिषे महाशास्त्रे संस्कृतेतरच्छात्राणां प्रवेष्टुमपि अधिकारः नास्ति । वेदान्तादिसकलशास्त्राणाम् अध्ययनाय संस्कृतमनिवार्यम् । काव्यरसास्वादकैः अवश्यम् अध्येयं भवति संस्कृतम् । भाषान्तरानुवादपठनं पूर्णास्वादरसभङ्गहेतुः । भूभृत् शब्दस्य भूमिं भरति इति शब्दार्थः शास्त्रतत्त्वार्थश्च अनुवादे उक्तेन मौण्टेन्शब्देन कथं ज्ञातुं शक्यते ? यया भाषया लिखितं तया एव पठनीयं भवति काव्यम् । उत्तमोत्तमकाव्यानि संस्कृते एव सन्ति यानि अपठित्वा काव्यास्वादनं पूर्णं न भवति । अतः संस्कृतं काव्यास्वादकैः अपि पठनीयम् । भारतेतिहासं ज्ञातुं ये इच्छन्ति तेषां प्रबलं साधनम् एषा एव वेदेतिहासपुराणादीनाम् आश्रयः करणीयः इत्यतः । शास्त्रकारैः तन्त्रज्ञैः भाषाशास्त्रज्ञैः च संस्कृताध्ययनेन महान् लाभः प्राप्येते । सर्वोपरि व्यक्तित्वविकासेच्छुः यः सोऽपि संस्कृताध्ययनशीलः स्यात् ।

एषः विज्ञानस्य तन्त्रज्ञानस्य च युगः । अस्य महादानं कम्प्यूटर्-यन्त्रम् । तत्रापि अत्यन्तोपयोगीनी सहजभाषा संस्कृतभाषा एवेति तज्ज्ञानां मतम् । श्रीमतः पाणिनेः काले कम्प्यूटरयन्त्रम् आसीत् वा इति चिन्त्नमुद्दीपयति तस्य सूत्रशैली ।

एवं सांस्कृतिक-साहित्य-वैज्ञानिक-तन्त्रज्ञानादिषु सर्वत्र विराजमाना संस्कृतभाषा स्वाभिमानं स्वाश्रयं स्वराष्ट्रस्नेहं सहिष्णुतां संस्कृतिं सम्पत्तिं च संवर्द्धयति । अत एव संस्कृतं राष्ट्रस्य प्राणवायुः सनातनधर्मस्तु राष्ट्रस्य जीवात्मा चेति कथ्यते । भारतराष्ट्रस्य अस्मिता रक्षणीया चेत् संस्कृताध्ययनम् अवश्यमावश्यकम् ।

"एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति "॥

इति प्रमाणेनैव संस्कृताध्ययनस्य प्रसक्तिः बोध्या भवति ॥