संस्कृते किं नास्ति ?

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

संस्कृते किम् वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः, नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामार्थ्यं न भवति संस्कृतच्छात्रस्य । अतः एव संस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ।

संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्- आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषायाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः, पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शानानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते । पुराणादयः विविधशास्त्रतत्वानि प्रतीकात्मकतया निरूपयन्ति । दशावतारकथा परिणामघट्टं निरूपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ।

भैतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं, रसायनशास्त्रं, जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः, अर्थशास्त्रं, राज्यशास्त्रं, भूगर्भशास्त्रम् इत्यादयः अन्तर्भवन्ति । साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ।

संस्कृतस्य अध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञानचरम् एव इत्यतः तदत्र न परामृश्यते ।

सामूहिकम् सामुहिकविषयम् अधिकृत्य पाश्चात्यानां पौनःपुन्येन कथनं श्रूयते यत् भारतीयानाम् इतिहासप्रज्ञा नास्ति, कालगणनानैपुण्यं नास्ति इति । किम् इतिहासः नाम केचन वर्षविशेषाः, कानिचित् नामानि, काश्चित् प्राजयगाथाः च ? विद्यालये यत् इदानीं पाठ्यते तावन्मात्रकम् एव किम् भवति इतिहासः ? इतिहासपठनस्य उद्देश्यं किमिति आदौ परिचिन्तनीयम् । सुन्दरस्य भविष्यस्य निर्माणमेव इतिहासस्य लक्ष्यम् इति मम मतिः । अतः एव खलु स्वामी विवेकानन्दः उक्तवान् यत् येषाम् उत्कृष्टः भूतकालः अस्ति तेषाम् एव भविष्यत् कालः उत्तमः सम्भवति इति । एताः वर्ष-नाम-पराजयगाथाः पठामः चेत् किं पूर्वोक्तं लक्ष्य़ं सिद्धं भवेत् ? तादृशं लक्ष्यं साधयितुं रामायाण–महाभातादीनां पठनम् एव उत्तमं साधनं खलु  ? कालगणनानुसारी इतिहासः भारते नास्ति इत्यतः एषा युक्तिः खलु उपस्थाप्यते ? इति केचित् वदेयुः । तत्तु सर्वथा असमञ्जसम् । राजतरङ्गिण्यादयाः ऐतिहासिकाः ग्रन्थाः अत्र सन्ति एव बहवः ।

’सेकेण्ड’ नामकं कालं ये लघुतमं मन्यन्ते, ये च वर्षं बृहत्तमं मन्यन्ते, ते लवस्य परार्धस्य च उप्योक्तॄणाम् अस्माकम् उपहासं यत् कुर्वन्ति तत् पङ्गुना खञ्जेन वा कृतः पादवतः उपहासः इव भवति ।

भूगर्भशास्त्रम्[सम्पादयतु]

मुख्यलेखः : भूगर्भशास्त्रम्

भूमेः गोलाकृतिंम् ऐदम्प्राथम्येन मागल्लनामकः प्रतिपादितवान् इति वयं पाठ्यपुस्तकेषु पठामः । संस्कृतभाषायां तु आप्राचीनकालतः व्यवहारः भूगोलम् इत्येव । एषः व्यवहारः एव खलु समर्थयति भूमेः गोलाकारताम् ? अपि च गोलपरिभाषायाम् उच्च्यते ।

मृदम्ब्वग्न्यनिलाकाशपिण्डोऽयं पाञ्चभौतिकः।
कपित्थफलवद्वृत्तः सर्वकेन्द्रेखिलाश्रयः ॥
स्थिरः परेशशक्त्येव सर्वगोऴादधः स्थितः ।
मध्ये समान्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ॥ इति ॥

भूमिः पञ्चभूतात्मिका, कपित्थफलाकारिका च इति अत्र स्पष्टतया निरूपितम् अस्ति । कपित्थफलकारकत्वं नाम दैर्घ्याधिक्ययुक्तगोलत्वम् । भूकेन्द्रं प्रति सर्वम् आकृस्ष्टं भवति अन्यत् किमपि अनाश्रित्य आकर्षणशक्त्त्या (परेशशक्त्या) निरालम्बा भूमिः व्योम्नि तिष्ठति इति एतस्मात् श्लोकात् ज्ञायते ।
आर्यभट्ट भूव्यासम् अधिकृत्य वदति – ञिला भूः इति । तन्नाम भूव्यासः १०५० योजनमितः भवति (१०५०=१२=१२६००किलोमीटर्) आधुनिकाः अपि एतत् एव परिमाणं प्रतिपादयन्ति ।
भूमिः एव भ्रमति इति, सौरमण्डलम् अपि पराशक्तिं केन्द्रीकृत्य भ्रमति इति च अस्मात्पूर्वजैः सिद्धान्तितम् । कालिदासस्य काले भूशास्त्रविज्ञानं कथम् आसीत् इति मेघदूतस्य पठनात् स्फुटं भवति ।
भूभृत् इति पर्वतस्य पर्यायपदम् । पर्वताः भूतोलनं साधयन्ति इति आधुनिकाः अपि अङगीकुर्वन्ति। श्रीकृष्णविलासकाव्ये भूमिब्रह्मसंवादे भूस्थितिः, भूकम्पनं सूर्यरश्मिमहिमा इत्यादयाः विषयाः काव्यशैल्या प्रतिपादिताः सन्ति । दिनचलनं, वार्षिकचलनम्, अयनं, ग्रहणं, समरात्रम् इत्यादयः बहवः विषयाः अतिप्राचीनकाले एव भारते चर्चिताः आसन् ।भूगुरुत्वाकर्षणविषये भास्कराचार्येण विशदतया प्रतिपादितम् ।

गणितम्[सम्पादयतु]

मुख्यलेखः : गणितम्

आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपद्धतिः । शून्यं, दशांशपद्धतिः, सङख्याः, मूल्यम् इत्यादयः बहवः अंशाः भारतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । पैथगोरियन् सिद्धान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः उ पादवर्गः अ लम्बवर्गः ) स च सिद्धान्तः पैथगोरसस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरूपितः आसीत् ।

तत्कृत्योर्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् ।
मूलं कोटिः कोटिश्रुतिकृत्योः अन्तरात् पदं बाहुः ।। इति उच्च्यते ।

पिङगलाचार्यः छन्दःशास्त्रे मेरुप्रस्तारम् अधिकृत्य यत् प्रतिपादयति तदेव पास्कल्नामकेन अन्विष्टम् इति वयं पाठ्यपुस्तकेषु पठामः । । अहो विचित्रा अस्माकं विद्याभ्यासरीतिः !

भौतशास्त्रम्[सम्पादयतु]

मुख्यलेखः : भौतशास्त्रम्
ऊर्जसंरक्षणनियमः, अणुसिद्धान्तः, द्र्व्यनिर्माणम् इत्यादयः विषयाः वैदिककालादारभ्य भारते प्रसृताः दृश्यन्ते । शब्दस्य प्रकाशस्य च गतिः स्वभावादयश्च न्यायवैशेषिकमीमांसादिषु चर्चाविषयाः जाताः दृश्यन्ते । शब्दाः वायौ प्रचयम् अपचयं च निर्माय सञ्चरति । तरङ्गरूपस्य अस्य शब्दस्य प्रतिफलनम् अपि चर्चितः अस्ति । प्रकाशस्य प्रतिफलनम्, अपभ्रंशः इत्यादयः विषयाः तर्कशास्त्रे दृश्यन्ते । एते विषयाः वात्स्यायनभाष्ये रश्मिपरावर्तनशब्देन निर्दिष्टाः । प्रकाशवेगः, द्वैतस्वभावः इत्यादयः क्रिस्तीयनवमशतके जातेन आचार्यवाचस्पतिमिश्रेण विरचितायां तात्पर्यटीकायां प्रतिपादिताः । एते च विषयाः पाश्चात्यपण्डितैः सप्तदशे शतके ज्ञाताः । क्वाण्टम् सिद्धान्तम् अधिकृत्य अपि उपनिषत्सु चर्चा कृता दृश्यते ।

सायणाचार्यः प्रकाशस्य वेगम् एवं प्रतिपादयति –

योजनानं सहस्रे द्वे द्वे शते द्वे च योजने ।
एकेन निमिषार्धेन क्रममाण नमोऽस्तुते ।। इति

अस्य व्याख्याने प्रकाशवेगः ६४०००क्रोशमितः (१८५००मैल्परिमितः) इति उक्तम् अस्ति । आधुनिकाः च प्रकाशवेगं १८६२०२.३९६० मैल् मितं वदन्ति । ऊर्जं पिण्डस्य आनुपातिकं अस्ति (E=mc2) इति ऐन्स्टिन्महोदयस्य दर्शनम् इति वादः श्रूयते । “त्वाष्टृयन्त्रभ्रमिभ्रान्तमार्ताण्डज्योतिरुतज्ज्वलः” इति भवभूतेः प्रयोगं पश्यन्तु भवन्तः । विश्वकर्मणः पुत्री संज्ञा सूर्यवधूः जाता किन्तु सूर्यस्य अधिकतेजसा पीड्यमानया संज्ञया पिता बोधितः । सः पिता सूर्यं त्वाष्टृयन्त्र्म् आरोप्य ऊर्जन्यूनतां चकार इति पुराणकथा । ऊर्जपिण्डबन्धनं निरूपयति खलु एषा कथा ।
एकदा सैन्स् टुडे नामिकायां पत्रिकायां प्राकाशितम् ऐन्स्टिन्महाशयस्य वाक्यम् स्मरणीयम् । तत् एवं अस्ति । `You hail from India in the name of Hindu Philosophy . Yet you not cared to learn Sanskrit . Come along, see my liabrary which treasures classics from Sanskrit, the Gita and other treatises on Hindu Philosophy . They are the main source of my inspirations and guidelines for the purpose of scientific investigations and formulation of theories’ .

विमानशास्त्रम्[सम्पादयतु]

मुख्यलेखः : विमानशास्त्रम्

वायुप्रवाहतः उत्पन्नम् ऊर्जं, सौरोर्जम्, एतरेन्धनोर्जं च उपयुज्य सञ्चार्यमाणानि विमानानि अत्र आसन् । भरद्वाजमहर्षेः यन्त्रसर्वस्वम्, अगस्त्यस्य शक्तिसूत्रम्, ईश्वरस्य सौदामिनिकला, भरद्वाजस्यैव अंशुमात्तन्त्रं, शाकटायनस्य वायुतत्त्त्वप्रकरणं वैश्व मारुततन्त्रं च, नारदस्य धूमप्रकराणम् इत्यादीनां विमानशास्त्रसम्बद्धानां ग्रन्थानाम् उल्लेखाः दृश्यन्ते । भोजस्य समराङगणसूत्रधारं, शौनकमहर्षेः व्योमयानतन्त्रं, गर्गस्य यन्त्त्त्रकल्पः, नारायणस्य विमानचन्द्रिका, वाचस्पतेः यानबिन्दुः दुण्डिनाथस्य व्योमयानार्कप्रकाशिका, चक्रायणिमुनेः केतुयानप्रदीपिका इत्यादयः अनेके ग्रन्थाः अपि विमानशास्त्रसम्बद्धाः एव ।
विमानस्य अवरोहणकाले, भूस्पर्षसमये चैव अपघातस्य सम्भावना अधिक इति भरद्वाजमहर्षिः कथयति । अद्यापि समस्ति खलु सा एव स्थितिः ? विस्तारभयात् विषयोऽयं न विस्तार्यते । ।

रसतन्त्रम्[सम्पादयतु]

मुख्यलेखः : रसतन्त्रम्
रसतन्त्रविषये संस्कृतग्रन्थाः बहवः सन्ति । वाग्भटस्य रससमुच्चयः एतेषु प्राधान्यम् आवहति शिल्परत्नं, विष्णुधर्मोत्तरं, मानससारः, मानसोल्लासः, रससंहिता इत्यादयाः रसतन्त्रस्य विविधविषयान् प्रतिपादयन्ति । स्फटिकं, काचः(लेन्स्), वर्णः, सुधा(सिमेण्ट्),निर्यासः, सुगन्धवस्तूनि, कागदं, लोहाः विशिष्टमृत्पात्राणि इत्यदीनां पदार्थानां निर्माणं, रसप्रक्रिया च एतेषु ग्रन्थेषु निरूपिताः सन्ति । अत्र अनेकविधानि आम्लानि (acids) क्षाराणि(bases ) च उल्लिखितानि । एतेषाम् उपयोगेन कृत्रिमपदार्थानां निर्माणाय अपेक्षिता साङकेतिकविद्या अपि तेषु प्रतिपादिता ।

चिकित्सायाम् अपि अस्य रसतन्त्रस्य उपयोगः आसीत् । पातञ्जलमहर्षेः लोहशास्त्रं लोहसंस्करणेन लवणनिर्माणरीतिं वर्णयति । क्रि.पू. द्वितीये शतके जातस्य नागर्जुनस्य रसरत्नाकरग्रन्थः लोह्यायनिर्माणार्थं साङकेतिकव्यवस्थां निरूपयति । परीक्षणशालायाः रचनाम्, तत्रत्यानि उपकरणानि, एकैकस्यापि प्रक्रियायाः कृते आवश्यकाः तापविशेषाः, रसतः औषधनिर्माणरीतिः इत्यादयः अपि अस्मिन् ग्रन्थे सन्ति । रसस्तम्भनादयः नवदशप्रक्रियाः अपि अत्रैव वर्ण्यन्ते । एकादशशतकीयः (क्रि.श.११) रसार्णवग्रन्थः लोहस्य विविच्य ज्ञानाय ज्वालापरीक्षणव्यवस्थां (flame test) वर्णयति । देहलीस्थः विष्णुस्थम्भः अजन्ताचित्राणि च भारतीयरसतन्त्रस्य प्रत्यक्षोदाहरणानि सन्ति ।

जीवशास्त्रम्[सम्पादयतु]

मुख्यलेखः : जीवशास्त्रम्

चरकसंहिता, सुश्रुतसंहिता, अष्टाङगहृदयं, भावप्रकाशः इत्यादयः प्रसिद्धाः आयुर्वेदग्रन्थाः केचन । शस्त्रक्रिया, प्रतिरोधचिकित्सा च प्राचीनकालात् एव अत्र आसीत् । ९२७ तमे क्रिस्ताब्दे भोजराजस्य मस्तिष्कशस्त्रक्रियां जीवकः नाम वैद्यः कृतवान् इति श्रूयते । सुश्रुतसंहितायां शस्त्रक्रियोपकारकाणि शस्त्रयन्त्रादीनि बहूनि उल्लिखितनि । भावमिश्रस्य भावप्रकाशे रक्तसञ्चारविषये अपि उच्यते । चिकित्सार्थं मोहनिद्रायाः (हिप्नाटिसम्) उपयोगः भारते एव ऐदम्प्राथम्येन कृतः ।
वृक्षायुर्वेदः, गजायुर्वेदः, अश्वायुर्वदः इत्यादयः निरवधिशाखाः तिर्यग्जीवशास्त्रम् अधिकृत्य प्रवृत्ताः । तेषां रोगाः, तच्चिकित्सा, तेषाम् आहारः इत्यादयाः अपि तत्र वर्णिताः । मृगवैद्यकस्य पिता इति विख्यातेन शालिहोत्रेण अश्वलक्षणम्, अश्वप्रश्नः इत्यादयः ग्रन्थाः रचिताः । गौतमस्य गावायुर्वेदः, पालकाप्यस्य हस्तायुर्वेदः च लोके प्रसिद्धौ । वराहमिहिरस्य बृहत्संहिता वृक्षशुश्रूषाम् अधिकृत्य वदति ।

ज्योतिश्शास्त्रम्[सम्पादयतु]

असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रूढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य स्वरूपं चपलः सरक्तगौरः मज्जासारश्च माहेयः इत्येवम् उक्तवान् अस्ति । उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते इति । कुजः (भूमिपुत्रः) इति शब्दः एव तद्ग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? सूर्यादीनां सञ्चारः भ्रममूलः, ग्रहाणां स्वप्रकाशता नास्ति इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः । एते विषयाः इतःपूर्वं परिचायिताः इत्यतः विरम्यते विस्तरात् ।

वास्तुविद्या[सम्पादयतु]

मुख्यलेखः : वास्तुविद्या

सिन्धुसभ्यताचित्राणि प्रायः सर्वानपि आश्चर्यचकितान् कुर्वन्ति एव । तत्रत्या वास्तुविद्या अतिप्राचीना अत्युत्कृष्टा च । कर्णाटके बेलूरे विद्यमानः भूमिस्पर्शरहितः स्तम्भः, कोणार्कक्षेत्रे सूर्यदेवालयः, शृङगेरिस्तम्भाः, अनन्तपुरीस्थाः सप्तस्वरप्रभावाः मण्डपाधारः स्तम्भाः, अजन्ता–एल्लोरगुहाः देहलीस्थः विष्णुस्तम्भः इत्यादयः अनेके अंशाः भारतीयवास्तुविद्यायाः गरिमाणं प्रामाणीकुर्वन्ति । मयमतं, मयसारः, मनुष्यालयचन्द्रिका, सुप्रभेदागमः, वास्तुरत्नावली, कामिकागमः, बृहद्वास्तुमाला इत्यादिषु अनेकेषु ग्रन्थेषु वास्तुशास्त्रं निरूपितम् अस्ति ।

सङ्गीतम्[सम्पादयतु]

मुख्यलेखः : सङ्गीतम्

संङ्गीतम् अधिकृत्य न बहु वक्तव्यम् अस्ति । यतः एतस्मिन् विषये सर्वे जानन्ति एव । चिकित्सार्थम् अपि सङ्गीतम् उपयुज्यते स्म अस्मदाचार्यैः । संङ्गीतचिकित्सारत्नाकरनामकः ग्रन्थः ३४८०० रोगाणां विषये विस्तरेण वदति । तेषां चिकित्सोपयोगिताम् अपि प्रतिपादयति सः ग्रन्थः । एकैकः अपि संस्कृतज्ञाः एकैकशास्त्रस्य पारङगतः सन् तत्तच्छास्त्रस्य परिरक्षणं प्रसारं च करोतु इति अपेक्षा ।

"https://sa.wikipedia.org/w/index.php?title=संस्कृते_किं_नास्ति_%3F&oldid=361640" इत्यस्माद् पुनः प्राप्तिः