सामग्री पर जाएँ

सङ्गणककार्यविधिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सङ्गणककार्यविधिः वा सङ्केतलेखनम् इत्येतत् सङ्गणकद्वारा करणीयकार्याणां कृते अनुकरणीयानां निर्देशानां अनुक्रमस्य रचना अस्ति, यः ‘कार्यविधिः’ इत्याख्यायते। एषः प्रक्रिया एकस्मिन् वा अधिकेषु सङ्गणककार्यविधिभाषासु सङ्केतलेखनद्वारा क्रमशः निर्दिष्टानां प्रक्रियाणां रूपरेखायाः निर्माणं, कार्यान्वयनं च आवहति।[][]

कार्यविधिकाराः सामान्यतः उच्चस्तरीयकार्यविधिभाषाः प्रयुञ्जते, याः मानवानां कृते यथासम्भवम् अधिकं बोधगम्याः भवन्ति, यः सङ्गणकस्य केन्द्रीयप्रक्रियासंयन्त्रेण प्रत्यक्षं सञ्चालितः यः यन्त्रसङ्केतः तस्मात् सुलभतरः। कुशलं सङ्गणककार्यविधिं साधयितुं बहुषु विषयेषु प्रावीण्यं आवश्यकं, यथा—अनुप्रयोगक्षेत्रज्ञानम्, कार्यविधिभाषाणां विवरणम्, सामान्यसङ्केतपुस्तकालयानां ज्ञानम्, विशिष्टानां सूत्रनियमानां ज्ञानम्, तर्कशास्त्रस्य च परिज्ञानम्।

कार्यविधेः सहकार्यरूपेण च सम्बन्धिनि कार्याणि सन्ति—यथा आवश्यकतानां विश्लेषणम्, परीक्षणम्, दोषान्वेषणं च (दोषानां अन्वेषणं, परिष्कारः च), निर्माणप्रणालीनां कार्यान्वयनम्, निष्पन्नवस्तूनां व्यवस्थापनं च, यथा कार्यविधेः यन्त्रसङ्केतः इत्यादयः।

एतानि कार्याणि यद्यपि कदाचित् कार्यविधेः अङ्गानि इत्येव परिगण्यन्ते, तथापि सामान्यतः ‘सङ्गणककर्मविधिःविकसनम्’ इत्येतत् विस्तृतप्रक्रियायाः नाम्ना निर्दिश्यते। अत्र ‘कार्यविधिः’, ‘कार्यान्वयनम्’, ‘सङ्केतलेखनम्’ इत्येतानि केवलं सङ्केतलेखनस्य सम्पादनस्य च कृते प्रयुज्यन्ते।

कदाचित् सङ्गणक-कर्मविधिःविकसनम् ‘सङ्गणक-कर्मविधिःअभियान्त्रिकी’ इत्यपि कथ्यते, विशेषतः यदा औपचारिकविधीनां प्रयोगः क्रियते, अभियान्त्रिकरचनाप्रक्रियायाः अनुकरणं वा क्रियते।

सन्दर्भः

[सम्पादयतु]
  1. Bebbington, Shaun (2014). "What is coding". Tumblr. Archived from the original on 2020-04-29. Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  2. Bebbington, Shaun (2014). "What is programming". Tumblr. Archived from the original on 2020-04-29. Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=सङ्गणककार्यविधिः&oldid=495534" इत्यस्माद् प्रतिप्राप्तम्